Saturday 22 August 2015

nyayabodhini

।।तर्कसंग्रहः।।


निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः।।


न्यायबोधिनी

अखिलागमसञ्चारि श्रीकृष्णाख्यं परं महः।
ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम्।।
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति-निधायेति।
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः।
अथ पदार्थान् विभजते-द्रव्येति। तत्र सप्तग्रहणं पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्याप्तिलाभाय।
ननु शक्तिपदार्थस्याऽष्टमस्य सत्त्वात्कथं सप्तैवेतिॽ तथाहि- वह्निसयुक्तेन्धनादौ सत्यपि मणिसंयोगे दाहो न जायते, तच्छून्येन तु जायते। अतो मणिसमवधाने शक्तिर्नश्यति, मण्यभावदशायां दाहानुकूला शक्तिरुत्पद्यत इति कल्प्यते। तस्माच्छक्तिरतिरिक्तः पदार्थ इति चेन्न, मणेः प्रतिबन्धकत्वेन मण्यभावस्य कारणत्वेनैव निर्वाहे मणिसमवधानासमवधानाभ्यामनन्तशक्ति-तद्ध्वंस-तत्प्रागभाव-कल्पनाया अन्याय्यत्वात्। तस्मात्सप्तैवेति सिद्धम्।
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव।
द्रव्याणि विभजते- पृथिवीति। नन्वन्धकारस्य दशमद्रव्यस्य सत्त्वात्कथं नवैवेतिॽ तथाहि- नीलं तमश्चलतीति प्रतीतेर्नीलरूपाऽश्रयत्वेन क्रियाऽश्रयत्वेन च द्रव्यत्वं सिद्धम्। न च क्लृप्तद्रव्येष्वन्तर्भावात्कुतो दशमद्रव्यत्वमिति वाच्यम्। तमसो रूपवत्त्वात्, आकाशादिपञ्चकस्य वायोश्च नीरूपत्वान्न तेष्वन्तर्भावः, तमसो निर्गन्धत्वान्न पृथिव्याम् अन्तर्भावः, जलतेजसोः शीतोष्णस्पर्शवत्वान्न तयोरन्तर्भावः, तस्मात्तमसो दशमद्रव्यत्वं सिद्धमिति चेन्न, तेजोऽभावरूपत्वेनैवोपपत्तावतिरिक्ततत्कल्पनायां मानाभावात्। न च विनिगमनाविरहात्तेज एव तमोऽभावस्वरूमस्त्विति वाच्यम्, तेजसोऽभावस्वरूपत्वे सर्वानुभूतोष्णस्पर्शाश्रयद्रव्यान्तरकल्पने गौरवात्। तस्मादुष्णस्पर्शगुणाऽश्रयतया तेजसो द्रव्यत्वं सिद्धम्। तमसि नीलत्वादिप्रतीतिस्तु भ्रान्तिरेव। दीपाऽपसरणक्रियाया एव तत्र भानात्।
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेष- प्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः। उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि। परमपरं चेति द्विविधं सामान्यम्। नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव। समवायस्त्वेक एव। अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्याभावश्चेति।

इत्युद्देशप्रकरणम्।


अथ द्रव्यप्रकरणम्।

तत्र गन्धवती पृथिवी। सा द्विविधा नित्याऽनित्या च। नित्या परमाणुरूपा। अनित्या कार्यरूपा। सा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति। विषयो मृत्पाषाणादिः।
गन्धवतीति। गन्धवत्त्वं पृथिव्या लक्षणम्। लक्ष्या पृथिवी। पृथिवीत्वं लक्ष्यतावच्छेदकम्। यद्धर्मावच्छिन्नं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यो धर्मो यस्यावच्छेदकः, स तद्धर्मावच्छिन्नः। तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं चेल्लक्ष्यता पृथिवीत्वावच्छिन्ना। गन्धसमानाधिकरणद्रव्यत्व- व्याप्यजातिमत्त्वं पृथिव्या लक्षणम्। एवं शीतस्पर्शवत्त्वादिलक्षणेषु जलादीनां लक्ष्यता, जलत्वादीनां लक्ष्यतावच्छेदकत्वं च बोध्यम्।
शीतस्पर्शवत्य आपः। ताश्च द्विविधा नित्या अनित्याश्चेति। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। ताः पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः।
उष्णस्पर्शवत् तेजः। तच्च द्विविधं नित्यमनित्यं च। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरम् आदित्यलोके प्रसिद्धम्। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात्। भौमं वह्न्यादिकम्। अबिन्धनं दिव्यं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि।
रूपरहीतः स्पर्शवान् वायुः। स द्विविधो नित्योऽनित्यश्च। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः। शरीरान्तःसंचारी वायुः प्राणः, स च एकोऽप्युपाधिभेदात् प्राणापानादिसंज्ञां लभते।
एवं पृथिव्यादित्रिकं निरूप्य वायुं निरूपयति- रूपरहित इति। रूपरहितत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम्। सतिसप्तम्या विशिष्टार्थकतया रूपरहितत्वविशिष्टस्पर्शवत्त्वं वायोर्लक्षणम्। विशेषणांऽशानुपादाने स्पर्शवत्त्वमात्रस्य लक्षणत्वे पृथिव्यादित्रिकेऽतिव्याप्तिः, तद्वारणाय विशेषणोपादानम्। तावन्मात्रोपादाने आकाशादावतिव्याप्तिः, तद्वारणाय विशेष्योपादानम्।
अतिव्याप्तिर्नाम- अलक्ष्ये लक्षणसत्त्वम्। यथा- गोः शृङ्गित्वं लक्षणं कृतं चेल्लक्ष्यभूतगोभिन्नमहिष्यादावतिव्याप्तिस्तत्रापि शृङ्गित्वस्य विद्यमानत्वात्। अव्याप्तिर्नाम- लक्ष्यैकदेशावृत्तित्वम्। लक्ष्यैकदेशे लक्ष्यतावच्छेदकाश्रयीभूते क्वचिल्लक्ष्ये लक्षणासत्त्वम् अव्याप्तिरित्यर्थः। यथा गोर्नीलरूपवत्त्वं लक्षणं कृतं चेल्लक्ष्यतावच्छेदकाश्रयीभूतश्वेतगवि अव्याप्तिस्तत्र नीलरूपाभावात्। असम्भवो नाम- लक्ष्यमात्रे कुत्रापि लक्षणासत्त्वम्।यथा गोरेकशफवत्त्वं (लक्षणं कृतं चेत्) गोसामान्यस्य द्विशफवत्त्वेन एकशफवत्त्वस्य कुत्राप्यसत्त्वात्।
अतिव्याप्त्यव्याप्त्यसम्भवानां निष्कृष्टलक्षणानि- लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेद- सामानाधिकरण्यमतिव्याप्तिः। अव्याप्तिस्तु लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्। असम्भवस्तु लक्ष्यतावच्छेदकव्यापकीभूता- भावप्रतियोगित्वम्।
शब्दगुणकम् आकाशम्। तच्चैकं विभु नित्यञ्च।
आकाशं लक्षयति शब्दगुणकमिति। अत्र गुणपदमाकाशे शब्द एव विशेषगुण इति द्योतनाय न त्वतिव्याप्तिवारणाय, समवायेन शब्दवत्त्वमात्रस्य सम्यक्त्वात्। तच्चैकमिति। अनेकत्वे मानाभावादिति भावः। विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्। मूर्तत्वञ्च क्रियावत्वम्। पृथिव्यप्तेजोमनांसि मूर्तानि। पृथिव्यप्तेजोवाय्वाकाशेतिपञ्चकं भूतपदवाच्यम्। भूतत्वं नाम बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्।
अतीतादिव्यवहारहेतुः कालः। स चैको विभुर्नित्यश्च।
कालं लक्षयति अतीतेति। व्यवहारहेतुत्वस्य लक्षणत्वे घट इति व्ववहारहेतुभूतघटादावतिव्याप्तिः, तद्वारणाय अतीतादिविशेषणोपादानम्।
प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च।
दिशो लक्षणमाह- प्राच्येति। उदयाचलसन्निहिता या दिक् सा प्राची। अस्ताचलसन्निहिता या दिक् सा प्रतीची। मेरोः सन्निहिता या दिक् सा उदीची। मेरोर्व्यवहिता या दिक् सा अवाची।
ज्ञानाधिकरणम् आत्मा। स द्विविधः परमात्मा जीवात्मा चेति। तत्रेश्वरः सर्वज्ञः परमात्मैक एव। जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च।
आत्मानं निरूपयति ज्ञानाधिकरणमिति। अधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभाय।
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च।
मनो निरूपयति- सुखादीति। उपलब्धिर्नाम साक्षात्कारः। तथा च सुखदुःखादिसाक्षात्कारकारणत्वे सतीन्द्रियत्वं मनसो लक्षणम्। इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः, अतः सुखादिसाक्षाकारकारणत्वविशेषणम्। विशेष्यानुपादाने आत्मन्यतिव्वाप्तिः, आत्मनः सुखादिकं प्रति समवायिकारणत्वात्। अत इन्द्रियत्वरूपविशेष्योपादानम्।

अथ गुणप्रकरणम्।

चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरं शुक्लं तेजसि।
रुपं लक्षयतिचक्षुरिति। चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रुपस्य लक्षणम्। विशेष्यमात्रोपादाने रसादावतिव्याप्तिः,  अतश्चक्षुर्मात्रग्राह्यत्वं विशेषणम्। तावन्मात्रोपादाने रूपत्वेऽतिव्यप्तिः, यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिस्तदिन्द्रियग्राह्येति नियमात्तद्वारणाय विशेष्योपादानम्। चक्षुमात्रग्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रियाऽग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्। मात्रपदानुपादाने संख्यादिसामान्यगुणेऽतिव्याप्तिःचक्षुग्राह्यत्वविशिष्टगुणत्वस्य तत्रापि सत्त्वात्, अतस्तद्वारणाय मात्रपदम्। संख्यादेश्चक्षुर्भिन्नत्वगिन्द्रियग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति। अतीन्द्रियगुरुत्वादावतिव्याप्तिवारणाय चक्षुर्ग्राह्येति। अत्र लक्षणे ग्राह्यत्वं नाम प्रत्यक्षविषयत्वम्। अग्राह्यत्वं नाम तदविषयत्वम्। तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाऽविषयत्वे सति चक्षुर्जन्यप्रत्यक्षविषयत्वमिति फलितोऽर्थः।
ननु प्रभाघटसंयोगे रूपलक्षणस्याऽतिव्याप्तिस्तस्य चक्षुर्मात्रग्राह्यगुणत्वादिति चेन्नगुणपदस्य विशेषगुणपरत्वात्। न चैवं विशेषगुणत्वघटितलक्षणे संख्यादावतिव्याप्त्यभावान्मात्रपदवैयर्थ्यमिति वाच्यम्, जलमात्रवृत्तिसांसिद्धिकद्रवत्वादावतिव्याप्तिवारणाय तदुपादानात्। अथवा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादावतिव्याप्तिः। संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात्। घटपटसंयोगस्य त्वगिन्द्रयग्राह्यत्वात्तद् गतजातेरपि त्वगिन्द्रियग्राह्यत्वात्। यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठजातेरपि तदिन्द्रियग्राह्यत्वात्। अत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम्। एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुणादौ अतिव्याप्तिः। विशेष्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावतिव्याप्तिः। अतो विशेषणविशेष्ययोः उभयोरुपादनम्।
रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः। पृथिवीजलवृत्तिः। तत्र पृथिव्यां षड्विधः। जले मधुर एव।
घ्राणग्राह्यो गुणो गन्धः। स द्विविधः सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः।
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स च त्रिविधः शीतोष्णानुष्णाशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः। तत्र शीतो जले। उष्णस्तेजसि। अनुष्णाशीतः पृथिवीवाय्वोः।
स्पर्शं लक्षयति- त्वगिन्द्रियमात्रग्राह्य इति। अत्रापि मात्रपदं संख्यादिसामान्यगुणादावतिव्याप्तिवारणाय। अन्यविशेषणकृत्यं पूर्ववद्बोद्ध्यम। ग्राह्यत्वपदार्थोऽपि पूर्ववदेव प्रत्यक्षविषयत्वरूप एव बोध्यः।
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च। अन्यत्र अपाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्।
रूपादिचतुष्टयमिति। एतत्तत्त्वनिर्णयश्चेत्थं- पाको नाम विजातीयतेजः संयोगः। स च नानाजातीयरूपजनको विजातीयतेजःसंयोगः। तदपेक्षया रसजनको विजातीयः। एवं गन्धजनकोऽपि ततो विजातीय एव। एवं स्पर्शजनकोऽपि तथैव ।एवं प्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः। यथा तृणपुञ्जनिक्षिप्ते आम्रादौ उष्णलक्षणविजातीयतेजःसंयोगात्पूर्वहरितरूपनाशेन रूपान्तरस्य पीतादेरुत्पत्तिर्न तु रसादेरुत्पत्तिः, पूर्वरसस्याऽम्लस्यैवानुभवात्। क्वचित्पूर्वहरितरूपसत्त्वेऽपि रसपरावृत्तिर्दृश्यतेविजातीयतेजःसंयोगरूपपाकवशात्पूर्वतनाऽम्ल- रसनाशेन मधुररसस्यानुभवात्। तस्माद्रूपजनकापेक्षया रसजनको विलक्षण एवाङ्गीकार्यः। एवं गन्धजनको विलक्षण एव, रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशेऽपि विजातीयपाकवशात्सुरभिगन्धोपलब्धेः। एवं स्पर्शजनकः। पाकवशात्कठिनस्पर्शनाशेन मृदुस्पर्शानुभवात्। तस्माद्रूपादिजनका विजातीया एव पाकाः। अत एव पार्थिवपरमाणूनामेकजातीयत्वेऽपि पाकमहिम्ना विजातीयद्रव्यान्तरानुभवःयथा-गोभुक्ततृणादीनामापरमाण्वन्तभङ्गे तृणारम्भकपरमाणुषु विजातीयतेजःसंयोगात् पूर्वरूपादिचतुष्टयनाशे तदन्तरं दुग्धे यादृशं रूपादिकं वर्तते तादृशरूपरसगन्धस्पर्शजनकास्तेजःसंयोगा जायन्ते। तदुत्तरं तादृशरूपरसादय उत्पद्यन्ते। तादृशरूपरसादिविशिष्टपरमाणुभिर्दुग्धद्व्यणुकमारभ्यतेततस्त्र्यणुकादिक्रमेण महादुग्धारम्भः। एवं दुग्धारम्भकैः परमाणुभिरेव दध्यारभ्यते। एवं पाकमहिम्ना दध्यारम्भकैरेव परमाणुभिर्नवनीतादिकमिति दिक्।
एकत्वादिव्यवहारहेतुः संख्या। सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यम् अनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्राऽनित्यमेव।
मानव्यवहारासाधारणकारणं परिमाणम्। नवद्रव्यवृत्ति। तच्चतुर्विधम्। अणु महद्दीर्घं हृस्वं चेति।
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति।
संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः।
संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः।
विभागं लक्षयति- संयोगेति। संयोगनाशकत्वविशिष्टगुणत्वं विभागस्य लक्षणम्। विशेषणमात्रोपादाने क्रियाया अपि संयोगनाशकत्वात् तत्रातिव्याप्तिस्तद्वारणाय गुणत्वमिति विशेष्योपादानम्।
परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे दिक्कृते कालकृते च। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्।
आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति।
गुरुत्वं लक्षयति- आद्येति। द्वितीययतनक्रियायां वेगस्याऽसमवायिकारणत्वात् तत्रातिव्याप्तिवारणाय आद्येति। उत्तरत्र स्यन्दने आद्यविशेषणमपि पुर्ववदेव योजनीयम्।
आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिव्यप्तेजोवृत्ति। तद्द्विविधं सांसिद्धिकं नैमित्तिकं च। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ।
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्तिः।
स्नेहं लक्षयति- चूर्णादीति। चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम्। पिण्डीभावो नाम चूर्णादेः धारणाऽकर्षणहेतुभूतो विलक्षणः संयोगः। तादृशसंयोगे स्नेहस्यैवाऽसाधारणाकारणत्वंन तु जलादिगतद्रवत्वस्य। तथा सति द्रुतसुवर्णादिसंयोगेन चूर्णादेः पिण्डीभावापत्तेः अतः स्नेह एवासाधारणं कारणम्। विशेषणमात्रोपादाने कालादावतिव्यप्तिरतस्तद्वारणाय विशेष्योपादानम्। वस्तुतस्तु द्रुतजलसंयोगस्य एव पिण्डीभावहेतुत्वंस्नेहस्य पिण्डीभावहेतुत्वे मानाभावात्। जले द्रुतत्वविशेषणात् करकादिव्यावृत्तिः।
श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिः। स द्विविधः। ध्वन्यात्मको वर्णात्मकश्चेति। तत्र ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः।
शब्दं लक्षयति- श्रोत्रेति। शब्दत्वेऽव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय श्रोत्रेति। स त्रिविधः- संयोगजो विभागजः शब्दजश्चेति। यथा भेरीदण्डसंयोगजो झंकारादिशब्दःहस्ताभिघातसंयोगजन्यो मृदङ्गादिशब्दः, वंशे पाट्यमाने दलद्वयविभागजश्चटचटाशब्दः। शब्दोत्पत्तिदेशमारभ्य श्रोत्रदेशपर्यन्तं वीचितरङ्गन्यायेन कदम्बमुकुलन्यायेन वा निमित्तपवनेन शब्दधारा जायन्ते। तत्र उत्तरोत्तरशब्दे पूर्वपूर्वशब्दः कारणम्।
सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः। सा द्विविधा स्मृतिरनुभवश्च।
बुद्धेर्लक्षणमाह- सर्वव्यवहारेति। व्यवहारः शब्दप्रयोगः। ज्ञानं विना शब्दप्रयोगासम्भावाच्छब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्य लक्षणम्। बुद्धिं विभजतेसा द्विविधेति।
संस्कारमात्रजन्यं ज्ञानं स्मृतिः।
स्मृतिं लक्षयति- संस्कारेति। संस्कारमात्रजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम्। विशेषणानुपादाने प्रत्यक्षानुभवेऽतिव्याप्तिः अतस्तद्वारणाय विशेषणोपादानम्। संस्कारध्वंसेऽतिव्याप्तिवारणाय विशेष्योपादानम्। ध्वंसम्प्रति प्रतियोगिनः कारणत्वात् संस्कारध्वंसे अपि संस्कारजन्यत्वस्य सत्त्वात्। प्रत्यभिज्ञायामतिव्यप्तिवारणाय मात्रपदम्।
तद्भिन्नं ज्ञानमनुभवः। स द्विविधो यथार्थोऽयथार्थश्चेति। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा रजते इदं रजतमिति ज्ञानम्। सैव प्रमेत्युच्यते।
अनुभवं लक्षयति- तद्भिन्नमिति। तद्भिन्नत्वं नाम स्मृतिभिन्नत्वम्। तथा च स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम्। तत्र विशेषणानुपादाने स्मृतावतिव्याप्तिः। विशेष्यानुपादाने घटादावतिव्याप्तिरतस्तद्वारणाय विशेषणविशेष्ययोरुभयोरुपादानम्। अनुभवं विभजतेस द्विविधः इति।
यथार्थनुभवं लक्षयति- तद्वतीति। तद्वतीत्यत्र सप्तम्यर्थो विशेष्यत्वम्। तच्छब्देन प्रकारीभूतो धर्मो धर्तव्यः। तथा च तद्वद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम्। उदाहरणंरजते इदं रजतम् इति ज्ञानम्। अत्र रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वस्य सत्त्वाल्लक्षणसमन्वयः। तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वम् इति तु निष्कर्षः। अन्यथा यथाश्रुते रङ्गरजतयोः इमे रजतरङ्गे इत्याकारकसमूरालम्बनभ्रमेऽतिव्याप्ति, तत्रापि रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वयोः रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयोः सत्त्वात्। उक्तनिष्कर्षे तु नातिव्याप्तिः। रजतत्वप्रकारताया रजतत्वद्विशेष्यतानिरूपितत्वाभावात्। एवं रङ्गत्वप्रकारताया रङ्गत्ववद्विशेष्यतानिरूपितत्वाभावात्। किन्तु समूहालम्बनभ्रमस्य रङ्गांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रङ्गत्ववद्विशेष्यतानिरूपितत्वात्। एवं रजतांशे रङ्गत्वावगाहित्वेन रङ्गत्वप्रकारताया रजतत्ववद्विशेष्यतानिरूपितत्वात् चेति। नानामुख्यविशेष्यताशालिज्ञानं समूहालम्बनम्।
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। यथा शुक्ताविदं रजतमिति ज्ञानम्। सैव अप्रमेत्युच्यते।
अयथार्थानुभवं लक्षयति- तदभाववतीति। अत्रापि पूर्ववत् तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानत्वं विवक्षणीयम्। अन्यथा रङ्गरजतयोः इमे रङ्गरजते इत्याकारकसमूहालम्बनप्रमायामतिव्याप्तिः। एतत्समूहालम्बनस्य रङ्गरजतोभयविशेष्यकत्वेन रजतत्वरङ्गत्वोभय- प्रकारत्वेन च रजतत्वाभाववद्रङ्गविशेष्यकत्वरजतत्वप्रकारकत्वयोः, रङ्गत्वाभाववद्रजतविशेष्यकत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वात्। उक्तनिष्कर्षे तु तादृशप्रमाया रजतांशे रजतत्वावगाहित्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभावात्। एवं रङ्गत्वप्रकारताया रङ्गत्वाभाववद्रजतविशेष्यतानिरूपितत्वाभावान्नातिव्याप्तिः। उदाहरणं यथा शुक्तौ इदं रजतम् इति।
यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात्।
यथार्थानुभवं विभजते- चतुर्विध इति। तत्करणमिति। फलीभूतप्रत्यक्षादिकरणं चतुर्विधमित्यर्थः।प्रत्यक्षादिचतुर्विधप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम्। एकैकप्रमाणलक्षणं तु वक्ष्यते प्रत्यक्षानेत्यादिना।
(व्यापारवद्) असाधारणं कारणं करणम्।
करणलक्षणमाह- असाधारणमिति। व्यापारवदसाधारणं कारणं करणमित्यर्थः। असाधारणत्वं च कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता- निरूपितकारणताशालित्वम्। यथा दण्डादेर्घटादिकं प्रत्यसाधारणकारणत्वम्। कार्यत्वातिरिक्तो घटत्वादिरूपो धर्मःतदवच्छिन्नकार्यता घटे, तन्निरूपिता कारणता दण्डे। अतो घटं प्रति दण्डः असाधारणं कारणम्। भ्रम्यादिरूपव्यापारवत्त्वाच्च करणम्। साधारणकारणत्वं च कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। ईश्वरादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात् साधारणकारणत्वम्।
कार्यनियतपूर्ववृत्ति कारणम्।
कारणं लक्षयति- कार्यनियतेति। कार्यंप्रति नियतत्वे सति पूर्ववृत्तित्वं कारणत्वम्। नियतत्वविशेषणानुपादाने पूर्ववर्तिनो रासभादेरपि घटादिकारणत्वं स्यादतो नियतत्वे सतीति विशेषणम्। नियतपूर्ववर्तिनो दण्डरूपादेरपि घटकारणत्वं स्यादतः अनन्यथासिद्धपदमपि कारणलक्षणे निवेशनीयम्एवं च न तत्राऽतिव्याप्तिः, दण्डरूपादीनामन्यथासिद्धत्वात्।
कार्यं प्रागभावप्रतियोगि।
कार्यं लक्षयतिकार्यमिति। प्रागभावप्रतियोगित्वं कार्यस्य लक्षणम्। कार्योत्पत्तेः पूर्वम् इह घटो भविष्यति इति प्रतीतिर्जायते। एतत्प्रतीतिविषयीभूतो योऽभावः स प्रागभावः, प्रतियोगि घटादिरूपं कार्यम्।
कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात्।
कारणं विभजतेकारणमिति। समवायिकारणमसमवायिकारणं निमित्तकारणं चेति।
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः।
समवायिकारणं लक्षयति- यत्समवेतमिति। यस्मिन्समवेतं सत् समवायेन सम्बद्धं सत्कार्यमुत्पद्यतेतत् समवायिकारणम् इत्यर्थः। उदाहरणं यथा- तन्तव इति। येषु तन्तुषु समवायेन सम्बद्धं सत् पटात्मकं कार्यमुत्पद्यतेते तन्तवः समवायिकारणमित्यर्थः। सामान्य लक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्न कारणत्वं समवायिकारणत्वमिति। समवायसम्बन्धेन घटाधिकरणे कपालादौ, कपालादेः तादात्म्यसम्बन्धेनैव सत्त्वात् समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः।
समवायेन जन्यभावत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यस्यैव कारणत्वाज्जन्यभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम्। द्रव्ये तु द्रव्यावयवाः समवायिकारणम्। अतो गुणादावपि द्रव्यमेव समवायिकारणमित्याशयेनाह पटश्च स्वगतरूपादेः इति। समवायिकारणम् इत्यनुषज्यते।
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य च।
असमवायिकारणं लक्षयति- कार्येणेति। असमवायिकारणं द्विविधं- कार्येण सहैकस्मिन्नर्थे समवेतं सद्यत्कारणं तदसमवायिकारणम् इत्येकम्कारणेन सहैकस्मिन्नर्थे समवेतं सद्यत्कारणं तदपरमसमवायिकारणमित्यर्थः। अत्र कारणेनेत्यस्य स्वकार्यसमवायिकारणेनेत्यर्थः। जन्यद्रव्यमात्रं प्रत्यवयवसंयोगस्यैवासमवायिकारणत्वात्पटात्मककार्ये तदवयवतन्तुसंयोगस्यैवासमवायिकारणत्वमिति दर्शयन्प्रथममुदाहरति- यथा तन्तुसंयोगः पटस्येति। यथा पटात्मककार्येण सहैकस्मिन्नर्थे तन्तौ समवेतं सत्समवायसम्बन्धेन वर्तमानं सत्पटात्मककार्यम्प्रति तन्तुसंयोगात्मकं कारणमसमवायिकारणं भवतीत्यर्थः।
द्वितीयासमवायिकारणं कारणेन सहेत्यादिना पूर्वोक्तंतदुदाहरतितन्तुरूपमिति। कारणेन सह पटरूपसमवायिकारणीभूतपटेन सहएकस्मिन्नर्थे तन्तुरूपे अर्थे समवेतं सत् समवायसम्बन्धेनवर्तमानं सत्तन्तुरूपं पटगतरूपं प्रति कारणं भवति। अतः असमवायिकारणं तन्तुरूपं पटगतरूपस्य।
सामान्यलक्षणन्तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता या समवायस्वसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति। द्रव्याऽसमवायिकारणीभूताऽवयवसंयोगादौ तु समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिता समवायसम्बन्धावच्छिन्ना कपालद्वयसंयोगनिष्ठा कारणता कपालद्वयसंयोगे वर्तते। एवमाद्यपतनक्रियायामाद्यस्यन्दनक्रियायां च गुरुत्वद्रवत्वे असमवायिकारणे भवतः। आद्यपतनक्रियां प्रति आद्यस्यन्दनक्रियां प्रति च समवायसम्बन्धेनैव तयोः कारणत्वात्। अवयविगुणादौ त्ववयवगुणादेः स्वसमवायिसमवेतत्वसम्बन्धेनैव कारणत्वात्तत्सम्बन्धावच्छिन्नकारणाताश्रयत्वम् अवयवगुणादौ वर्तते। अवयवगुणीभूतकपालतन्तुरूपादेः स्वशब्दग्राह्यकपालरूपतन्तुरूपादिसमवायिकपालतन्तुसमवेतत्वसम्बन्धेन घटपटादौ सत्वात्।
तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य।
निमित्तकारणं लक्षयति- तदुभयभिन्नमिति। समवायिकारणभिन्नत्वे सतिअसमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणमित्यर्थः।
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्।
तदेतदिति। यदसाधारणमिति। व्यापारवत्वे सति इत्यपि पूरणीयम्। अन्यथा तन्तुकपालसंयोगयोरतिव्याप्तिः, तन्तुकपालसयोगयोरपि कार्यत्वातिरिक्तपटत्वघटत्वावच्छिन्नम्प्रति कारणत्वादसाधारणत्वमस्त्येवेत्यतस्तत्र कारणत्ववारणाय व्यापारवत्वे सति इति कारणलक्षणे विशेषणं देयम्। व्यापारत्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम्। भवति हि दण्डजन्यत्वे सति दण्डजन्यघटजनकत्वात् भ्रम्यादेर्दण्डव्यापारत्वम्। एवं कपालसंयोगतन्तुसंयोगादेरपि कपालतन्तुव्यापारत्वं कपालतन्तुजन्यत्वे सति कपालतन्तुजन्यघटपटजनकत्वात्। करणलक्षणेऽसाधारणत्वविशेषणा नुपादाने ईश्वरादृष्टादेरपि व्यापारवत्कारणत्वं स्यात्अतस्तत्र अतिव्याप्तिवारणाय असाधारणेति विशेषणम्।

अथ प्रत्यक्षप्रकरणम्।

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्।
षड्विधेन्द्रियभूतप्रत्यक्षप्रमाणस्य लक्षणमाह- तत्रेति। तत्र प्रमाभूतेषु प्रत्यक्षादिषु प्रत्याक्षात्मकं यज्ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति व्यापारवदसाधारणं कारणमिन्द्रियं भवति। अतः प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम्। आद्यसन्निकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवायरूपत्वेनेन्द्रियजन्यत्वाभावाद् व्यापारत्वं न सम्भवतीति इन्द्रियमनःसंयोगस्यैव बाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारता बोध्या। मानसप्रत्यक्षे त्वात्ममनःसंयोगस्यैव सा बोध्या।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्।
प्रत्यक्षप्रमाणलक्षणमुक्त्वा प्रत्यक्षप्रमालक्षणमाह- इन्द्रियार्थसन्निकर्षेति। जन्यप्रत्यक्षस्यैव लक्ष्यत्वमित्यभिप्रायेणेदं लक्षणम्। ज्ञानाऽकरणम् इति। क्षेपकं लक्षणमिदम्। ज्ञानं व्याप्तिज्ञानं, सादृश्यज्ञानं, पदज्ञानञच करणं येषां ते ज्ञानकरणकाः, अनुमित्युपमितिशाब्दाः। ज्ञानकरणकं न भवतीति ज्ञानाकरणकम्। तत्त्वं प्रत्यक्षणमित्यर्थः। इदं लक्षणमीश्वरप्रत्यक्षसाधारणम्। ईश्वरप्रत्यक्षस्याजन्यत्वात् जन्यप्रत्यक्षे च इन्द्रियाणामेव करणत्वंन तु ज्ञानस्येति तयोरुभयोः संग्रहः।
तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति। तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम्। यथेदं किञ्चित्। सप्रकारकं ज्ञानं सविकल्पकम्। यथा डित्थोऽयं, ब्राह्मणोऽयं, पाचकोऽयमिति।
प्रत्यक्षं विभजतेनिर्विकल्पकमिति।
तल्लक्षयतितत्र निष्प्रकारकमिति। प्रकारताशून्यज्ञानत्वमेव निर्विकल्पकत्वमित्यर्थः। निर्विकल्पके चतुर्थी विषयता स्वीक्रियतेन तु त्रिविधविषयतामध्ये कापि तत्रास्ति। अतो विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वमित्यपि लक्षणं सम्भवति।
सविकल्पकं लक्षयति- सप्रकारकमिति। विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपकत्वेन प्रकारतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणम्। एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गतानिरूपकज्ञानत्वमित्यपि लक्षणं सम्भवति। उदाहरणं- यथेति। इदन्त्वावच्छिन्न- विशेष्यतानिरूपितडित्थत्वप्रकारताशालिज्ञानं ब्राह्मणत्वप्रकारताशालिज्ञानं च (श्यामत्वप्रकारताशालिज्ञानं च)सविकल्पकमित्यर्थः।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः। संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति।
चाक्षुषादिषड्विधप्रत्यक्षकारणीभूतान् षड्विधसन्निकर्षान्विभजतेसंयोग इत्यादिना। द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुत्वावच्छिन्नं प्रति चक्षुसंयोगः कारणम्। द्रव्यसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्प्रति चक्षुःसंयुक्तसमवायस्य हेतुत्वम्। द्रव्यसमवेतसमवेत- वृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य हेतुत्वम्। द्रव्यग्राहकाणीन्द्रियाणि चक्षुत्वङ्मनांसि त्रीण्येव। अन्यानि घ्राणरसनश्रावणानि गुणग्राहकाणि। अतस्त्वगिन्द्रियस्थले द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयोगस्य हेतुता। एवं द्रव्यसमवेतत्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयुक्तसमवायस्य हेतुता। द्रव्यसमवेतसमवेतोष्णत्वशीतत्वादिस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायस्य हेतुता। एवमात्ममानसप्रत्यक्षे मनःसंयोगस्य हेतुता। आत्मसमवेतसुखादिमानसप्रत्यक्षे मनःसंयुक्तसमवेतसमवायस्य हेतुता। रसनघ्राणयोस्तु रसगन्धतद्गतजातिग्राहकत्वेन द्वितीयतृतीययोः सन्निकर्षयोरेव तत्र हेतुता वाच्या। श्रवणेन्द्रियस्याकाशरूपत्वेन शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः सन्निकर्षः। शब्दवृत्तिशब्दत्वकत्वखत्वादिजातिविषयकश्रावणप्रत्यक्षे समवेतसमवायस्य हेतुता।
चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः। घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः। चक्षुःसंयुक्ते घटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः संनिकर्षः। चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः। कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् शब्दस्य आकाशगुणत्वाद् गुणगुणिनोश्च समवायात्। शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः संनिकर्षः। घटाभाववद्भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्।
अभावप्रत्यक्षे विशेषणविशेष्यभावो नाम विशेषणतासन्निकर्षः। पञ्चविधसन्निकर्षोपरि विशेषणता योजनीया। तथाहि द्रव्याधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता। द्रव्यसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता। द्रव्यसमवेतसमवेता- धिकरणाकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता। संयोगस्थाने संयुक्तपदं घटयित्वा समवायस्थाने समवेतपदं च घटयित्वा अभावप्रत्यक्षस्थले निर्वाह्यम्। तथा घटद्रव्यसमवेतं घटत्वं पृथिवीत्वादिकं रूपादिकं च। तत्र नीलादौ पीतत्वाभावः, घटत्वादिजातौ पटत्वाभावश्च वर्तते। स चाभावः संयुक्तसमवेतविशेषणतासन्निकर्षेण गृह्यते। एवं नीलत्वादिजातौ पीतत्वाभावः अपीन्द्रियसंयुक्तसमवेतसमवेतविशेषणतासन्निकर्षेण गृह्यते। घटसमवेतं नीलंतत्समवेतं नीलत्वंतद्विशेषणता पीतत्वाभावे वर्तते इति संक्षेपः।
एवं संनिकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्।

अथ अनुमानप्रकरणम्।

अनुमितिकरणमनुमानम्।
अनुमानं लक्षयति- अनुमितीति। अनुमितौ व्याप्तिज्ञानं करणम्, परामर्शो व्यापारः, अनुमितिः फलं, कार्यमित्यर्थः। परामर्शस्य व्याप्तिज्ञानजन्यत्वात् व्याप्तिज्ञानजन्यानुमितिजनकत्वात्तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम्। अनुमितिकरणत्वम् अनुमानस्य लक्षणम्। अनुमानं व्याप्तिज्ञानम्। एतस्य परामर्शरूपव्यापारद्वारा अनुमितिं प्रत्यसाधारणकारणतयानुमितिकरणत्वमुपपन्नम्।
परामर्शजन्यं ज्ञानमनुमितिः।
परामर्शजन्यमिति। परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्षणम्। अत्र ज्ञानत्वमात्रोपादाने प्रत्यक्षादावतिव्याप्तिः, अतस्तद् वारणाय परामर्शजन्यत्वे सतीति विशेषणोपादानम्। परामर्शजन्यत्वमात्रोक्तौ परामर्शध्वंसेतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादानम्।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानं परामर्शः। तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः।
अनुमितिलक्षणघटकीभूतपरामर्शलक्षणमाचष्टे- व्याप्तिविशिष्टेति। व्याप्तिविशिष्टञ्च तत्पक्षधर्मताज्ञानञ्चेति कर्मधारये विशिष्टपदस्य प्रकारतानिरूपकत्वात् पक्षधर्मताज्ञानमित्यत्र षष्ठ्या विषयत्वबोधनात्, धर्मतापदस्य सम्बन्धार्थकत्वाच्च कर्मधारयसमासे समस्यमान- पदार्थयोरभेदसंसर्गलाभेन च व्याप्तिप्रकारकाभिन्नं यत्पक्षसम्बन्धविशेष्यकं ज्ञानं तत्परामर्श इति लभ्यते। एवं सति धूमो वह्निव्याप्यः, आलोकवान्पर्वतः इत्याकारकसमूहालम्बने परामर्शलक्षणमस्तीत्यतिव्याप्तिस्तद्वारणाय पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्टा प्रकारता तन्निरूपिता या व्याप्तिनिष्ठा प्रकारता तच्छालि ज्ञानं परामर्शः इति निष्कर्षः। एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम्।
अनुमितिपरामर्शयोर्विशिष्यकार्यकारणभावश्चेत्थं- पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितसंयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नविधेयताकानु- मितित्वाच्छिन्नं प्रति वह्नित्वावच्छिन्नप्रकारतानिरूपिताव्याप्तित्ववच्छिन्नप्रकारतानिरूपिता या धूमत्वावच्छिन्नप्रकारता तन्निरूपिता या पर्वतत्वावच्छिन्ना विशेष्यता तच्छालिनिर्णयः कारणम्। (वह्नित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नविशेष्यताया धूमत्वावच्छिन्नविशेष्यता- निरूपितव्याप्तित्वावच्छिन्नप्रकारतायाश्चाभेदाऽनङ्गीकर्तृमते तु वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नव्याप्तित्वावच्छिन्नप्रकारता- निरूपितविशेष्यत्वावच्छिन्नधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिर्णयः कारणं वक्तव्यम्।) स च निर्णयः वह्निव्याप्यधूमवान्पर्वत इत्याकारको बोध्यः।
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः।
यत्र यत्रेति। यत्र पदवीप्सावशाद्धूमाधिकरणे यावति वह्निमत्त्वलाभाद् यावत्पदमहिम्ना वह्नेर्धूमव्यापकत्वं लब्धम्। तदेव स्पष्टयति- साहचर्यनियम इति। एतदर्थस्तु नियतसाहचर्यं व्याप्तिरिति। नियतत्वं व्यापकत्वम्। साहचर्यं नाम सामानाधिकरण्यम्। तथा च धूमनियतवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः। अत्र वह्नेर्धूमव्यापकत्वं नाम धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वम्। तथाहि धूमाधिकरणे पर्वतचत्वरमहानसादौ वर्तमानो यो अभावः, घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावः न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावः, कुतः?पर्वतादौ वह्नेः सत्त्वात्। एवं सति धूमाधिकरणे पर्वतचत्वरादौ वर्तमानस्य घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं, तद्वत्वं वह्नौ वर्तते अतो धूमव्यापकत्वं वह्नौ वर्तते। तथा च धूमव्यापकवह्निसामानाधिकरणं व्याप्तिरिति फलितम्। इयमन्वयव्याप्तिः सिद्धान्तानुसारेण। पूर्वपक्षव्याप्तिस्तु साध्याभाववदवृत्तित्वम्, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसम्बन्धा- वच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यावच्छिन्नाभाववन्निरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावो व्याप्तिरिति निष्कर्षः। तच्च केवलान्वयिन्यव्याप्तिमिति सिद्धान्तानुसरणम्।
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता।
अनुमानं द्विविधं स्वार्थं परार्थञ्च।
अनुमानं विभजते- स्वार्थमिति। स्वार्थानुमानं नाम न्यायाप्रयोज्यानुमानम्।
तत्र स्वार्थं स्वानुमितिहेतुः। तथाहि स्वयमेव भूयो दर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति ज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्श इत्युच्यते। तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते। तदेतत् स्वार्थानुमानम्।
यत्तु स्वयं धुमादग्निमनुमाय परं प्रति बोधयितुं पञ्चावयववाक्यं प्रयुङ्क्ते तत्परार्थानुमानम्। यथा पर्वतो वह्निमान् धूमवत्वाद्, यो यो धूमवान् स वह्निमान्, यथा महानसः, तथा चायं, तस्मात्तथेति। अनेन प्रतिपादिताल्लिङ्गात् परोऽग्निं प्रतिपद्यते।
न्यायप्रयोज्यानुमानं परार्थानुमानम्। न्यायत्वं च प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम्। अवयवत्वञ्च प्रतिज्ञाद्यन्यतमत्वम्।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः। पर्वतो वह्निमानिति प्रतिज्ञा। धूमवत्वादिति हेतुः। यो यो धूमवान्स स वह्निमान्यथा महानस इत्युदाहरणम्। तथा चायमिति उपनयः। तस्मात्तथेति निगमनम्।
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्।
लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति।
अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूवत्त्वम्। यत्र धूमस्तत्राग्निर्यथा महानसमित्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महाहृद इति व्यप्तिरेकव्याप्तिः।
अन्वयेनेति। व्यापकसामानाधिकरण्यरूपव्याप्तिमदित्यर्थः। व्यतिरेकेणेति। व्यतिरेको नाम अभावः। तथा च साध्याभावहेत्वाभावयोः व्याप्तिर्व्यतिरेकव्याप्तिः। इयं च व्याप्तिः यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति। यत्रपदवीप्सया वह्न्यभाववति यावति धूमाभावग्रहणे यावत्पदस्य व्यापकत्वपरतया धूमाभावे वह्न्यभावव्यापकत्वं लभते। एवञ्च वह्न्यभावनिष्ठव्याप्तेः स्वाश्रयीभूतवह्न्यभावव्यापकीभूताभावप्रतियोगित्व सम्बन्धेन धूमनिष्ठतया व्यतिरेकव्याप्तिमत्त्वेन धूमवत्त्वं व्यतिरेकित्वेन, धूमव्यापकवह्निसमानाधिकरण्यरूपान्वयव्याप्तिमत्त्वेनान्वयित्वेन च गीयते। व्यतिरेकपरामर्शस्तु वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवान्पर्वत इत्याकारकः।
अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवदिति। अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेक- व्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च।
केवलान्वयिनो लक्षणमाह- अन्वयेति। व्यतिरेकव्याप्तिशून्यत्वे सत्यन्वयव्याप्तिमत्त्वं केवलान्वयित्वम्। अथवा केवलान्वयिसाधकत्वं हेतोः केवलान्वयित्वम्, साध्य़े केवलान्वयित्वं चात्यन्ताभावाप्रतियोगित्वम्। तथा च अभावाप्रतियोगिसाध्यकत्वं केवलान्वयिहेतोर्लक्षणम्। एतच्च लक्षणं हेतोर्व्यातिरेकित्वेऽपि संगच्छते। साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावादन्वयमात्रव्याप्तिकं केवलान्वयीति मूलकारोक्तं लक्षणमुपपन्नम्। न चात्यन्तभावाप्रतियोगित्वरूपकेवलान्वयित्वमाकाशाभावे संयोगाभावे चाव्याप्तमिति वाच्यम्, स्वविरोधवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव तदर्थत्वात्। तथा चानयोरेकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्याः।
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवद् यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्।
केवलव्यतिरेकिणो लक्षणमाह- व्यतिरेकेति। अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वम्, यथा पृथिवीति। अत्र पृथिवीत्वावच्छिन्नं पक्षः, पृथिवीतरजलाद्यष्टभेदः साध्यः, गन्धवत्त्वं हेतुः। अत्र यद्गन्धवत्तदितरभेदवदित्यन्वयदृष्टान्ताभावाद् गन्धव्यापकेतरभेद- सामानाधिकरण्यरूपान्वयव्याप्तिग्रहासम्भवः। किन्तु यत्र यत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धाभावो यथा जलादिकमिति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभावव्यापकता गन्धाभावे गृह्यते। इममेवार्थं मनसि निधाय यदितरेभ्यो न भिद्यते न तद् गन्धवत् यथा जलमिति ग्रन्थेन मूलकारो व्याप्तिमेव प्रदर्शितवान्। एवंप्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरमितरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवी इत्याकारकव्यतिरेकिपरामर्शात् पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नविधेयताका पृथिवी इतरभेदवतीत्याकारिकानुमितिर्जायते इति तत्त्वम्।
यथाश्रुतमूलार्थस्तु यथा जलमिति। यज्जलमितरेभ्यो न भिद्यते, इतरभेदाभाववत्, न तद्गन्धवत्, जलमितरभेदाभावव्यापकगन्धा- भाववदित्येवंप्रकारेण गन्धाभावनिरूपिता व्याप्यतेतरभेदाभावे गृह्यत इत्यर्थः। न चेयं तथा। इयं=पृथिवी, तथा=इतरभेदाभावव्यापकगन्धाभाववती न, किन्तु तदभावात्मकगन्धवतीति। तस्मान्न तथेति। तस्मात्=गन्धाभावाभाववत्त्वात्। तच्छब्देन गन्धाभावाभावरूपस्य गन्धस्य परामर्शेन तस्मादिति पञ्चम्यन्ताद् गन्धाभावाभाववत्त्वादित्यर्थोपलब्धिः। न तथा=इतरभेरदाभाववती न, किन्तु इतरभेदाभावाभाववती=इतरभेदवतीत्यर्थः पर्यवसन्नः।
सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान् सपक्षः। यथा तत्रैव महानसम्। निश्चितसाध्याऽभाववान् विपक्षः। यथा तत्रैव महाह्रदः।
पक्षलक्षणमाह- सन्दिग्धेति। साध्यप्रकारकसन्देहविशेष्यत्वं पक्षत्वम्। सन्देहश्च पर्वतो वह्निमान्न वा इत्याकारः। इदञ्च लक्षणमनुमितेः पूर्वं साध्यसन्देहो नियमेन जायते, इत्यभिप्रायेण प्राचीनैः कृतम्। गगनविशेष्यकमेघप्रकारकसन्देहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन 'गगनं मेघवदि'त्याकारिकाया गगनवत्वावच्छिन्नोद्देश्यतानिरूपितमेघत्वावच्छिन्नविधेयताकाया अनुमितेर्दर्शनात्प्राचीनलक्षणं विहाय नवीनैः अनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम्।
सपक्षलक्षणमाह- निश्चितेति। साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वं, निश्चयश्च महानसं वह्निमदित्याकारकः।
विपक्षलक्षणामाह- निश्चितसाध्याभावेति। साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षत्वम्। निश्चयश्च ह्रदो वह्न्यभाववानित्याकारकः।
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः।
एवं सद्धेतून्निरूप्य हेत्वाभासान्निरूपयति- सव्यभिचारेति। हेतुवदाभासन्ते इति हेत्वाभासाः, दुष्टहेतव इत्यर्थः। दोषाश्च व्यभिचारविरोधसत्प्रतिपक्षाऽसिद्धबाधाः। एकज्ञानविषयप्रकृतहेतुतावच्छेदकसम्बन्धेन एतद्विशिष्टा हेतवो दुष्टहेतव इत्यर्थः। यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यस्य लक्षणम्। हेतौ दोषज्ञाने सत्यनुमितिप्रतिबन्धो जायते, व्याप्तिज्ञानप्रतिबन्धो वा। अतो वादिनिग्रहाय वादिनोद्भाविते हेतौ दोषोद्भावनार्थं दुष्टहेतुनिरूपणमित्यर्थः।
सव्यभिचारोऽनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्।
सव्यभिचारं विभज्य दर्शयति- साधारणेति। साधारणाद्यन्यतमत्वं सव्यभिचारसामान्यलक्षणम्।
साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः। यथा पर्वतो वह्निमान् प्रमेयत्वादिति। प्रमेयत्वस्य वह्न्यभाववति (साध्याभाववति) ह्रदे विद्यमानत्वात्।
साधारणत्वं च साध्याभाववद्वृत्तित्वम्। पर्वतो वह्निमान्, प्रमेयत्वादित्यत्र प्रमेयत्वहेतौ वह्न्यभाववद्वृत्तित्वरूपव्यभिचारे ज्ञाते वह्न्यभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः। यथा शब्दो नित्यः शब्दत्वादिति। शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति।
असाधारण इति। सर्वसपक्षव्यावृत्तत्वं=निश्चतसाध्यवदवृत्तित्वम्। साध्यवदवृत्तित्वं च साध्यासामानाधिकरण्यम्। हेतौ साध्यासामानाधिकरण्ये निश्चिते साध्यसामानाधिकरण्यरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वादिति। अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति।
अनुपसंहारिणं लक्षयति- अन्वयेति। उभयत्र दृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानोभयसामग्री नास्तीत्यर्थः। सर्वस्यैव पक्षत्वात्पक्षातिरिक्ताप्रसिद्धेरिति भावः। किञ्चिद्विशेष्यकनिश्चयाऽविषयसाध्यकत्वे सति किञ्चिद्विशेष्यकनिश्चयाऽविषयसाध्याभावकत्वमेव अनुपसंहारित्वम्। एतदीयज्ञानस्य व्याप्तिसंशयजननद्वारा व्याप्तिज्ञानप्रतिबन्धः फलम्। वस्तुतस्तु अत्यन्ताभावाऽप्रतियोगिसाध्यादिकमेव अनुपसंहारित्वमिति बोध्यम्।
साध्याभावव्याप्तो हेतुर्विरुद्धः। यथा शब्दो नित्यः कृतकत्वाद् घटवदिति। अत्र कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम्।
विरुद्धं लक्षयति- साध्याभावव्याप्त इति। साध्याभावव्याप्तिः=साध्याभावनिरूपितव्यतिरेकव्याप्तिः=साध्यव्यापकीभूताभावप्रतियोगि- त्वम्। तथा च पक्षविशेष्यकसाध्याभावव्याप्यहेतुप्रकारकज्ञानात् पक्षविशेष्यकसाध्यप्रकारकानुमितिप्रतिबन्धः फलम्। एवं सत्प्रतिपक्षेऽपि। विरुद्धसत्प्रतिपक्षयोर्विशेषस्तु विरुद्धहेतोरेकत्वेन सत्प्रतिपक्षहेतोर्द्वित्वेन च ज्ञातव्यः।
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववदिति, शब्दोऽनित्यः कार्यत्वाद्घटवदिति।
सत्प्रतिपक्षे द्वौ हेतू, विरुद्धे एको हेतुरिति भावः। साध्याभावप्रतिहेतुमत्पक्षः सत्प्रतिपक्ष इति यावत्। साध्याभावसाधकहेतुः साध्यसाधकत्वेनोपन्यस्त इत्यसामर्थ्यसूचनमपि।
असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्। अत्र गगनारविन्दमाश्रयः, स च नास्त्येव।
आश्रयासिद्ध इति। आश्रयासिद्धिर्नाम पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिः। यथेति। अत्रारविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्व- विशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धः फलम्।
स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्।
स्वरूपासिद्ध इति। स्वरूपसिद्धिर्नाम पक्षे हेत्वभावः। तथा च हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शानुपपत्त्या परामर्शप्रतिबन्धः फलम्।
सोपाधिको हेतुः व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः। साध्यसमानाधिकरणा- त्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। यथा पर्वतो धूमवान् वह्निमत्वाद् इत्यत्र आर्द्रेन्धनसंयोग उपाधिः। तथाहि यत्र धूमः तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम्। एवं साध्यव्यापकत्वे अस्ति साधनाव्यापकत्वाद् आर्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वासिद्धम्।
व्याप्यत्वसिद्ध इति। प्रकृते धूमव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद् धूमे आर्द्रेन्धनसंयोगव्याप्यत्वं गृहीतम्, एवं वह्नेरव्यापकत्वम् आर्द्रेन्धनसंयोगे गृहीतं चेद्वह्नौ तदव्याप्यत्वं गृहीतं, तदेव व्यभिचरितत्वम्। तथा चोपाधिव्यभिचिरतत्वं साधने गृहीतं चेदुपाधिभूतार्द्रेन्धनसंयोग- व्याप्यभूमव्यभिचारित्वं गृहीतमेव।
अनुमानप्रकारश्च पूर्वानुमानस्थहेतुं पक्षीकृत्य वह्निर्धूमव्यभिचारी, धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वात् घटत्वादिवत्। यो यत्साध्यव्यापकव्यभिचारी स सर्वोऽपि साध्यव्यभिचारीति रीत्या बोध्यः। एवं प्रकारेण प्रकृतानुमानहेतुभूते पक्षे साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम्। तथा च भूमाभाववद्वृत्तित्वरूपभूमव्यभिचारे गृहीते, वह्नौ भूमाभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
न च व्याप्यत्वासिद्धेः व्यभिचारभेद इति वाच्यम्, भूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धत्वं, धूमाभाववद्वृत्तित्वेन व्यभिचारित्वम् इति भेदात्।
यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चितः स बाधितः। यथा वह्निरनुष्णो द्रव्यत्वादिति। अत्र अनुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गुह्यते इति बाधितत्वम्।
यस्येति। यस्य=हेतोः, साध्यस्याभावः साध्याभावः=साध्यबाधः (स च ) प्रमाणान्तरेण=प्रत्यक्षादिप्रमाणेन, पक्षे निश्चितः स बाधित इत्यर्थः। तथा च प्रात्यक्षिकसाध्यबाधितनिश्चये जाते साध्यानुमितिप्रतिबन्धः फलम्। बाधितसाध्यकत्वाद् बाधितहेतुः इत्युच्यते।


अथ उपमानप्रकरणम्।

उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः। तथाहि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति वाक्यं श्रुत्वा वनं गतो गोसदृशं पिण्डं पश्यन् वाक्यार्थं स्मरति, तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिः उत्पद्यते।
उपमानं लक्षयति- उपमितिकरणमिति। उममितिं लक्षय़ति- संज्ञासंज्ञीति। संज्ञा नाम पदम्। संज्ञी=अर्थः। तयोः सम्बन्धः शक्तिः। तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः। उपमानं नाम अतिदेशवाक्यार्थज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। उपमितिः फलम्। 'गोसदृशो गवयपदवाच्य' इत्याकारकवाक्याद् गोसदृशावच्छिन्नविशेष्यकं गवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम्।

अथ शब्दप्रकरणम्।

आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं पदसमूहः। यथा गामानयेति। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः।
शब्दं लक्षयति- आप्तेति। आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तौ अनाप्तोच्चरितवाक्येतिव्याप्तिरत आप्तोच्चरितत्वनिवेशः। तावन्मात्रोक्तौ जबगडदशादावतिव्याप्तिरतो वाक्यत्वम्। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसन्नः अर्थः। वस्तुतस्तु पदज्ञानं करणम् । वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसंकेतः। ईश्वरसंकेतो नाम ईश्वरेच्छा, सैव शक्तिरित्यर्थः।
शक्तिनिरूपकत्वमेव पदे शक्तत्वम्। विषयतासम्बन्धेन शक्याश्रयत्वं शक्यत्वम्। शक्यसम्बन्धो लक्षणा, सा द्विविधा-गौणी शुद्धा चेति। गौणी नाम सादृशविशिष्टे लक्षणा, यथा 'सिंहो मानवक' इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा। शुद्धा त्रिविधा- जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा गङ्गायां घोषः इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धस्य तीरे सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाज्ञानाद् गङ्गापदात्तीरोपस्थितिः। लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातके लक्षणा। लक्ष्यतावच्छेदकं दध्युपघातकत्वम्। तेन रूपेण दध्युपघातकानां सर्वेषां काकबिडालकुक्कुटसारमेयादीनां शक्यलक्ष्याणां बोधात्। जहदजहल्लक्षणा वेदान्तिनां मते। सा च शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधप्रयोजिका। यथा तत्त्वमसीत्यत्र सर्वज्ञत्वकिञ्चिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात्।
आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा। अर्थाबाधो योग्यता। पदानामविलम्बेनोच्चारारणं संनिधिः। आकाङ्क्षादिरहितं वाक्यमप्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात्। अग्निना सिञ्चतीति न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरे असहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात्।
आकांक्षां लक्षयति- आकांक्षेति। अव्यवहितोत्तरत्वादिसम्बन्धेन यत्पदे यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधा- भावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्त्वमाकांक्षा। यथा घटमित्यादिस्थले अव्यवहितोत्तरत्वादिसम्बन्धेन अम् पदं घटपदवदित्याकार- काम्पदविशेष्यकघटपदप्रकारकज्ञानसत्त्वे घटीयं कर्मत्वमिति बोधो जायते। अम् घट इति विपरीतोच्चारणे तु तादृशज्ञानाभावात् तादृशशाब्दबोधो न जायते। अतस्तादृशाकांक्षाज्ञानं (तादृश) शाब्दबोधे कारणम्। अर्थाबाध इति। बाधाभावो योग्यतेत्यर्थः। अग्निना सिञ्चतीत्यत्र सेककरणत्वस्य जलादिधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः। सन्निधिं निरुपयति- पदानामिति। असहोच्चारितानि=विलम्बेनोच्चारितानि।
वाक्यं द्विविधम्। वैदिकं लौकिकं च। वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्। अन्यदप्रमाणम्। वाक्यार्थज्ञानं शब्दज्ञानम्। तत्करणं शब्दः।
वैदिकमिति। वेदवाक्यमित्यर्थः। इदमुपलक्षणम्। वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि। लौकिकं त्विति। वेदवाक्यभिन्नमित्यर्थः। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्।

इति शब्दपरिच्छेदः।


अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात्। एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्तौ इदं रजतमिति। व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति।
यथार्थानुभवं निरूप्यायथार्थानुभवं विभजते- संशयेत्यादिना। एकेति। एकधर्मावच्छिन्नविशेष्यतानिरूपितभावाभावप्रकारक- ज्ञानं संशय इत्यर्थः। भावद्वयकोटिकसंशयाप्रसिद्धेः स्थाणुर्वा (पुरुषो वा)इत्यत्र स्थाणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावकोटिक एव संशय इत्यर्थः।
मिथ्याज्ञानमिति। अयथार्थज्ञानमित्यर्थः। विपर्ययो नाम भ्रमः। व्याप्यारोपेणेति। तर्के व्याप्यस्य व्याप्यकस्य च बाधनिश्चयः कारणम्। अन्यथा बाधनिश्चयाभावे इष्टापत्तिदोषेण तर्कानुत्पत्तेः।
स्मृतिरपि द्विविधा। यथार्थायथार्था च। प्रमाजन्या यथार्था। अप्रमाजन्याऽयथार्था।

अथ अवशिष्टगुणप्रकरणम्।

सर्वेषामनुकूलतया वेदनीयं सुखम्।
सुखं निरूपयति- सर्वेषामिति। इतरेच्छानधीनेच्छाविषयत्वमिति निष्कर्षः। यथाश्रुते घटोऽनुकूल इत्याकारकज्ञानदशायम् अनुकूलत्वप्रकारकज्ञानविशेष्यत्वस्य घटादावपि सत्ताद् घटादावतिव्याप्तिरिति। सुखेच्छाधीने भोजनादावतिव्याप्तिवारणाय इतरेच्छानधीनेति इच्छाविशेषणम्। सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्रजन्यत्वात्।
प्रतिकूलतया वेदनीयं दुःखम्।
दुःखं निरूपयति- प्रतिकूलेति। अत्रापीतरद्वेषानधीनद्वेषविषयत्वमिति निष्कृष्टलक्षणम्। द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिः तत्रापि द्वेषविषयत्वसत्त्वादतस्तत्रातिवारणायेतरद्वेषानधीनेति द्वेषविशेषणम्। सर्पजन्यदुःखादौ द्वेषात्सर्पेऽपि द्वेष इति सर्पद्वेषस्य सर्पजन्यदुःखद्वेषजन्यत्वाद् अन्यद्वेषजन्यद्वेषविषयत्वरूपदुःखलक्षणस्य सर्पादौ नातिव्याप्तिः। फलेच्छा उपायेच्छां प्रति कारणम्, अतः फलेच्छावशादुपायेच्छा भवति। एवं फले द्वेषादुपाये द्वेषः।
इच्छा कामः। क्रोधो द्वेषः। कृतिः प्रयत्नः।
विहितकर्मजन्यो धर्मः। निषिद्धकर्मजन्यस्त्वधर्मः।
धर्माधर्मौ निरूपयति- विहितेति। वेदविहितेत्यर्थः। निषिद्धेति। वेदःनिषिद्ध इत्यर्थः।
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्ना द्विविधाः। नित्या अनित्याश्च। नित्या ईश्वरस्यानित्या जीवस्य।
बुद्ध्यादयोऽष्टाविति। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा इत्यर्थः।
संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति। वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुः भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनः तादवस्थ्यापादकः स्थितिस्थापकः। कटादि- पृथिवीवृत्तिः।
संस्कारं विभजते- संस्कार इति। भावनां लक्षयति- अनुभवेति। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनालक्षणम्। अत्रानुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिरात्ममनःसंयोगस्य ज्ञानमात्रं प्रत्यसमवायिकारणत्वेन स्मृतिं प्रत्यपि कारणत्वादतस्तदुपादानम्। आत्ममनःसंयोगस्यानुभवजन्यत्वाभावान्नातिव्याप्तिः। तावान्मात्रे कृतेऽनुभवध्वंसेऽतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनः कारणत्वेनानुभवध्वंसस्यापि अनुभवजन्यत्वात्, अतः स्मृतिहेतुत्वोपादानम्। अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः।
ननु विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा, यथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानं कारणम्। दण्डविशिष्टबुद्धिर्नाम दण्डप्रकारकबुद्धिः। तथा च दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन कारणत्वमित्यापतितम्। दण्डप्रकारकबुद्धिः दण्डी पुरुष इत्याकारिका बुद्धिः, तत्र दण्डज्ञानं कारणम्। न हि दण्डमजाननः पुमान् ‘दण्डी पुरुषः’ इति प्रत्येति। एवं च यत्रायं दण्ड इति प्रत्यक्षं जातं, तदन्तरं दण्डी पुरुष इत्याकारकप्रत्यक्षमुत्पन्नं, तत्र दण्डी पुरुष इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि स्वाव्यवहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभव- जन्यं जनिष्यमाणे दण्डी पुरुष इत्याकारकस्मरणे कारणं च, स्मृतिं प्रत्यनुभवस्य कारणत्वम्। तथा चानुभवजन्यत्वे सति स्मृतिहेतुत्वरूपभावना- लक्षणस्य यथोक्तदण्डीपुरुष इत्याकारकानुभवे विद्यमानत्वादतिव्याप्तिरिति चेत्, अत्र ब्रूमः- अनुभवजन्यत्वं हि अनुभवत्वावच्छिन्नकारणता- निरूपितकार्यताश्रयत्वम्। तत्र कारणतायामनुभवत्वावच्छिन्नत्वं निवेश्यते। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम् अनुभवजन्यत्वमिति फलितम्। अतो नोक्तातिव्याप्तिः। तथा हि दण्डप्रकारकबुद्धित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठा या कारणता, तस्यान्न दण्डानुभवत्वमवच्छेदकं, दण्डानुभवादिव दण्डस्मरणादपि दण्डप्रकारकबुद्धेरुत्पत्तेः। अतो दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति अनुभवस्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणीयत्वेन दण्डज्ञानत्वस्यैव तदवच्छेदकत्वात्। तथा चानुभवत्वावच्छिन्न- कारणतानिरूपितकार्यताश्रयत्वस्य उक्तप्रत्यक्षेऽभावान्नातिव्याप्तिः। भावनायां तु लक्षणमिदं वर्तते। तथाहि- अनुभवेनैव भावनाख्यसंस्कारोत्पत्त्या भावनात्वावच्छिन्नं प्रत्यनुभवत्वेनैव कारणतया भावनात्वावच्छिन्नकार्यतानिरूपितानुभवनिष्ठकारणतायामनुभवत्वमवच्छेदकम्। अतोऽनुभवत्वा- वच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं भावानायं वर्तत इति नासम्भवः।
नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यम्। तद्धि अनुभवध्वंसेऽतिव्याप्तिवारणाय प्रागुपात्तम्। न हि यथोक्तानुभवजन्यत्वविवक्षायाम् अनुभवध्वंसेऽतिव्याप्तिः प्रसज्यते। तथाहि- ध्वंसत्वावच्छिन्नं प्रति च प्रतियोगिनः कारणत्वं प्रतियोगत्वेन रूपेण, तत्तद्ध्वंसत्वावच्छिन्नं प्रति च तत्तत्प्रतियोगिव्यक्तेस्तत्तद्व्यक्तित्वेनेत्येवं ध्वंसप्रतियोगिनोः कार्यकारणभावः। तथा च ध्वंसनिष्ठकार्यतानिरूपिता याऽनुभवनिष्ठा कारणता, तस्यां प्रतियोगित्वमवच्छेदकम्। तत्तद्व्यक्तित्वञ्च, न त्वनुभवत्वमपीत्यनुभवध्वंसेऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वरूपानुभवजन्यत्वविरहेण एवातिव्याप्तिवारणसम्भवात् कृतं स्मृतिहेतुत्वविशेषणेनेति चेन्न, स्मृतावतिव्याप्तिवारणायैव तदुपादानात्। तथाहि- स्मृतिं प्रत्यनुभव एव कारणं न तु स्मृतिरपि। अतो घटस्मृतित्वावच्छिन्नं प्रति घटानुभवस्य घटानुभवत्वेनैव कारणत्वं न तु घटज्ञानत्वेन। तथा च घटस्मृतिनिष्ठकार्यतानिरूपिता या घटानुभवनिष्ठा कारणता, तस्यां घटानुभवत्वमवच्छेदकम्। तेनानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य स्मृतौ विद्यामानत्वाद् अतिव्याप्तिवारणाय स्मृतिहेतुत्वमुक्तम्। न हि स्मृतिर्हेतुः, अतो न तत्रातिव्याप्तिरित्यलं पल्लवतल्लजकल्पेष्वनल्पजल्पनेन।

अथ अवशिष्टपदार्थप्रकरणम्।

चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम्। अधोदेशसंयोगहेतुः अपक्षेपणम्। शरीरसंनिकृष्टसंयोगहेतुः आकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्। पृथिव्यादिचतुष्टयमनोमात्रवृत्ति।
नित्यमेकमनेकानुगतं सामान्यं द्रव्यगुणकर्मवृत्ति। तद्द्विविधं पराऽपरभेदात्। परं सत्ता। अपरं द्रव्यत्वादि।
सामान्यं निरूपयति- नित्यमेकमिति। नित्यत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम्। नित्यत्वविशेषणानुपादाने अनेकसमवेतत्वस्य संयोगादौ सत्त्वात्तत्रातिव्याप्तिस्तद्वारणाय नित्यत्वविशेषणम्। अनेकसमवेतत्वानुपादाने नित्यत्वमात्रोपादाने आकाशादावतिव्याप्तिस्तद्वारणाय अनेकसमवेतत्वम्। अनेकसमवेतत्वानुपादाने नित्यत्वविशिष्टसमवेत्वमात्रोक्तावाकाशगतैकत्वपरिमाणादौ जलपरमाणुगतरूपादौ चातिव्याप्तिः जलपरमाणुगतरूपादेराकाशगतैकत्वपरिमाणादेर्नित्यत्वात् समवेतत्वाच्च। अतः- अनेकेति समवेतविशेषणम्।
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः।
नित्यद्रव्यवृत्तय इति। नित्यद्रव्येषु परमाण्वादिषु वर्तमानाः, अत एव व्यावर्तकाः इतरभेदानुमितिहेतवः। नित्यद्रव्यवृत्तित्वरूपपक्षधर्मता- प्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः। नित्यद्रव्यनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं विशेषाणां लक्षणमिति भावः। पार्थिवपरमाणौ जलादिभेदानुमापकगन्धेऽतिव्याप्तिवारणाय एकमात्रवृत्तित्वं भेदविशेषणम्। घटादौ तदितरभेदानुमापके तद्रूपादावतिव्याप्तिवारणाय निरूपितान्तं प्रकारताविशेषणम्। एतेन ‘व्यावर्तका’ इत्यस्य नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि नित्यद्रव्यवृत्तय इति विफलमेव, स्वरूपाख्यानस्यापि कृतत्वादिति प्रत्युक्तम्।
नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तौ अयुतसिद्धौ, यथा अवयवाऽवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति।
समवायं निरूपयति- नित्येति। सम्बन्धत्वं विशिष्टप्रतीतिनियामकत्वम्। तावन्मात्रोक्तौ संयोगेऽतिव्याप्तिरतो नित्य इति विशेषणम्। ययोर्द्वयोर्मध्य इति। यन्निष्ठकालनिरूपिताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः।
अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसः। उत्पत्यनन्तरं कार्यस्य। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रति- योगिताकोऽन्योन्याभावः। यथा घटः पटो नेति।
सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम्।
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये।
अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः।।
अत्यन्ताभावं निरूपयति- त्रैकालिकेति। प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे सत्यन्योन्याभावभिन्नत्वे सति अभावत्वम् अत्यन्ताभावस्य लक्षणम्। ध्वंसप्रागभावान्योन्याभावाकाशादीनां वारणाय यथाक्रमं विशेषणोपादानम्। वस्तुतस्तु संसर्गाभावत्वं तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकभावत्वम्। ध्वंसप्रागभावयोश्च न संसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैव तद्वारणे त्रैकालिकेति स्वरूपाख्यानमेवेति बोध्यम्।
अन्योन्याभावं निरूपयति- तादात्म्येति। अभावत्रयवारणाय विशेषणम्। घटाभाववान्नेति प्रतीतिविषयघटादिवारणाय विशेष्यम्।
ननु सादृश्यादीनामतिरिक्तपदार्थानामनिरूपणेन न्यूनतेत्यत आह- सर्वेषामिति। प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वादजल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः इति न्यायस्यादिमसूत्रे उक्तानां प्रमाणप्रमेयादीनामित्यर्थः। तद्भिन्नत्वविशिष्टतद्गतभूयोधर्मरूपसादृश्यस्यापि घटपटादिरूपत्वेन नातिरिक्तत्वम्। एवमन्येषामप्यूह्यम्।
काणादेति। कणादेस्येदं काणादम्। काणादन्यायमतमिति द्वन्दगर्भकर्मधारयः। कणादप्रोक्तगौतमप्रोक्तमतयोरिति यावत्। काणादन्यायाभिन्नमतद्वयविषयकबालसमवेताभिन्नव्युत्पत्तिसिद्धिप्रयोजकान्नंभट्टविद्वन्निष्ठभूतकालीनकृतिविषयाभिन्नस्तर्कसंग्रहाख्यग्रन्थ इत्यन्वयबोधः।
कृष्णावलम्बिनो गाः पूषा गोवर्धनस्तमभ्यर्चन्।
विपुलाभीरसभाजनजितविबुधेन्द्रस्तवाभिरचनाभिः।।

Thursday 15 May 2014


रघुवंशमहाकाव्यम्
तृतीयः सर्गः

अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखं

निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ।१।।

अथेति। अथ गर्भधारणानन्तरं सुदक्षिणा। उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम्। भावे क्तः। पुनः सखीजनस्योद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् यद्वा कौमुदी नाम दीपोत्सवतिथिः। तदुक्तं भविष्योत्तरे-'कौ मोदन्तेजना यस्यां तेनासौ कौमुदी मता'इति। तस्या मुखं प्रारम्भम्।'सखीजनोद्वीक्षणकौमुदीभहम्'-इति पाठं केचित्पठन्ति। इक्ष्वाकुकुलस्य सन्ततेरविच्छेदस्य निदानं मूलकारणम्। निदानं त्वादीकारणम् इत्यमरः। एवंविधं दौर्हृदलक्षणं गर्भतिह्नं वक्ष्यमाणं दधौ। स्वहृदयेन गर्भहृदयेन च द्विहृदया गर्भिणी। यथाह वाग्भटः-'मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत्। सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम्।।'इति। तत्सम्बन्धित्वाद् गर्भो दौर्हृदमित्युच्यते। सा च तद्योगाद्दौर्हृदिनीति। तदुक्तं संग्रहे-'द्विहृदया नारीं दौहृदिनीमाचक्षते।'इति। अत्र दौर्हृदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद् रूपकालङ्कारः। अस्मिन् सर्गे वंशस्थं वृत्तम्-'जतौ तु वंशस्थमुदीरितं जरौ'इति लक्षणात्।।१।।

शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्यत लोध्रपाण्डुना।

तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी।।२।।

शरीरेति। शरीरस्य सादात् कार्श्यादसमग्रभुषणा परिमिताभरणा लोघ्रपुष्पेणेव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शक्तिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः।'तसिलादिष्वाकृत्वसुच्'इति प्रभातशब्दस्यपुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः-'क्षामता गरिमा कुक्षेर्मूर्च्छा छर्दिरोचकम्। जृम्भा प्रसेकः सदनं रेमराज्याःप्रकाशनम्।।'इति।।२।।

तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ।

करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्।।३।।

तदिति। क्षितीश्वरो रहसि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्तिं न ययौ। कः कमिव। शुचिव्यपाये ग्रीष्मावसाने।'शुचिःशुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि।।'इति विश्वः। पयोमुचां मेघानां पृषतैबिन्दुभिः।'पृषन्ति बिन्दुपृषताः'इत्यमरः। सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव। अत्र करिवनराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसन्धेयः। गर्भिणीनां मृद्बक्षणं लोकप्रसिद्धमेव। एतेन दोहदाख्यं गर्भलक्षणमुच्यते।।३।।

दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः।

अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङघ्य सा।।४।।

हि यस्माद्दिगन्तविश्रान्तरथः(दिगन्ते दिशां प्रान्ते विश्रान्तः रथः स्यन्दनो यस्य सः)चक्रवर्ती तस्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः।''इन्द्रो मरुत्वान्मघवा''इत्यमरः। दिवं स्वर्गमिव। भुवं(महीं)भोक्ष्यते।''भुजोनवने''इत्यामनेपदम्। अतः प्रथमं(पूर्वं)सा सुदक्षिणा तथाविधे भूविकारे मृद्रूपे। अभिलष्यत इत्यभिलाषो भोग्यवस्तु। तस्मिन्। कर्मणि घञ्प्रत्ययः। रस्यन्ते स्वाद्यन्त इति रसा भोग्यार्थाः। अन्ये च ते रसाश्च तान्(मधुरतिक्ताम्लान्)विलङ्घ्य विहाय मनो बबन्ध(भावं चक्रे)विदधावित्यर्थः। दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते।।४।।

न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।

इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः।।५।।

मगधस्य राज्ञोपत्यं स्त्री मागधी सुदक्षिणा।''द्व्यञ्मगधकलिङ्गसूमसादण्''इत्यण्प्रत्ययः। ह्रिया(लज्जया)किंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे। केषु वस्तुषु स्पृहावती(साभिलाषा)इत्यनुवेलमनुक्षणमादृत आदृतवान्। कर्तरि क्तः।''आदृतौ सादरार्चितौ''इत्यमरः। प्रियायाः सखीः सहचरीरुत्तरकोशलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ।''लट् स्मे''इत्यनेन भूतार्थे लट्। सखीनां विश्रम्भभूमित्वादिति भावः।।५।।

उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम्।

न हीष्टमस्य त्रिदिवेपि भूपतेरभूदनासाद्यमधिज्यधन्वनः।।६।।

उपेत्येति। दोहदं गर्भिणीमनोरथः।'दोहदं दौर्त्हूदं श्रद्धा लालसं च समं स्मृतम्'इति हलायुधः। सा सुदक्षिणा दोहदेन गर्भिणी मनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यद्वस्तु वव्रे आचकाङ्क्ष तदाहृतमानीतम्। भर्त्रेति शेषः। अपश्यदेव। अलभतेत्यर्थः। कुतः। हि यस्मादस्य भूपतेस्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत्। किं याञ्चया। नेत्याह अधिज्यधन्वन इति। नहि वीरपत्नीनामलभ्यं नाम किञ्चदस्तीति भावः। अत्र वाग्भटः'पादशोफो विदाहोऽन्ते श्रद्धा च विविधात्मिका'इति। एतच्च पत्नीमनोरथपूरणाकरणे दृष्टदोषसम्भवाद् न तु राज्ञः प्रीतिलौल्यात्। तदुक्तम्'देयमप्यहितं तस्यै हितोपहितमल्पकम्। श्रद्धाविधाते गर्भस्य विकृतिश्च्युतिरेव वा।।'अन्यत्र च'दोहदस्याप्रदानेन गर्भों दोषमवाप्नुयात्'इति।। ६।।

क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा।

पुराणपत्त्रापगमादनन्तरं लतेव संनद्धमनोजपल्लवा।।७।।

क्रमेणेति। सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा पुष्यमाणावयवा सती। पुराणपत्रामपगमान्नाशादनन्तरं संनद्धाः संजाताः प्रत्यग्रत्वान्मनोज्ञाः पल्लवा यस्याः सा लतेव रराज।।७।।

दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम्।

तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्।।८।।

दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थलम्(अत्यर्थमांसलं)।आ समन्तान्नीले मुखे चूचुके यसेय तत्। तदीयं स्तनद्वयम्(कुचयुग)। ब्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः। सुजातं सुन्दरं प्रोक्तं सत्यजाते च वस्तुनीति विक्रमः-चा पङ्कजकोशयोः पद्ममुकुलयोः श्रियं शोभां तिरश्चकार। अत्र वाङ्भटः-अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ इति।।८।।

निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम्।

नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत।।९।।

नृपः ससत्त्वामापन्नसत्त्वाम् सगर्भां गर्भिणींमित्यर्थः। आपन्नसत्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी इत्यमरः। महिषीम् पट्टराज्ञीं । निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम्। भूमिमिवेत्यर्थः। भूतधात्री रत्नगर्भा विपुला सागराम्बरा इति कोशः। अभ्यन्तरे मध्ये लीनः लग्नः पावकः अग्निः यस्यास्तां शमीमिव। शमीतरौ वह्निरस्तीत्यत्र लिङ्गं शमीगर्भादग्निं जनयतीति। अन्तःसलिलामन्तर्गतजलां सरस्वतीं म्लेच्छदेशेषु सा ह्यन्तर्धाय भूयः पुण्यप्रदेशेषूद्भवतीति पुराणवार्तेति-व सरस्वत्याः ऊर्ध्वं वालुकाः पातालान्तर्गतंजलमितिवार्तामात्रं-चा नदीमिव एतेनपीनत्वोक्तिः-चा।
अमन्यत। एतेन गर्भस्य भाग्यवत्त्वतेजस्वित्वपावत्वानि विवक्षितानि मालोपमा-चा।।९।।

प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम्।

यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः।।१०।।

धीरः स राजा प्रियायामनुरागस्य स्नेहस्य। मनसः समुन्नतेरौदार्यस्य। भुजेन भुजबलेन करेण वार्जितानाम्। न तु वाणिज्यादिना। दिगन्तेषु संपदाम्। धृतेः पुत्रो मे भविष्यतीति संतोषस्य च। धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु इति विश्वः। सदृशीरनुरूपाः। पुमान्सूयतनेनेति पुंसवनम्(व्यक्ते गर्भे तृतीये तु मासे पुंसवनं भवेत्। गर्भेव्यक्ते तृतीये चेच्चतुर्थे मासिवा भवेदिति शौनकः। कुर्यात्पुंसवनं प्रसिद्धविषये गर्भे तृतीयेथवा। मासि स्फीततनौ तुषारकिरणे पुष्येथवा वैष्णवे इति वशिष्ठः)। तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान्। आदिशब्देनानवलाभनसीमन्तोन्नयने गृह्येते। अत्र मासि द्वितीये तृतीये वा पुंसवनं यदाह-पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात् इति पारस्करः। चतुर्थेनवलोभनम् इत्याश्वलायनः। षष्ठेष्टमे वा सीमन्तोन्नयनम् इति याज्ञवल्क्यः।।१०।।

सुरेन्द्रमात्राश्रितगर्भोरवात्प्रयत्नमुक्तासनया गृहागतः।

तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।।११।।

गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य गर्भस्य गौरवाद्भारात्प्रयत्नेन मुक्तासनया। आसनादुत्थितयेत्यर्थः। उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया(उपचारार्थं योञ्जलिस्तेन खिन्नौ हस्चौ यस्याः तया तथोक्तया)पारिप्लवनेत्रया तरलाक्ष्या। चञ्चलं तरलं चैव पारिप्लवपरिप्लवे इत्यमरः। तया सुदक्षिणया ननन्द। सुरेन्द्रमात्राश्रित-इत्यत्र मनुः-अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः इति।।११।।

कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि।

पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमाश्रितामिव।।१२।।

कुमारेति। अथ कुमारभृत्या बालचिकित्सा।'संज्ञायां समजनिषद-'इत्यादिना क्यप्। तस्यां कुशलैः कृतिभिः।'कृती कुशल इत्यपि'इत्यमरः। आप्तर्हितैर्भिषग्भिर्वैद्यैः।'भिषग्वैद्यो चिकित्सके'इत्यमरः। गर्भस्य भर्मणि।'भरणे पोषणे भर्म'इति हैमः।'भृतिर्भर्म'इति शाश्वतः। भृञो मगिच्प्रत्ययः'गर्भकर्मणि'इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः। अनुष्ठिते कृते सति। काले दशमे मासि। अन्यत्र ग्रीष्मावसाने। प्रसवस्य गर्भमोचनस्योन्मुखीम्। आसन्नप्रसवामित्यर्थः।'स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने'इत्यमरः। प्रियां भार्याम्। अभ्राण्यस्याः सञ्जातान्यभ्रिता ताम्।'तदस्य सञ्जातं तारकादिभ्य इतच्'इतीतच्प्रत्ययः। दिवमिव। पतिर्भर्त्ता प्रतीतो हृष्टः सन्।'ख्याते हृष्टे प्रतीतः'इत्यमरः। ददर्श दृष्टवान्।।१२।।

गृहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सुचितभाक्यसंपदम्।

असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम्।।१३।।

ग्रहैरिति। ततः शच्येन्द्राम्या समा। पुलोमजा शचीन्द्रामी इत्यमरः। सा सुदक्षिणा समये प्रसूतिकाले सति दशमे मासीतियर्थः। दशमे मासि जायते इति श्रतेः। उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गस्थानगैरसूर्यगरैनस्तनितैः कैश्चिद्यथासंभवं पढ्चभिर्ग्रहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम्। त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः। शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः इत्यमरः। ट्क्षयमर्थमिव असत। षूङ् प्राणिगर्भविमोचने इत्यात्मनेपदिषु पठ्यते। तस्माद्धातोः कर्तरि लङ्। अत्रेदमनुसंधेयम् -अजवृषभमृगाह्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभश्च तेस्तनीचाः।। इति। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि। स्वस्वतुङ्गापेक्षया सप्तमस्थानानि च नीचानि। तत्रोच्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुच्चेषु परमोच्चा नीतेषु परमनीचा इति। सूर्यप्रत्यासत्तिर्ग्रहाणामस्तमयो नाम। तदुक्तं लघुजातके- रविणास्तमयो योगो वियोगस्तूदयो भवेत् इति। ते च स्वोचेचस्थाः फलन्ति नास्तगा नापि नीचगाः। तदुक्तं राजमृगाङ्के- स्वोच्चे पूर्मं स्वर्क्षकेर्धं सुहृद्भे पादं द्विङ्भेल्पं शुभं खेचरेन्द्रः। नीचस्थायी नार्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति।। इति। तददमाह कविरुचेचसंस्थैरसूर्यगैरिति च। एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः स एव तुङ्गो भवति। तदुक्तं कूटस्थीये- सुख्नः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः। एकद्वित्रिचतुर्था जायन्तेतः परं दिव्याः।। इति। तदिदमाह- पञ्चभिरिति।।१३।।

दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे।

बभूव सर्वे शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम्।।१४।।

दिश इति। तत्क्षणं तस्मिन्क्षणे। कालाध्वनोरत्यन्तसंयोगे द्वितीया। दिशः प्रसेदुः प्रसन्ना बभूव। मरुते वाताः सुखा मनोहरा ववुः। अग्निः प्रदक्षिणर्चिः सन्हविराददे स्वीचकार। इत्थं सर्वं शुभशंसि शुभसूचकं बभूव। तथाहि। तादृशं रघुप्रकाराणां भवे जन्म लोकाभ्युदयाय। भवतीति शेषः। ततो देवा अपि संतुष्टा इत्यर्थः।।१४।।

अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।

निशीथजीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव।।१५।।

अरिष्टशय्यामिति। अरिष्टं सूतिकागृहम् इत्यमरः। अरिष्टे सूतिकागृहे शय्यां तल्पं परितोभितः अभितः परितः समयानिकसाहाप्रतियोगेपि इति द्वितीया। विसारिणा सुजन्मनः शोभनोत्पत्तेः। जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः इत्यमरः। तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्द्धरात्रप्रदीपाः। अर्धरात्रनिशीथौ द्वौ इत्यमरः। आलेख्यसमर्पिताश्चित्रार्पिता इव बभूवुः। निशीथशब्दो दीपानां प्रभाधिक्यसम्भावनार्थः।।१५।।

जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम्।

अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे।।१६।।

जनायेति। भूपतेर्दिलीपस्यामृतसम्मिताक्षरममृतसमानाक्षरम्। सरूपसमसम्मिताः इत्याह दण्डी। कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत्। तत् किं शशिप्रभमुज्जवलं छत्रम्। उभे चामरे च। छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः।।१६।।

निवातपद्मस्तिमितेन चक्खुषा नृपस्य कान्तं पिबतः सुताननम्।

महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि।।१७।।

निवातेति। निवातो निर्वातप्रदेशः। निवातावाश्रयावातौ इत्यमरः। तत्र यत् पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा तेतेरेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कटऋ प्रहर्षः कर्त्ता इन्दुदर्शनाद् गुरुर्महोदधेः पूरो जलौघ इव। आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक। अन्तर्न माति स्मेति यावत्। न ह्यल्पाधारेधिकं मीयत इति भावः। यद्वा हर्ष आत्मनि स्वस्मिन्विषये स प्रबभूव। आत्मानं नियन्तुं न शशाक। किन्तु बहिर्निर्जगामेत्यर्थः।।१७।।

स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते।

दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ।।१८।।

स इति। दिलीपसूनुः। तपस्विना पुरोहितेन। पुरोधास्तु परोहितः इत्यमरः। वसिष्ठेन। तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यैः स्यादिति। भावः। तपोवनादेत्याकत्य। अखिले समग्रे जातकर्मणि कर्त्तव्यसंस्कारविशेषे कृते सति। प्रयुक्तःसंस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः। खनिः स्त्रियामाकरः स्यात् इत्यमरः। मणिरिव। अधिकं बभौ वसिष्ठमन्त्रप्रभावात्तेजिष्ठोभूदित्यर्थः। अत्र मनुः प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते इति।।१८।।

सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम्।

स केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि।।१९।।

सुखेति। सुखः सुखकरःश्रवः श्रवणं येषां ते सुखश्रवाः श्रुतिसुखाः। मङ्गलतूर्थनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम्। वारस्त्री गणिका वेश्या रूपाजीवा इत्यमरः। प्रमोदनृत्यैर्हर्षनर्त्तनैः सह मागधीपतेर्दिलीपस्य सदामनि केवलं गृह एव न व्यजृम्भन्त। किन्तु द्यौरोको येषां ते दिवौकसः देवाः। पृषोदरादित्वात्साधुः। तेषां पथ्याकाशेपि व्यजृम्भन्त। तस्य देवांशत्वाद् देवेपकारित्वाच्च देवदुन्दुभयोपि नेदुरिति भावः।।१९।।

न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः।

ऋणाङिधानात्स्वयमेव केवलं तदा रितृणां मुमुचे स बन्धनात्।।

नेति। रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीरस्य। अत अव चौराद्यभावात् संयतो बद्धो न बभूव नाभूत्। किं तेनात आह- विसर्जयेदिति। सुतजन्मना हर्षितस्तोषितः सन् यं बद्धं विसर्जयेद्धिमोचयेत्। किन्तु स राजा तदा रितृणामृणाभिधानाद्धन्धनात्केवलमेकं यथा तथा स्वयमेव। एक एवेत्यर्धः। केवलः कृत्स्न एकश्च केवलश्चावधीरितः इति शाश्वलः। मुमुते कर्मकर्त्तरि लिट् स्वयमेव मुक्त इत्यर्धः। अस्मिन्नर्धे- एष वा अनृणो यः रुत्री इति श्रुरिः र्रमाणम्।।२०।।

श्रुतस्य यायादयमन्तमर्ङकस्तधा परेषां युधि चेति पार्धिवः।

अवेक्ष्य धातोर्गमनार्धमर्धविच्चकार नाम्ना रघुमात्मसम्भवम्।।२१।।

श्रुतस्येति। अर्धविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः। अयमर्भको बलः श्रुतस्य शास्त्रस्यान्तं पारं यायात्य़ तथा युधि परेषं शत्रूणामन्तं पारं च यायात्य़ यातुं शक्नुयादित्यर्थः। शकि लिङ् च इति शक्यार्थे लिङ्। इति हेतोर्धातोः। अधिवघिलघिगत्यर्थाः इति लघिधातोर्गमनाख्यमर्थमर्थवित्तवादनेक्ष्यालोचेय। आत्मसम्भवं पुत्रं नाम्ना घुं चकार। लङ्घिबंह्योर्नलोपश्च। इत्युप्रत्यये बालमूललध्वलमङ्गुलीनां वा लो रत्वमापद्यते इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम्। अत्र शङ्खः आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते इति।।२१।।

पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने।

पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रेशादिव बालचन्द्रमाः।।२२।।

पितुरिति। स रघुः समग्रसम्पदः पूर्णलक्ष्मीकसेय पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः। भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः इत्यमरः। अनुप्रनेशाद्वा चमन्द्रमा इव धिने दिने प्रतिदिनम् । नित्यवाप्सयोः इति द्विर्वचनम्। वृद्धिं पुपोष। अत्र वराहसंरितानचनम्- सलिलमयेशशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः इति।।२२।।

उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ।

तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ।।२३।।

उमेति। उमावृषाङ्कौ पार्वतीवृषभध्वजौ शरजन्मना कार्तिकेयेन। कार्तिकेयो महासेनः शरजन्मना षडाननः इत्यमरः। यथा ननन्दतुः। शचीपुरन्दरौ जयन्तेन जयन्ताख्येन सुतेन। जयन्तः पाकशासनिः इत्यमरः। यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमावृषाङ्काभ्यां शचीपुरन्दराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमारजयन्ताभ्यां सदृशेन सुतेन ननन्दतुः। मागधी प्राग्व्याखाता।।२३।।

रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम्।

विभक्तमष्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत।।२४।।

रथाङ्गेति। रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानौ चक्रवाकौ पुमान्स्त्रिया इत्येकशेषः। तयोर्दम्पत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा। एके मुख्यान्यकेवलाः इत्यमरः। सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे। क्रमकर्त्तरि लङ्। अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः। यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम सम्प्रति द्वितीयविषयलाभेपि नाहीयत। प्रत्युतोपचितमेवाभूदिति भावः।।२४।।

उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम्।

अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन तनान सोर्भकः।।२५।।

उवाचेति। सोर्भकः शिशुः। पोतः पाकोर्भको डिम्भः पृथुकः शावकः शिशुः इत्यमरः। धात्र्योपमात्रा। धात्री जनन्यामलकीवसुमत्युपमातृषु इति विश्वः। प्रथममुतीतमुपदिष्टं वच उवाच। तदीयामङ्गुलिमवलम्ब्य ययौ च। प्रणिपातस्य शिक्षयोपदेशेन नम्रोभूच्च। इति यत्तेन पितुर्मुदं ततान।।२५।।

तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि।

उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ।।२६।।

तमिति। शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रिचेमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन् नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ। रसः स्वादः।।२६।।

अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम्।

स्वमूर्त्तिभेदेन गुणाग्र्यवर्त्तिना पतिः प्रजानामिव सर्गमात्मनः।।२७।।

अमंस्तेति। स्थितेरभेत्ता मर्यादापालकः स नृपः परार्ध्यजन्मनोत्कृष्टजन्मनानेन रघुणान्वयं वंशम्। प्रजानां पतिर्ब्रह्मा। गुणाः सत्वादयः। तेष्वग्र्येण मुख्येन सत्वेन वर्त्तते व्याप्रियत इति गुणाग्र्यवर्त्ती तेन। स्वस्य मूर्त्तिभदेनावतारविशेषेण विष्णुनात्मनः सर्गं सृष्टिमिव। स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म। मन्यतेरनुदात्तत्वादिट्प्रतिषेधः। अन्नोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि। तत्र रघुपक्षे गुण विद्याविनयादयः। गुणोप्रधाने रूपादौ मौर्व्यं सूदे वृकोदरे। स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु।। इति विश्वः। शेषं सुगमम्।।२७।।

स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः।

लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत्।।२८।।

चूडा कार्या द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्तव्या श्रु इति मनुस्मरणात्तृतीये वर्षे नृत्तचूलो निष्पन्नचूजाकर्मा सन् वृत्तं जातं काक यस्य सः। डलयोरभेदः। स रघुः। प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः। बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः इति हतायुधः। सवयोभिः स्निग्धैः समानवयस्कचलकाकपक्षकैः-चा। स्निग्धो वयस्यः सवयाः इत्यमरः। अमात्यपुत्रैरन्वितः युक्तः सन्। लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहमेन सम्यग्बोधेनोपायभूतेन वाह्मयं शब्दजातम्। नद्या मुख द्वारम्। मुख तु लदने मुख्यारम्भे द्वाराभ्युपाययोः इति यादनझ। तेन सरिद्वारेण कश्चिन्मकरादि समुद्रमिव। आविशत्प्रविष्टः। ज्ञातवानित्यर्थः। मृत्तचूडकमालिपिसख्यानां चायुजीत इति चाणक्यः।

अथोपनीतं विधिवद्विपश्चिचे विनिन्युतेनं गुरवो गुरुप्रियम्।

अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तृपहिता प्रनीदति।।२९।।

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञो गर्भाच्च द्वादशे विशः इति मनुसमरमादथ गर्भैकादशेऽब्दे विधिवदुपनीतं गुरुप्रियमेनं रघुं विपश्चिते विद्वांसो गुरवो विनिन्युः शिक्षितवन्त। ते गुरवोऽत्रास्मिन्रघाववन्ध्ययत्नाः सफलप्रयत्नाः च बभूवुः। तथाहि। क्रिया शिक्षा। क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु इति यादवः। वस्तुनि पात्रभृते श्रेष्ठे उपहिता प्रयुक्ता प्रसीदति फलति पात्रविशेषन्यस्तं गुणान्तरं ब्रजति शिल्पमाधातुः जलमिवसमुद्रशुक्तौ मुक्ताफलतां पयोदस्येत्येवं समार्थः श्लोकांशः। क्रिया हि द्रव्य विनयति नाद्रव्यम् इति कोटिल्यः।।२९।।

धियः समग्रः स गुणरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः।

ततार विद्याः पवनातिपातिभिर्दिशो हरित्भिर्हरितामिवेश्वरः।।३०।।

अत्र कामन्दकः शुश्रूषा श्रवणं चैव ग्रहणं घारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः इति। आन्वीक्अषिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। एता विद्याश्चतस्रस्तु लोकसस्थितिहेतवः इति च । उदारधीरुत्कऋष्टबुद्धिः शुश्रूषा श्रवणं चैव ग्रहणं चितन तथा कथन स्थितिहेतवः इति कामन्दकः-चा स रघुः समग्रैर्धियः बुद्धेः गुणैः। चत्वारोऽर्णवा उपमा यासां दाश्चतुरर्णवोपमाः एतेन विद्यानां महत्त्वं -चा। तद्धितार्थोतेतरपदसमाहरे च इतियुत्तरपदसमासः।आन्वीक्षिक्यादि चतस्रो विद्याः। हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिः वायुमतिक्रमितुं शीलं येषां तैः वातादपि वेगवत्तरैः हरिद्भिः नीलतुरगै) निजाश्वैः। हरित्ककुभि वर्णे च तृणवाजिविशेषयोः इति विश्वः। चतस्रो दिश इव। क्रमात्ततार पारं ययौ। चतुर्वोपमत्वं दिषामपि द्रष्टव्यम्।।३०।।

त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत्।

न केवलं तद्गुरुरेकपार्थिवः क्षितावश्रृदेकधनुर्धरोऽपि सः।।३१।।

स रघुः। कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः। वसीरन्नानुपूर्व्येण शाणक्षौमादिकानि च इति मनुस्मरणान्मेध्यां शुद्धां रौरवी रुरुसबन्थिनीम् रुरुश्चित्रमृगस्तत्संबन्धिनीं रुरुर्महाकृष्णसारः इति यादवः। त्वच चर्म परिधाय वसित्वा आच्छाद्य मन्त्रवत्समन्त्रकमस्त्रमाग्रेयादिकं पितुरेवोपाध्यायादशिक्षताभ्यस्तवान्। आख्यातोपयोगे इत्यपादानसंज्ञा। पितुरेवेत्यवधारणमुपपादयति नेति। तद्गुरुरेकोऽद्वितीयः पार्थिवः केवलं पृथिवीश्वर एव नाभूत्। किन्तु क्षितौ स दिलीप एको धनुर्धरोऽप्यभूत् धत्ते त्वचं रौरवीमित्येवं समार्थः श्लोकांशः।।३१।।

महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रश्रावं कलभः श्रयन्निवि।

रघुः क्रमाद्योवनभिन्नशंशवः पुपोष गाम्भीर्यमनोहरं वपुः।।३२।।

रघुः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुभावः सन्। महानुक्षा महोक्षो महर्षभः। अचतुर आदिसूत्रेण निपातनादकारान्तत्वम्। तस्य भावस्तत्ता। तां स्पृशन्गच्छन्वत्सतरो दम्य इव। दम्यवत्सतौ समौ इत्यमरः। द्विपन्द्रभाव महागज्ञत्व श्रयन्व्रजन्कलभः कलभास्त्रशदब्दकः इतिहैमः कोपः- चा करिपोत इव। गाम्भीर्येणाचापलेन मनोहरं रम्यं वपुः शरीरं पुपोष।।३२।।

अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः ।

नरेन्द्रकन्यास्तं अवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ।।३३।।

गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः। स्त्री तु स्याद्दीशी भारत्यां भूमौ च सुरभावपि। पुंस्त्रियोः स्वर्गवज्राग्बुरशिमदृग्बाणलोमसु इति केशवः। गावो लोमानि केशा दीयन्ते खम्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्तव्यं केशान्ताख्यं कर्मोच्यते गोप्रशंसापूर्वकं तद्दानप्रकारः इति -हे। तदुक्तं मनुना- केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते। साजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः इति। अथ गुरुः पिता। गुरुर्गीष्पतिपुत्राद इत्यमरः। अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत् गृहस्थाश्रममश्राययत् कृतवानित्यर्थः। अथ नरेन्द्रकन्यास्तं रघुम्। दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव। तमोनुदोग्रिचन्द्रार्काः इति विश्वः। सत्पतिमवाप्याबभुः शुशुभिरे। रघुरपि तमोनुत्। अत्र मनुः- वेदानधीत्य वेदौ दा वेदं वापि यथाक्रमम्। अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत् इति। ब्रह्मचर्यमावोडशात्तु ततो गोदानानन्तरं दारकर्मेति चाणक्यः-चा सम्प्रति यौवराज्ययोग्यतामाह।।३३।।

युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः ।

वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ।।३४।।

युवा तरुणः युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः। यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु इत्यमरः। युगवद्व्यायतौ दीर्घौ बाहू यस्य सः। अंसावस्य स्त इत्यंसलो बलवान्। मांसलश्चेति वृत्तिकारः मनोज्ञस्कन्धः-सु। बलवान्मांसलोंऽसलः इत्यमरः। वत्सांसाभ्यां कामबले इति लच्प्रत्ययः। कपाटवक्षाः कपाटवद्विशालं विस्तीर्ण वक्षो हृदयं यस्य सः। परिणद्धकन्धरः परिणद्धा दृढा कन्थरा ग्रीवा यस्य सः। विषालग्रीवः। परिणाहो विषालता इत्यमरः। रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं पितरमजयत्। तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत। अनौद्धत्यं च विवक्षितम्। सम्प्रति तस्य यौवराज्यमाह-।।३४।।

ततः प्रजानां चिरं आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरं ।

निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ।।३५।।

तत आत्मना स्वेन चिरं चिरकालं धृतां गृहीतां नितान्तगुर्वीम् अत्यन्तगरिष्ठां वोतो गुणवचनात् इति ङीष्। प्रजानां धुरं पालनप्रयासं भां लघयिष्यता लघुं करिष्यता। तत्करोति तदाचष्टे इति लघुशब्दाणणिच्। ततो लृटः सद्वा इति शतृप्रत्ययः। नृपेण दिलीपेनासौ रघुर्निसर्गेण स्वभावेन संस्कारेण शास्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः। युवराज इति शब्द भजतीति तथोक्तम्। भजो ण्विः इति ण्विप्रत्ययः। चक्रे कृतः। द्विविधो विनयः स्वाभविक कृत्रिमश्च इति कौटिल्यः। तदुभयसंपन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः यौवराज्यं स्थापितः। अत्र कामन्दकः- विनयोपग्रहान्भूत्यै कुर्वीत नृपतिः सुतान्। अविनीतकुमारं हि कुलमाशुविशीर्यते। विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत् इति।।३५।।

नरेन्द्रमूलायतनादनन्तरं घनव्यपायेन गभस्तिमानिव ।

अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलं ।।३६।।

गुणान्विनयादीन्सौरभ्यादीश्चाभिलषतीति गुणाभिलाषिणी श्री राज्यलक्ष्मीः पद्माश्रया च नरेन्द्रो दिलीप एव मूतायतनं प्रधानस्थान तस्मात्। अपादानात्। अनन्तरं संनिहितम्। युवराज इति संज्ञास्य संजाता युवराजसज्ञितम्। तारकादित्वादितच्प्रत्ययः। आत्मनः पदं स्थानमास्पदम्। आस्पदं प्रतिष्ठायाम् इति निपातः। स रघुरित्यास्पद तदास्पदम्। कमलाच्चिरोत्पन्नान्नवावतारमचिरोत्पन्नमुत्पलम्व। अशेन भागेन अगच्छत् प्रभावः सूचिता मैत्री त्याग सत्यं क्षमार्जवं कुलं शील दमश्चेति गुणा सम्पत्तिहेतवः इति कामन्दकः-चा स्त्रियो हि यूनि रज्यन्ते इति भावः।।३६।।

विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।

बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ।।३७।।

सारथिना सहायभूतेन। एतद्विशेषणमुत्तरवाक्येष्वप्यनुषञ्जनीयम्। वायुना विभावसुर्वह्निरिव। सूर्यवह्नी विभावसू इत्यमरः। घनव्यपायेन घनानां मेघानां व्यपायो नाशो यत्र तेन शरत्समयेन सारथिना गभस्तिमान्सूर्य इव। कटो गण्डः। गण्डः कटो मदो दानम् इत्यमरः। तस्य प्रभेदः स्फुटनम् गल्लस्थलमदक्षरणः मदोदय इत्यर्थः। तेन करीव। पार्थिवो दिलीपस्तेन रघुणातितरामत्यन्तं सुदुःसहः सोढुमशक्यः सुष्ठ्वसह्यो बभूव।।३७।।

नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतं ।

अपूर्णं एकेन शतक्रतूपमः शतं क्रतूना अपविघ्नं आप सः ।।३८।।

शतक्रतुरिन्द्र उपमा यस्य स शतक्रतूपमः इन्द्रतुल्यः स दिलीपः। शतं वै तुल्या राजपुत्रा देवा आशापालाः इत्यादिश्रुत्या। राजसुतैः सामान्यराजपुत्रैः अनुद्रुतमनुगतं धनुर्धरं धानुष्कं तं रघुं होमतुरंगाणां रक्षणे नियुज्य व्यापार्य। एकेन क्रतुनापूर्णमेकोन क्रतूनामश्वमेधानां शतमपविघ्नमपगतविघ्नं प्रत्यूहरहितं यथा तथाप।।३८।।

ततः परं तेन मखाय वज्वना तुरंगं उत्सृष्टं अनर्गलं पुनः ।

धनुर्भृतां अग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ।।३९।।

ततः परमकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मख याग कर्तुम्। क्रिथार्थोपपदस्य इत्यादिना चतुर्थी। उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धम्। अव्याहतस्वैरगतिमित्यर्थः। अपर्यावर्तन्तोऽश्वमनुचरन्ति इत्यापस्तम्बस्मरणात्। तुरंगं धनुर्भृतां अनादरे षष्ठी रक्षिणां रक्षकाणामग्रतः पुरस्तात् एव शक्रः इन्द्रः गूढविग्रहः गुप्तकायः सन् अन्तर्हितशरीरः सन्। अर्थादात्मानं निगुह्य। जहार किल। किलेत्यैतिह्ये।।३९।।

विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगं ईक्षसे ।

धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशेऽथ नन्दिनी ।।४०।।

तत्कुमारस्य सैन्यं सेना रघुकटकं सपदि सद्यः। वाषाद इष्टनाशकृतो मनोभङ्गः। तदुक्तम्- विषादश्चेतसो भङ्ग उपायाभावनाशयोः इति। तेन लुप्ता नष्टा प्रतिपत्तिः कर्तव्यज्ञान यस्य तत्तथोक्तम्। विस्मितमश्वनाशस्याकस्मिकत्वादाश्छर्याविष्टं सत् निश्चल स्थित तस्थौ। अथ श्रुतप्रभावा श्तुतः प्रभावो रघुत्पत्तिवरप्रदानलक्षणो यस्याः आकर्णितमाहात्म्या-चा यदृच्छया स्वेच्छयागता। रघोः स्वप्रसादलब्धत्वादनुजिघृक्षयेति भावः। नन्दिनी नाम वशिष्ठधेनुश्छ ददृशे। द्वौ चकारावविलम्बसूचकौ द्वौ चकारौ तुल्यकालापेक्षां गमयेते-चा ।।४०।।

तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सतां ।

अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ।।४१।।

सतां भव्यजनानां मध्ये पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन पवित्रेण तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम्। मूत्रमित्यर्थः। तेन स्वेदेनेति-चा । लोचने नेत्रे प्रमृज्य शोधयित्वा। अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु। अत्यादयः क्रान्ताद्यर्थे द्वितीयया इति समासः। द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु। परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्नत्वम्। भावेष्वपि वस्तुषूपपन्नदर्शनः सपन्नसाक्षात्कारशक्तिर्बभूव।।४१।।

स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः ।

पुनः पुनः सूतनिषिद्धचापलं हरन्तं अश्वं रथरश्मिसंयतं ।।४२।।

नरदेवसम्भवः नरदेवाद्दिलीपात्संभवः उत्पत्तिर्यस्य स रघुः पुनः मुहुर्मुहुः सूतेन सारथिना निषिद्धचापलं निवारितौद्धत्यं चाञ्चल्यं रथस्य रश्मिभिझ प्रग्रहैः। किरणप्रग्रहौ रश्मी इत्यमरः। संयतं बद्धमश्वं हरन्त पर्वतपक्षामां गिरिपक्षाणाम् शातनं छेदकं देवमिन्द्रं पूर्वतझ पूर्वस्या दिशि ददर्श अद्राक्षीत्।।४२।।

स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश्च वाजिभिः ।

अवोचदेनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ।।४३।।

रघुस्तमश्वहर्तारमनिमेषवृत्तिभर्निमेषव्यापारशून्यैरक्ष्यमां नैत्राणां शतैर्हरिभिर्हरिद्वर्णैः नीलवर्णैः-सु। हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः इति विश्वः। वाजिभिरश्वैश्च हरिभिन्द्रं विदित्वा ज्ञात्वा। हरिर्वातार्कचन्द्रन्द्रयमोपेन्द्रमनीचिषु इति विश्वः। एनमिन्द्रं गगनस्पृशा व्योमव्यापिना धीरेण गभीरेण स्वरेण ध्वनिनैव निवर्तयन्निव व्यावर्तयन्निव मवोचत् गगनस्पृशा धीरेण च भीत्यभावोक्तिः-चा।।४३।।

मखांशभाजां प्रथमो मनीषिभिस्त्वं एव देवेन्द्र सदा निगद्यसे ।

अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ।।४४।।

हे देवेन्द्र सुरनायक मनीषिभिः विद्वद्भिः त्वमेव मखांशभाजां यज्ञभगभुजां प्रथमः आद्यः। आदौ प्रधाने प्रथमे इति शाश्वतः सदा निगद्यसे कथ्यसे। तथाप्यजस्रदीक्षायां नित्यदाक्षायां प्रयतस्य सावधानस्य मद्गुरोः मम पितुः क्रियाविघाताय क्रतुविघाताय। क्रियां विहन्तुमित्यर्थः। तुमर्थाच्च भाववचनात् इति चतुर्थी। कथं प्रवर्तसे ईदृशस्त्व मम पितुर्मखनाशाय कथं प्रवृत्तः इति भावः।।४४।।

त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा।

स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधि।।४५।।

त्रयाणां लोकानां समाहारस्त्रिलोकं तस्य नाथस्त्रिलोकनाथः। तद्धितार्थ-इत्यादिनोत्तरपदसमासः। तेन त्रैलोक्यनियामकेन दिव्यचक्षुषातीन्द्रियार्थदर्शिना सर्वज्ञेन त्वया मरवद्विषः क्रतुविघातकाः दैत्याः सदा नियम्या ननु शिक्ष्याः खलु। स त्वं धर्मचारिणां धर्मात्मनां कर्मसु क्रतुषु स्वयमन्तरायो विघ्नो भवसि चेत्। विधिरनुष्ठानं च्युतः क्षतः नष्टः। लोके सत्कर्मकथैवास्तभियादित्यर्थः।।४५।।

तदङ्गं अग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुं अर्हसि ।

पतःश्रुतेर्दर्शयितार ईश्वरा मलीमसां आददते न पद्धतिं ।।४६।।

हे मघवन् इन्द्र तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमङ्गं साधनममुं तुरंगं प्रतिमोक्तु प्रतिदातुमर्हसि योग्यो भवसि। तथाहि। श्रुतेः पथो दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा भवादृशाः महान्तो मलीमसां मलिनां पद्धतिं मार्ग नाददते न स्वीकर्वते। असन्मार्ग नावलम्बन्त इत्यर्थः। मलीमसं तु मलिनं कच्चरं मलजूषितम् इत्यमरः।।४६।।

इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसां ।

निवर्तयां आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुं उत्तरं ।।४७।।

इति रघुणा समीरितं उद्घुष्टं प्रगल्भं प्रौढं वचो निशम्याकर्ण्य। दिवौकसः स्वर्गौकसः। दिवं स्वर्गेऽन्तरिक्षे च इति विश्वः। तेषामधिपतिर्देवेन्द्रो रघुप्रभावात्सविस्मयः आश्चर्यः सन्। रथं निवर्तयामास। उत्तरं प्रतिवक्तुं प्रचक्रमे आरेभे च।।४७।।

यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः ।

जगत्प्रकाशं तदशेषं इज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ।।४८।।

हे राजन्यकुमार क्षत्त्रियकुमार। मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्त्रियो विराट् इत्यमरः। यद्वाक्यमात्थ ब्रवीषि। ब्रुवः पञ्चानाम्- इत्यादिनाहादेशः। तत्तथा सत्यम्। किन्तु यशोधनैः यशः कीर्तिरेव धनं द्तव्यं येषां तैः अस्मादृशैः परतः शत्तरुतो यशो रक्ष्यम् रक्षणीयं। ततः क्मत आह- भवद्रुरुस्त्वत्पिता जगत्प्रकाश लोकप्रसिद्थमशेषं सर्वं मम तद्यशः साम्प्रतं इज्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः क्रमितुमुद्युक्तः व्रजयजोभावे क्यप्-चा। कं तद्यश इत्याह-।।४८।।

हरिर्यथैकः पुरुशोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः ।

तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ।।४९।।

पुरुषेषूत्तम इति सप्तमीसमासः। न निर्धारणे इति षष्ठीसमासनिषेधात्। कर्मधरये तु सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इत्युत्तमपुरुष इति स्यात्। यथा हरिर्विष्मुरेक एव पुरुषोतेतमः स्मृतः कथितः। यथा च त्र्यम्बकः शिव एव महेश्वरः स्मृतः। नापरोऽपरः पुमान्न। यथा मां मुनयः शतक्रतु विदुर्विदन्ति। विदो लटो वा इति झेर्जुसादेशः। नोऽस्माकम्। हरिहरयोर्मम चेत्यर्थः। एष त्रितयोऽपि शब्दो द्वितीयगामी द्वितीयपुरुषगमनशीलः न हि। द्वितीयाप्रकरणे गमिगम्यादीनामुपसंखायनात्समासः।।४९।।

अतोऽयं अश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः ।

अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ।।५०।।

यतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरय शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयापहरितोऽपहृतः। अपहारित इति स्वार्थे णिच्। तवात्राश्वे प्रयत्नेनालम् कृतं मम समीपात् णश्वस्यापहरणप्रयत्नेन प्रयत्नो माकारीत्यर्थः। निषेव्यस्य निषद् प्रति करणत्वात्तृतीया। सगरस्य राज्ञः संततेः सतानस्य पदव्यां सगरचक्रवर्तिपुत्रमार्गे पदं मा निधा न निधेहि। निपूर्वाद्धाङ्धातोर्लुङ्। न माङ्योगे इत्यडागमप्रतिषेधः। महदास्कन्दन ते विनाशमूलं भवेदिति भावः पुरा यज्ञाश्वमन्वेषयमामस्तुगापहार्ययमिति वदन्तः कपिलमुनिना व्यापादिताः तथा त्वमपि इति कपिलानुकृत्या सूचयति-चा।।५०।।

ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता ।

गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ।।५१।।

ततस्तुरगस्य रक्षिता रक्षक रघु प्रहस्य प्रहाम कृत्वा। अवभया निर्भोकः सन्। पुनः पुरंदरं बभाषे। किमिति- हे देवेन्द्र यद्योषोऽश्वामोचनरूपस्ते तव सर्गो सगरसुतपदवीं नेष्यामीत्येवं रूपः सर्गः -चा निश्चयः। सर्गः स्भावनिर्मोक्षनिश्चयाध्यायसृष्टिषु इत्यमरः। तर्हि शस्त्रं गृहाण। भान्रघुं मामनिर्जित्य। कृतमनेनेति कृती।कृतकृत्यो न खलु। इष्टादिभ्यश्च इतीनिप्रत्ययः। रघुमित्यनेनात्मतो दुर्जयत्वं सूचितम्।।५१।।

स एवं उक्त्वा मघवन्तं उन्मुखः करिष्यमाणः सशरं शरासनं ।

अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ।।५२।।

स रघुरुन्मुखः ऊर्ध्वाननः सन्। मघवन्तमिन्द्रमेवमुक्त्वा गदित्वा शरासनं शराः अस्यन्ते क्षिप्यन्तेऽनेनेति चापं सशरं बाणयुक्तं करिष्यमाणः। आलोढेनालीढाख्येन स्थानकभेदेन पुरा किल भावान् त्रिपुरदिदृक्षया दिव्यं वर्षशतमालीढविशेषेण स्थानाधिक्य़ेन उर्ध्वमुखोध्यतिष्ठदिति-व। कुकारसम्भवे। सदक्षिणापाङ्गनिविष्चमुष्टि नतां समाकुश्चितसव्यपदमिति। नामिता पूर्वजंघा च पश्चिमा प्रगुणा भवेत् असमो मध्यकायः स्यादालीढस्य तु लक्षणम्-चा। विशेषशोभिनातिशयशोभिना वपुःप्रकर्षेण देहौन्नतेयेन विडम्बितेश्वरोऽनुसृतपिनाकी विडम्बिसोऽनुकृतस्त्रिपुरदाहोद्युक्तः शंभुर्येन स तादृशः सन्। अतिष्ठत्। आलीढलक्षणमाह यादवः- स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम्। त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृति। अन्वर्थं स्त्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढविपर्ययः इति।।५२।।

रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।

नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकं ।।५३।।

रघोरवष्टम्भमयेन स्तम्भरूपेण स्थैर्यरूपेण कांचनमयेन वा-चा। अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि इति विश्वः। पत्त्त्रिणा बाणेन हृदि हृदयं क्षतो विद्धः। अत एवामर्षणोऽसहनः। क्रुद्ध इत्यर्थः। गोत्रभिदिन्द्रोऽपि। सम्भावनीये चौरेऽपि गोत्रः क्षौणीधरे मतः इति विश्वः। नवाम्बुदानां नूतनमेघानां अनाकस्य वृन्दस्य मुहूर्ते क्षणमात्रं लाञ्छने चिह्नभूते धनुषि। दिव्ये धनुषीत्यर्थः। अमोखमवन्ध्यं सायक बाणं समधत्त संहितवान् योजितवान्।।५३।।

दिलीपसूनोः स बृहद् भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।

पपावनास्वादितपूर्वं आशुगः कुतूहलेनेव मनुष्यशोणितं ।।५४।।

भीमानां भयंकराणामसुराणां रक्षसां शोणिते रुधिरे उचितः परिचितः स इन्द्रमुक्त आशुगः सायको दिलीपसनो रघोर्बृहद्विशालं भजान्तर वक्षः प्रविश्य। अनास्वादितपूर्वं पूर्वमनास्वादितम्। सुप्सुपेति समासः। मनुष्यशोणितं कुतूहलेनेव कौतुकेनेव पपौ।।५४।।

हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।

भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकं ।।५५।।

कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः। सप्तम्युपमानपूर्वस्य-इत्यादिना समासः। कुमारोऽपि रघुरपि सुरद्विपस्यैरावतस्यास्फालनेन प्रोत्सहनेन ताडनेन वा-चा। कर्कशाः कठिनाः अङ्गुलयो यस्य सः तथाकुमारसम्भवे। ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः। इत्वेवंरूपः श्लोकांशः.। तस्मिन्। शच्याः पत्त्रविशेषकैरङ्कितेशचीपत्त्रविशेषकाङ्किते हरेरिन्द्रस्य भुजे स्वनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान्। निष्कण्टकराज्ये तस्यायं महानभिभुव इति भावः।।५५।।

जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजं ।

चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणादिव ।।५६।।

अन्येन मयूरपक्षिणा मयूरपत्त्रवता शरेण शक्रस्येन्द्रस्य महाशनिध्वजं महान्तभशनिपूपं ध्वजं दम्भोलिरूपां पताकां जहार चिच्छेद च। स शक्रः। सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोपणादवतारणाच्छेदनादिव। तस्मै रघवे भृशमत्यर्थं चुकोप। सं हन्तुमियेषेत्यर्थः। क्रुधद्रुह- इत्यादिना सम्प्रदानाच्चतुर्थी।।५६।।

तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः ।

बभूव युद्धं तुमुउलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्त्रिभिः ।।५७।।

जयेषिणोरन्योन्यजयाकाङ्क्षिणोस्तयोरिन्द्ररघ्वोः। गरुत्मन्तः पक्षवन्तः। गरुत्पक्षदा पत्त्रम् इत्यमरः। आशीविषाः। आशिषि दंष्ट्रायां विषं येषां ते आशीविषाः सर्पाः। सपक्षा सर्पा इव। द्रष्टृणां भयावहा इत्यर्थः। तैरधोमुखेरूर्ध्वमुखैश्च। धन्विनोरुपर्यधोदेशावसिथितत्वादिति भावः। पत्त्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च घोर्यस्मिस्तत्तथोक्तं तुमुलं संकुलं रौद्रं युद्धं बभूव।।५७।।

अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तं आश्रयं दुष्प्रहस्य तेजसः ।

शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निं इवाद्भिरम्बुदः ।।५८।।

वामवः इन्द्रः अतिप्रबन्धेनातिसातत्येन प्रवाहेण वा प्रहिताभिः प्रत्युक्ताभिरस्त्रवृष्टिभिर्दुष्प्रसहस्य दुःखेन प्रसद्यत इति दुष्प्रसहं तस्य। दुःखेनाप्यसह्यस्येतेयर्थः। तेजसः प्रतापस्याश्रयं आस्थानं तं रघुम्। अम्बुदोऽद्भिः पानीयैः स्वतश्ट्युतं निर्गतं वह्निमिव। निर्वापतितुं न शशाक। रघोरपि लोकपालात्मकस्येन्द्रांशसंभवत्वादिति भावः।।५८।।

ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर ।

रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यां अलुनाद्विडौजसः ।।५९।।

ततो रघुर्हरिचन्दनाङ्किते कुंकुमांकिते प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानारणवः वितोड्यमानसमुद्रः इव धीरं गम्भीरं नदतीति तां तथोक्ताम्। वेवेष्टि व्याप्नोतीति विट् व्यापकं भेदकं-चा ओजो यसेय र तस्य विडौजस इन्द्रस्य। पृषोदरातित्वात्साधुः। शरासनज्याम् धनुर्मौर्वीम्। शशाङ्कस्यार्धः खण्ड इव मुखं फल यस्य तेन पत्त्त्रिणा बाणेन अलुनादच्छिनत् गोशीर्षे कुंकुमे देववक्षःश्रीहरिचन्दने इत्यर्द्धनारीश्वरः-चा।।५९।।

स चापं उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलं अस्त्रं आददे ।।६०।।

विवृद्धमत्सरः विवृद्धः अत्यन्तभुतः मत्सरः वेरभाव यस्य स तथोक्त)। प्रवृद्धवैरः स इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय। मही धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। तेषा पक्षव्यपरोपणे पक्षच्छेदे उचित स्फुरत्प्रभामणडलमस्त्रं वज्रायुधमाददे जग्राह।।६०।।

रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।

निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ।।६१।।

रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि हृदये ताडितो हतः सन्। सैनिकानामश्रुभि बाष्पै सह भूमौ मह्यां पपात। तस्मिनपतिते ते रुरुदुरित्यर्थः। निमेषमात्रात् क्षणमात्रात् तद्व्यथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण आनन्देन ये निस्वनाः क्ष्वंडाः शब्दाः तैः सहोत्थितश्च। तस्मिन्नुत्थिते हषोत्सिहनादांशचक्रुरित्यर्थः।।६१।।

तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरं अस्य तस्थुषः ।

तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्निधीयते ।।६२।।

तथापि वज्रपातेऽपि शस्त्राणामायुधानां व्यवहारेण व्यापार्यम निष्ठुरे क्रूर विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन पौरुपाधिक्येन। वृत्रं हतवानिति वृत्रहा। ब्रह्मभ्रूणवृत्रेषु क्विप् तुतोष। स्वय वीर एव वीर जानातीति भावः। कथं शत्रोः सन्तोषोऽत आह-गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्घ्रिर्निधीयते। गुणैः सर्वत्र संक्रम्यत इत्यर्थः। गुणाः शत्रनप्यावर्जयन्तीति भाव।।६२।।

असङ्गं अद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढं आयुधं ।

अवेहि मां प्रीतं ऋते तुरंगमात्किं इच्छसीति स्फुटं आह वासवः ।।६३।।

सारवत्तया सारः स्थिरांशः तस्य भावः तया अद्रिप्वप्यसङ्गमप्रतिबन्धं अकुण्ठं मे आयुधं वज्र त्वदन्येन त्वत्तोऽपरेण न विसोढम्। अतो मां पञ्चमी। किमिच्छसीति स्फुटं वासव आह। तुरंगमादन्यददेयं नास्तीति भावः।।६३।।

ततो निषङ्गादसमग्रं उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिं ।

नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरं ।।६४।।

ततो नरेन्द्रसुनू रघुः निषङ्गात्तूणीरादसमग्रं यथा तथोद्धतं सुवर्णपुङ्खद्युतिभिः सवर्णस्य पुंखः शरमूलं तस्य द्युतिभिःदीप्तिभिः रञ्जिता अङ्गुलयो येन तमिषं बाणं प्रतिसंहरन्निवर्तयन्। नाप्रहरन्तं प्रहरेदिति निषेधादिति भावः। प्रियं वदतीति प्रियंवदः मधुरवाक्। प्रियवशे वदः खच् इति खच्प्रत्ययः। अरुर्द्विष- इत्यादिना मुमागमः तं सुरेश्वरं प्रत्यवदत्। नतु प्राहरदिति भावः।।६४।।

अमोच्यं अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।

अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यतां ।।६५।।

हे प्रभो इन्द्र अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां अनवरतयज्ञदीक्षायां प्रयतः निरतः स मद्गुरुर्मम पिता विधिनैव वेदोक्तप्रकारेण कर्तव्यतयैव कर्ममि समाप्ते पूर्णे सति क्रतोः यज्ञस्य यत्फवं तेन फलेनाशेषेण कृत्स्नेन युज्यतां युक्तोऽस्तु। अश्वमेधफललाभे किमश्वेनेति भावः।।६५।।

यथा च वृत्तान्तं इमं सदोगतस्त्रिलोचनैकांशतया दुरासदः ।

तवैव संदेषहराद्विशंपतिः शृणोति लोकेश तथा विधीयतां ।।६६।।

सदोगतः सदोगृहं गतस्त्रिलोचनस्येश्वरस्यैकांशतयाष्टानामन्यतममूर्तित्वात्। दुरासदोऽस्मादृशैर्दुष्प्राप्यः दीक्षितत्वात्त्रिलोचनस्यैकांशत्वेन दुरधिगमः-चा अष्टमूर्तित्वात् यजमानलक्षणांशभावात् दुरभिभवः दुराकलनीयः-व विशांपतिः नरपतिः यथेमं वृत्तान्तं वार्त्तां तव संदेशहराद्वार्ताहरादेव शृणोति च हे लोकेशेन्द्र तथा विधीयताम्।।६६।।

तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ ।

नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुरपि न्यवर्तत ।।६७।।

मातलिसारथिरिन्द्रो रघोः सम्बन्धिनं कामं मनोरथं तथेति तथास्त्विति प्रतिशुश्रुवान्। भाषायां सदवसश्रुवः इति क्वसुप्रत्ययः। यथागतं न तु रघुं विजित्येति भावः-चा। ययौ येन मार्गेणायातस्तेनैव गत इतियर्थः-व। सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाक्षान्नातीवतुष्टः सन्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। नृपस्य सदोगृहं दीक्षामण्डपं प्रति न्यवर्तत।।६७।।

तं अभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।

परामृशन्हर्षजडेन पाणिना तदीयं अङ्गं कुलिशव्रणाङ्कितं ।।६८।।

हरेरिन्द्रस्य शासनहारिणा आज्ञापालकेन पुरुषेँ प्रथमं प्रबोधितो ज्ञापितः। वृत्तान्तमिति शेषः। प्रजेश्वरो दिलीपो हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम् कुलिशस्य वज्रस्य व्रणैः प्रहारैः अंकितं चिह्नितं । तस्य रघोरिदं तदीयम्। अङ्गं शरीसं परामृशंस्तं कघुमभ्यनन्दत्।।६८।।

इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।

समारौरुक्षुर्दिवं आयुषः क्षये ततान सोपानपरंपरां इव ।।६९।।

महनीयशासनः पूजनीयाज्ञः क्षितीशः भूपतिः इत्यनेन प्रकारेण। इति हेतुप्रकर्षादिसमाप्तिषु इत्यमरः। महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेतोनशतमायुषः क्षये जीवितपूर्णे सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परंपरां पङ्क्तरमिव ततान।।६९।।

अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणं ।

मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसां इक्ष्वाकूणा इदं हि कुलव्रतम् ।।७० ।

अथ विषयेभ्यः रूपगन्धस्पर्शादिभ्यः व्यावृत्तात्मा निवृत्तचित्तः स दिलीपो यथाविधि यथाशास्त्र यूने युवराजाय सूनवे पुत्राय नृपतिककुदं राजचिह्नम्।
ककुद्वत्ककुद श्रेष्ठे तृषाङ्के राजलक्ष्मणि इति विश्व। सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छाया शिश्रिये श्रितवान्। वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः। तथाहि। गलितवयसा वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम्। तद्राजसंज्ञकत्वादणोलुक। इदं वनगमनं कुलव्रतं कुलाचारः। देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः। तथा च याज्ञवल्क्यः- सुतविन्यस्तपत्नीकस्तया वानुगतो वनम्। वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् इति। हरिणीवृत्तमेतत्। तदुक्तम्- रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा इति।।७०।।
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसुरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ श्रीरघुवंशे महाकाव्ये रघुराज्याभिषेको नाम तृतीयः सर्गः।