Saturday 30 November 2013




रघुवंशमहाकाव्यम्

तृतीयः सर्गः


अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखं
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ।१।।

अथेति। अथ गर्भधारणानन्तरं सुदक्षिणा। उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम्। भावे क्तः। पुनः सखीजनस्योद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् यद्वा कौमुदी नाम दीपोत्सवतिथिः। तदुक्तं भविष्योत्तरे-'कौ मोदन्तेजना यस्यां तेनासौ कौमुदी मताइति। तस्या मुखं प्रारम्भम्। 'सखीजनोद्वीक्षणकौमुदीभहम्'-इति पाठं केचित्पठन्ति। इक्ष्वाकुकुलस्य सन्ततेरविच्छेदस्य निदानं मूलकारणम्। निदानं त्वादीकारणम् इत्यमरः। एवंविधं दौर्हृदलक्षणं गर्भतिह्नं वक्ष्यमाणं दधौ। स्वहृदयेन गर्भहृदयेन च द्विहृदया गर्भिणी। यथाह वाग्भटः-'मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत्। सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम्।।इति। तत्सम्बन्धित्वाद् गर्भो दौर्हृदमित्युच्यते। सा च तद्योगाद्दौर्हृदिनीति। तदुक्तं संग्रहे-'द्विहृदया नारीं दौहृदिनीमाचक्षते।इति। अत्र दौर्हृदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद् रूपकालङ्कारः। अस्मिन् सर्गे वंशस्थं वृत्तम्-'जतौ तु वंशस्थमुदीरितं जरौइति लक्षणात्।।१।।

 शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्यत लोध्रपाण्डुना।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी।।२।।

शरीरेति। शरीरस्य सादात् कार्श्यादसमग्रभुषणा परिमिताभरणा लोघ्रपुष्पेणेव पाण्डुना  मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शक्तिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः। 'तसिलादिष्वाकृत्वसुच्इति प्रभातशब्दस्यपुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः-'क्षामता गरिमा कुक्षेर्मूर्च्छा छर्दिरोचकम्। जृम्भा प्रसेकः सदनं रेमराज्याःप्रकाशनम्।।इति।।२।।

तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्।।३।।

तदिति। क्षितीश्वरो रहसि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्तिं न ययौ। कः कमिव। शुचिव्यपाये ग्रीष्मावसाने। 'शुचिःशुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि।।इति विश्वः। पयोमुचां मेघानां पृषतैबिन्दुभिः। 'पृषन्ति बिन्दुपृषताःइत्यमरः। सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव। अत्र करिवनराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसन्धेयः। गर्भिणीनां मृद्बक्षणं लोकप्रसिद्धमेव। एतेन दोहदाख्यं गर्भलक्षणमुच्यते।।३।।

दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङघ्य सा।।४।।

हि यस्माद्दिगन्तविश्रान्तरथः(दिगन्ते दिशां प्रान्ते विश्रान्तः रथः स्यन्दनो यस्य सःचक्रवर्ती तस्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः।'' इन्द्रो मरुत्वान्मघवा'' इत्यमरः। दिवं स्वर्गमिव। भुवं (महींभोक्ष्यते।'' भुजोनवने'' इत्यामनेपदम्। अतः प्रथमं (पूर्वंसा सुदक्षिणा तथाविधे भूविकारे मृद्रूपे। अभिलष्यत इत्यभिलाषो भोग्यवस्तु। तस्मिन्। कर्मणि घञ्प्रत्ययः। रस्यन्ते स्वाद्यन्त  इति रसा भोग्यार्थाः। अन्ये च ते रसाश्च तान् (मधुरतिक्ताम्लान्विलङ्घ्य विहाय मनो बबन्ध (भावं चक्रेविदधावित्यर्थः। दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते।।४।।

न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः।।५।।

मगधस्य राज्ञोपत्यं स्त्री मागधी सुदक्षिणा। ''द्व्यञ्मगधकलिङ्गसूमसादण्'' इत्यण्प्रत्ययः। ह्रिया (लज्जयाकिंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे। केषु वस्तुषु स्पृहावती (साभिलाषाइत्यनुवेलमनुक्षणमादृत आदृतवान्। कर्तरि क्तः। ''आदृतौ सादरार्चितौ'' इत्यमरः। प्रियायाः सखीः सहचरीरुत्तरकोशलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ। ''लट् स्मे'' इत्यनेन भूतार्थे लट्। सखीनां विश्रम्भभूमित्वादिति भावः।।५।।

उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम्।
न हीष्टमस्य त्रिदिवेपि भूपतेरभूदनासाद्यमधिज्यधन्वनः।।६।।

उपेत्येति। दोहदं गर्भिणीमनोरथः। 'दोहदं दौर्त्हूदं श्रद्धा लालसं च समं स्मृतम्इति हलायुधः। सा सुदक्षिणा दोहदेन गर्भिणी मनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यद्वस्तु वव्रे आचकाङ्क्ष तदाहृतमानीतम्। भर्त्रेति शेषः। अपश्यदेव। अलभतेत्यर्थः। कुतः। हि यस्मादस्य भूपतेस्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत्। किं याञ्चया। नेत्याह अधिज्यधन्वन इति। नहि वीरपत्नीनामलभ्यं नाम किञ्चदस्तीति भावः। अत्र वाग्भटः 'पादशोफो विदाहोऽन्ते श्रद्धा च विविधात्मिकाइति। एतच्च पत्नीमनोरथपूरणाकरणे दृष्टदोषसम्भवाद् न तु राज्ञः प्रीतिलौल्यात्। तदुक्तम् 'देयमप्यहितं तस्यै हितोपहितमल्पकम्। श्रद्धाविधाते गर्भस्य विकृतिश्च्युतिरेव वा।।अन्यत्र च 'दोहदस्याप्रदानेन गर्भों दोषमवाप्नुयात्इति।। ६।।

क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा।
पुराणपत्त्रापगमादनन्तरं लतेव संनद्धमनोजपल्लवा।।८।।

दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थलम्(अत्यर्थमांसलं)।आ समन्तान्नीले मुखे चूचुके यसेय तत्। तदीयं स्तनद्वयम्(कुचयुग)। ब्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः। सुजातं सुन्दरं प्रोक्तं सत्यजाते च वस्तुनीति विक्रमः-चा पङ्कजकोशयोः पद्ममुकुलयोः श्रियं शोभां तिरश्चकार। अत्र वाङ्भटःअम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ इति।।८।।

निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम्।
नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत।।९।।

नृपः ससत्त्वामापन्नसत्त्वाम् सगर्भां गर्भिणींमित्यर्थः। आपन्नसत्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी इत्यमरः। महिषीम् पट्टराज्ञीं । निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम्। भूमिमिवेत्यर्थः। भूतधात्री रत्नगर्भा विपुला सागराम्बरा इति कोशः। अभ्यन्तरे मध्ये लीनः लग्नः पावकः अग्निः यस्यास्तां शमीमिव। शमीतरौ वह्निरस्तीत्यत्र लिङ्गं शमीगर्भादग्निं जनयतीति। अन्तःसलिलामन्तर्गतजलां सरस्वतीं म्लेच्छदेशेषु सा ह्यन्तर्धाय भूयः पुण्यप्रदेशेषूद्भवतीति पुराणवार्तेति-व सरस्वत्याः ऊर्ध्वं वालुकाः पातालान्तर्गतंजलमितिवार्तामात्रं-चा नदीमिव एतेनपीनत्वोक्तिः-चा।
अमन्यत। एतेन गर्भस्य भाग्यवत्त्वतेजस्वित्वपावत्वानि विवक्षितानि मालोपमाचा।।९।।

प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम्।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः।।१०।।

धीरः स राजा प्रियायामनुरागस्य स्नेहस्य। मनसः समुन्नतेरौदार्यस्य। भुजेन भुजबलेन करेण वार्जितानाम्। न तु वाणिज्यादिना। दिगन्तेषु संपदाम्। धृतेः पुत्रो मे भविष्यतीति संतोषस्य च। धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु इति विश्वः। सदृशीरनुरूपाः। पुमान्सूयतनेनेति पुंसवनम् (व्यक्ते गर्भे तृतीये तु मासे पुंसवनं भवेत्। गर्भेव्यक्ते तृतीये चेच्चतुर्थे मासिवा भवेदिति शौनकः। कुर्यात्पुंसवनं प्रसिद्धविषये गर्भे तृतीयेथवा। मासि स्फीततनौ तुषारकिरणे पुष्येथवा वैष्णवे इति वशिष्ठः)। तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान्। आदिशब्देनानवलाभनसीमन्तोन्नयने गृह्येते। अत्र मासि द्वितीये तृतीये वा पुंसवनं यदाह-पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात् इति पारस्करः। चतुर्थेनवलोभनम् इत्याश्वलायनः। षष्ठेष्टमे वा सीमन्तोन्नयनम् इति याज्ञवल्क्यः।।१०।।

सुरेन्द्रमात्राश्रितगर्भोरवात्प्रयत्नमुक्तासनया गृहागतः।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।।११।।

गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य गर्भस्य गौरवाद्भारात्प्रयत्नेन मुक्तासनया। आसनादुत्थितयेत्यर्थः। उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया (उपचारार्थं योञ्जलिस्तेन खिन्नौ हस्चौ यस्याः तया तथोक्तयापारिप्लवनेत्रया तरलाक्ष्या। चञ्चलं तरलं चैव पारिप्लवपरिप्लवे इत्यमरः। तया सुदक्षिणया ननन्द। सुरेन्द्रमात्राश्रितइत्यत्र मनुःअष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः इति।।११।।