Saturday 22 August 2015

nyayabodhini

।।तर्कसंग्रहः।।


निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः।।


न्यायबोधिनी

अखिलागमसञ्चारि श्रीकृष्णाख्यं परं महः।
ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम्।।
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति-निधायेति।
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः।
अथ पदार्थान् विभजते-द्रव्येति। तत्र सप्तग्रहणं पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्याप्तिलाभाय।
ननु शक्तिपदार्थस्याऽष्टमस्य सत्त्वात्कथं सप्तैवेतिॽ तथाहि- वह्निसयुक्तेन्धनादौ सत्यपि मणिसंयोगे दाहो न जायते, तच्छून्येन तु जायते। अतो मणिसमवधाने शक्तिर्नश्यति, मण्यभावदशायां दाहानुकूला शक्तिरुत्पद्यत इति कल्प्यते। तस्माच्छक्तिरतिरिक्तः पदार्थ इति चेन्न, मणेः प्रतिबन्धकत्वेन मण्यभावस्य कारणत्वेनैव निर्वाहे मणिसमवधानासमवधानाभ्यामनन्तशक्ति-तद्ध्वंस-तत्प्रागभाव-कल्पनाया अन्याय्यत्वात्। तस्मात्सप्तैवेति सिद्धम्।
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव।
द्रव्याणि विभजते- पृथिवीति। नन्वन्धकारस्य दशमद्रव्यस्य सत्त्वात्कथं नवैवेतिॽ तथाहि- नीलं तमश्चलतीति प्रतीतेर्नीलरूपाऽश्रयत्वेन क्रियाऽश्रयत्वेन च द्रव्यत्वं सिद्धम्। न च क्लृप्तद्रव्येष्वन्तर्भावात्कुतो दशमद्रव्यत्वमिति वाच्यम्। तमसो रूपवत्त्वात्, आकाशादिपञ्चकस्य वायोश्च नीरूपत्वान्न तेष्वन्तर्भावः, तमसो निर्गन्धत्वान्न पृथिव्याम् अन्तर्भावः, जलतेजसोः शीतोष्णस्पर्शवत्वान्न तयोरन्तर्भावः, तस्मात्तमसो दशमद्रव्यत्वं सिद्धमिति चेन्न, तेजोऽभावरूपत्वेनैवोपपत्तावतिरिक्ततत्कल्पनायां मानाभावात्। न च विनिगमनाविरहात्तेज एव तमोऽभावस्वरूमस्त्विति वाच्यम्, तेजसोऽभावस्वरूपत्वे सर्वानुभूतोष्णस्पर्शाश्रयद्रव्यान्तरकल्पने गौरवात्। तस्मादुष्णस्पर्शगुणाऽश्रयतया तेजसो द्रव्यत्वं सिद्धम्। तमसि नीलत्वादिप्रतीतिस्तु भ्रान्तिरेव। दीपाऽपसरणक्रियाया एव तत्र भानात्।
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेष- प्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः। उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि। परमपरं चेति द्विविधं सामान्यम्। नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव। समवायस्त्वेक एव। अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्याभावश्चेति।

इत्युद्देशप्रकरणम्।


अथ द्रव्यप्रकरणम्।

तत्र गन्धवती पृथिवी। सा द्विविधा नित्याऽनित्या च। नित्या परमाणुरूपा। अनित्या कार्यरूपा। सा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति। विषयो मृत्पाषाणादिः।
गन्धवतीति। गन्धवत्त्वं पृथिव्या लक्षणम्। लक्ष्या पृथिवी। पृथिवीत्वं लक्ष्यतावच्छेदकम्। यद्धर्मावच्छिन्नं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यो धर्मो यस्यावच्छेदकः, स तद्धर्मावच्छिन्नः। तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं चेल्लक्ष्यता पृथिवीत्वावच्छिन्ना। गन्धसमानाधिकरणद्रव्यत्व- व्याप्यजातिमत्त्वं पृथिव्या लक्षणम्। एवं शीतस्पर्शवत्त्वादिलक्षणेषु जलादीनां लक्ष्यता, जलत्वादीनां लक्ष्यतावच्छेदकत्वं च बोध्यम्।
शीतस्पर्शवत्य आपः। ताश्च द्विविधा नित्या अनित्याश्चेति। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। ताः पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः।
उष्णस्पर्शवत् तेजः। तच्च द्विविधं नित्यमनित्यं च। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरम् आदित्यलोके प्रसिद्धम्। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात्। भौमं वह्न्यादिकम्। अबिन्धनं दिव्यं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि।
रूपरहीतः स्पर्शवान् वायुः। स द्विविधो नित्योऽनित्यश्च। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः। शरीरान्तःसंचारी वायुः प्राणः, स च एकोऽप्युपाधिभेदात् प्राणापानादिसंज्ञां लभते।
एवं पृथिव्यादित्रिकं निरूप्य वायुं निरूपयति- रूपरहित इति। रूपरहितत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम्। सतिसप्तम्या विशिष्टार्थकतया रूपरहितत्वविशिष्टस्पर्शवत्त्वं वायोर्लक्षणम्। विशेषणांऽशानुपादाने स्पर्शवत्त्वमात्रस्य लक्षणत्वे पृथिव्यादित्रिकेऽतिव्याप्तिः, तद्वारणाय विशेषणोपादानम्। तावन्मात्रोपादाने आकाशादावतिव्याप्तिः, तद्वारणाय विशेष्योपादानम्।
अतिव्याप्तिर्नाम- अलक्ष्ये लक्षणसत्त्वम्। यथा- गोः शृङ्गित्वं लक्षणं कृतं चेल्लक्ष्यभूतगोभिन्नमहिष्यादावतिव्याप्तिस्तत्रापि शृङ्गित्वस्य विद्यमानत्वात्। अव्याप्तिर्नाम- लक्ष्यैकदेशावृत्तित्वम्। लक्ष्यैकदेशे लक्ष्यतावच्छेदकाश्रयीभूते क्वचिल्लक्ष्ये लक्षणासत्त्वम् अव्याप्तिरित्यर्थः। यथा गोर्नीलरूपवत्त्वं लक्षणं कृतं चेल्लक्ष्यतावच्छेदकाश्रयीभूतश्वेतगवि अव्याप्तिस्तत्र नीलरूपाभावात्। असम्भवो नाम- लक्ष्यमात्रे कुत्रापि लक्षणासत्त्वम्।यथा गोरेकशफवत्त्वं (लक्षणं कृतं चेत्) गोसामान्यस्य द्विशफवत्त्वेन एकशफवत्त्वस्य कुत्राप्यसत्त्वात्।
अतिव्याप्त्यव्याप्त्यसम्भवानां निष्कृष्टलक्षणानि- लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेद- सामानाधिकरण्यमतिव्याप्तिः। अव्याप्तिस्तु लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्। असम्भवस्तु लक्ष्यतावच्छेदकव्यापकीभूता- भावप्रतियोगित्वम्।
शब्दगुणकम् आकाशम्। तच्चैकं विभु नित्यञ्च।
आकाशं लक्षयति शब्दगुणकमिति। अत्र गुणपदमाकाशे शब्द एव विशेषगुण इति द्योतनाय न त्वतिव्याप्तिवारणाय, समवायेन शब्दवत्त्वमात्रस्य सम्यक्त्वात्। तच्चैकमिति। अनेकत्वे मानाभावादिति भावः। विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्। मूर्तत्वञ्च क्रियावत्वम्। पृथिव्यप्तेजोमनांसि मूर्तानि। पृथिव्यप्तेजोवाय्वाकाशेतिपञ्चकं भूतपदवाच्यम्। भूतत्वं नाम बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्।
अतीतादिव्यवहारहेतुः कालः। स चैको विभुर्नित्यश्च।
कालं लक्षयति अतीतेति। व्यवहारहेतुत्वस्य लक्षणत्वे घट इति व्ववहारहेतुभूतघटादावतिव्याप्तिः, तद्वारणाय अतीतादिविशेषणोपादानम्।
प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च।
दिशो लक्षणमाह- प्राच्येति। उदयाचलसन्निहिता या दिक् सा प्राची। अस्ताचलसन्निहिता या दिक् सा प्रतीची। मेरोः सन्निहिता या दिक् सा उदीची। मेरोर्व्यवहिता या दिक् सा अवाची।
ज्ञानाधिकरणम् आत्मा। स द्विविधः परमात्मा जीवात्मा चेति। तत्रेश्वरः सर्वज्ञः परमात्मैक एव। जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च।
आत्मानं निरूपयति ज्ञानाधिकरणमिति। अधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभाय।
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च।
मनो निरूपयति- सुखादीति। उपलब्धिर्नाम साक्षात्कारः। तथा च सुखदुःखादिसाक्षात्कारकारणत्वे सतीन्द्रियत्वं मनसो लक्षणम्। इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः, अतः सुखादिसाक्षाकारकारणत्वविशेषणम्। विशेष्यानुपादाने आत्मन्यतिव्वाप्तिः, आत्मनः सुखादिकं प्रति समवायिकारणत्वात्। अत इन्द्रियत्वरूपविशेष्योपादानम्।

अथ गुणप्रकरणम्।

चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरं शुक्लं तेजसि।
रुपं लक्षयतिचक्षुरिति। चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रुपस्य लक्षणम्। विशेष्यमात्रोपादाने रसादावतिव्याप्तिः,  अतश्चक्षुर्मात्रग्राह्यत्वं विशेषणम्। तावन्मात्रोपादाने रूपत्वेऽतिव्यप्तिः, यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिस्तदिन्द्रियग्राह्येति नियमात्तद्वारणाय विशेष्योपादानम्। चक्षुमात्रग्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रियाऽग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्। मात्रपदानुपादाने संख्यादिसामान्यगुणेऽतिव्याप्तिःचक्षुग्राह्यत्वविशिष्टगुणत्वस्य तत्रापि सत्त्वात्, अतस्तद्वारणाय मात्रपदम्। संख्यादेश्चक्षुर्भिन्नत्वगिन्द्रियग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति। अतीन्द्रियगुरुत्वादावतिव्याप्तिवारणाय चक्षुर्ग्राह्येति। अत्र लक्षणे ग्राह्यत्वं नाम प्रत्यक्षविषयत्वम्। अग्राह्यत्वं नाम तदविषयत्वम्। तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाऽविषयत्वे सति चक्षुर्जन्यप्रत्यक्षविषयत्वमिति फलितोऽर्थः।
ननु प्रभाघटसंयोगे रूपलक्षणस्याऽतिव्याप्तिस्तस्य चक्षुर्मात्रग्राह्यगुणत्वादिति चेन्नगुणपदस्य विशेषगुणपरत्वात्। न चैवं विशेषगुणत्वघटितलक्षणे संख्यादावतिव्याप्त्यभावान्मात्रपदवैयर्थ्यमिति वाच्यम्, जलमात्रवृत्तिसांसिद्धिकद्रवत्वादावतिव्याप्तिवारणाय तदुपादानात्। अथवा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादावतिव्याप्तिः। संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात्। घटपटसंयोगस्य त्वगिन्द्रयग्राह्यत्वात्तद् गतजातेरपि त्वगिन्द्रियग्राह्यत्वात्। यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठजातेरपि तदिन्द्रियग्राह्यत्वात्। अत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम्। एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुणादौ अतिव्याप्तिः। विशेष्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावतिव्याप्तिः। अतो विशेषणविशेष्ययोः उभयोरुपादनम्।
रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः। पृथिवीजलवृत्तिः। तत्र पृथिव्यां षड्विधः। जले मधुर एव।
घ्राणग्राह्यो गुणो गन्धः। स द्विविधः सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः।
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स च त्रिविधः शीतोष्णानुष्णाशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः। तत्र शीतो जले। उष्णस्तेजसि। अनुष्णाशीतः पृथिवीवाय्वोः।
स्पर्शं लक्षयति- त्वगिन्द्रियमात्रग्राह्य इति। अत्रापि मात्रपदं संख्यादिसामान्यगुणादावतिव्याप्तिवारणाय। अन्यविशेषणकृत्यं पूर्ववद्बोद्ध्यम। ग्राह्यत्वपदार्थोऽपि पूर्ववदेव प्रत्यक्षविषयत्वरूप एव बोध्यः।
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च। अन्यत्र अपाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्।
रूपादिचतुष्टयमिति। एतत्तत्त्वनिर्णयश्चेत्थं- पाको नाम विजातीयतेजः संयोगः। स च नानाजातीयरूपजनको विजातीयतेजःसंयोगः। तदपेक्षया रसजनको विजातीयः। एवं गन्धजनकोऽपि ततो विजातीय एव। एवं स्पर्शजनकोऽपि तथैव ।एवं प्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः। यथा तृणपुञ्जनिक्षिप्ते आम्रादौ उष्णलक्षणविजातीयतेजःसंयोगात्पूर्वहरितरूपनाशेन रूपान्तरस्य पीतादेरुत्पत्तिर्न तु रसादेरुत्पत्तिः, पूर्वरसस्याऽम्लस्यैवानुभवात्। क्वचित्पूर्वहरितरूपसत्त्वेऽपि रसपरावृत्तिर्दृश्यतेविजातीयतेजःसंयोगरूपपाकवशात्पूर्वतनाऽम्ल- रसनाशेन मधुररसस्यानुभवात्। तस्माद्रूपजनकापेक्षया रसजनको विलक्षण एवाङ्गीकार्यः। एवं गन्धजनको विलक्षण एव, रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशेऽपि विजातीयपाकवशात्सुरभिगन्धोपलब्धेः। एवं स्पर्शजनकः। पाकवशात्कठिनस्पर्शनाशेन मृदुस्पर्शानुभवात्। तस्माद्रूपादिजनका विजातीया एव पाकाः। अत एव पार्थिवपरमाणूनामेकजातीयत्वेऽपि पाकमहिम्ना विजातीयद्रव्यान्तरानुभवःयथा-गोभुक्ततृणादीनामापरमाण्वन्तभङ्गे तृणारम्भकपरमाणुषु विजातीयतेजःसंयोगात् पूर्वरूपादिचतुष्टयनाशे तदन्तरं दुग्धे यादृशं रूपादिकं वर्तते तादृशरूपरसगन्धस्पर्शजनकास्तेजःसंयोगा जायन्ते। तदुत्तरं तादृशरूपरसादय उत्पद्यन्ते। तादृशरूपरसादिविशिष्टपरमाणुभिर्दुग्धद्व्यणुकमारभ्यतेततस्त्र्यणुकादिक्रमेण महादुग्धारम्भः। एवं दुग्धारम्भकैः परमाणुभिरेव दध्यारभ्यते। एवं पाकमहिम्ना दध्यारम्भकैरेव परमाणुभिर्नवनीतादिकमिति दिक्।
एकत्वादिव्यवहारहेतुः संख्या। सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यम् अनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्राऽनित्यमेव।
मानव्यवहारासाधारणकारणं परिमाणम्। नवद्रव्यवृत्ति। तच्चतुर्विधम्। अणु महद्दीर्घं हृस्वं चेति।
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति।
संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः।
संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः।
विभागं लक्षयति- संयोगेति। संयोगनाशकत्वविशिष्टगुणत्वं विभागस्य लक्षणम्। विशेषणमात्रोपादाने क्रियाया अपि संयोगनाशकत्वात् तत्रातिव्याप्तिस्तद्वारणाय गुणत्वमिति विशेष्योपादानम्।
परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे दिक्कृते कालकृते च। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्।
आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति।
गुरुत्वं लक्षयति- आद्येति। द्वितीययतनक्रियायां वेगस्याऽसमवायिकारणत्वात् तत्रातिव्याप्तिवारणाय आद्येति। उत्तरत्र स्यन्दने आद्यविशेषणमपि पुर्ववदेव योजनीयम्।
आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिव्यप्तेजोवृत्ति। तद्द्विविधं सांसिद्धिकं नैमित्तिकं च। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ।
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्तिः।
स्नेहं लक्षयति- चूर्णादीति। चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम्। पिण्डीभावो नाम चूर्णादेः धारणाऽकर्षणहेतुभूतो विलक्षणः संयोगः। तादृशसंयोगे स्नेहस्यैवाऽसाधारणाकारणत्वंन तु जलादिगतद्रवत्वस्य। तथा सति द्रुतसुवर्णादिसंयोगेन चूर्णादेः पिण्डीभावापत्तेः अतः स्नेह एवासाधारणं कारणम्। विशेषणमात्रोपादाने कालादावतिव्यप्तिरतस्तद्वारणाय विशेष्योपादानम्। वस्तुतस्तु द्रुतजलसंयोगस्य एव पिण्डीभावहेतुत्वंस्नेहस्य पिण्डीभावहेतुत्वे मानाभावात्। जले द्रुतत्वविशेषणात् करकादिव्यावृत्तिः।
श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिः। स द्विविधः। ध्वन्यात्मको वर्णात्मकश्चेति। तत्र ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः।
शब्दं लक्षयति- श्रोत्रेति। शब्दत्वेऽव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय श्रोत्रेति। स त्रिविधः- संयोगजो विभागजः शब्दजश्चेति। यथा भेरीदण्डसंयोगजो झंकारादिशब्दःहस्ताभिघातसंयोगजन्यो मृदङ्गादिशब्दः, वंशे पाट्यमाने दलद्वयविभागजश्चटचटाशब्दः। शब्दोत्पत्तिदेशमारभ्य श्रोत्रदेशपर्यन्तं वीचितरङ्गन्यायेन कदम्बमुकुलन्यायेन वा निमित्तपवनेन शब्दधारा जायन्ते। तत्र उत्तरोत्तरशब्दे पूर्वपूर्वशब्दः कारणम्।
सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः। सा द्विविधा स्मृतिरनुभवश्च।
बुद्धेर्लक्षणमाह- सर्वव्यवहारेति। व्यवहारः शब्दप्रयोगः। ज्ञानं विना शब्दप्रयोगासम्भावाच्छब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्य लक्षणम्। बुद्धिं विभजतेसा द्विविधेति।
संस्कारमात्रजन्यं ज्ञानं स्मृतिः।
स्मृतिं लक्षयति- संस्कारेति। संस्कारमात्रजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम्। विशेषणानुपादाने प्रत्यक्षानुभवेऽतिव्याप्तिः अतस्तद्वारणाय विशेषणोपादानम्। संस्कारध्वंसेऽतिव्याप्तिवारणाय विशेष्योपादानम्। ध्वंसम्प्रति प्रतियोगिनः कारणत्वात् संस्कारध्वंसे अपि संस्कारजन्यत्वस्य सत्त्वात्। प्रत्यभिज्ञायामतिव्यप्तिवारणाय मात्रपदम्।
तद्भिन्नं ज्ञानमनुभवः। स द्विविधो यथार्थोऽयथार्थश्चेति। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा रजते इदं रजतमिति ज्ञानम्। सैव प्रमेत्युच्यते।
अनुभवं लक्षयति- तद्भिन्नमिति। तद्भिन्नत्वं नाम स्मृतिभिन्नत्वम्। तथा च स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम्। तत्र विशेषणानुपादाने स्मृतावतिव्याप्तिः। विशेष्यानुपादाने घटादावतिव्याप्तिरतस्तद्वारणाय विशेषणविशेष्ययोरुभयोरुपादानम्। अनुभवं विभजतेस द्विविधः इति।
यथार्थनुभवं लक्षयति- तद्वतीति। तद्वतीत्यत्र सप्तम्यर्थो विशेष्यत्वम्। तच्छब्देन प्रकारीभूतो धर्मो धर्तव्यः। तथा च तद्वद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम्। उदाहरणंरजते इदं रजतम् इति ज्ञानम्। अत्र रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वस्य सत्त्वाल्लक्षणसमन्वयः। तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वम् इति तु निष्कर्षः। अन्यथा यथाश्रुते रङ्गरजतयोः इमे रजतरङ्गे इत्याकारकसमूरालम्बनभ्रमेऽतिव्याप्ति, तत्रापि रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वयोः रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयोः सत्त्वात्। उक्तनिष्कर्षे तु नातिव्याप्तिः। रजतत्वप्रकारताया रजतत्वद्विशेष्यतानिरूपितत्वाभावात्। एवं रङ्गत्वप्रकारताया रङ्गत्ववद्विशेष्यतानिरूपितत्वाभावात्। किन्तु समूहालम्बनभ्रमस्य रङ्गांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रङ्गत्ववद्विशेष्यतानिरूपितत्वात्। एवं रजतांशे रङ्गत्वावगाहित्वेन रङ्गत्वप्रकारताया रजतत्ववद्विशेष्यतानिरूपितत्वात् चेति। नानामुख्यविशेष्यताशालिज्ञानं समूहालम्बनम्।
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। यथा शुक्ताविदं रजतमिति ज्ञानम्। सैव अप्रमेत्युच्यते।
अयथार्थानुभवं लक्षयति- तदभाववतीति। अत्रापि पूर्ववत् तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानत्वं विवक्षणीयम्। अन्यथा रङ्गरजतयोः इमे रङ्गरजते इत्याकारकसमूहालम्बनप्रमायामतिव्याप्तिः। एतत्समूहालम्बनस्य रङ्गरजतोभयविशेष्यकत्वेन रजतत्वरङ्गत्वोभय- प्रकारत्वेन च रजतत्वाभाववद्रङ्गविशेष्यकत्वरजतत्वप्रकारकत्वयोः, रङ्गत्वाभाववद्रजतविशेष्यकत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वात्। उक्तनिष्कर्षे तु तादृशप्रमाया रजतांशे रजतत्वावगाहित्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभावात्। एवं रङ्गत्वप्रकारताया रङ्गत्वाभाववद्रजतविशेष्यतानिरूपितत्वाभावान्नातिव्याप्तिः। उदाहरणं यथा शुक्तौ इदं रजतम् इति।
यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात्।
यथार्थानुभवं विभजते- चतुर्विध इति। तत्करणमिति। फलीभूतप्रत्यक्षादिकरणं चतुर्विधमित्यर्थः।प्रत्यक्षादिचतुर्विधप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम्। एकैकप्रमाणलक्षणं तु वक्ष्यते प्रत्यक्षानेत्यादिना।
(व्यापारवद्) असाधारणं कारणं करणम्।
करणलक्षणमाह- असाधारणमिति। व्यापारवदसाधारणं कारणं करणमित्यर्थः। असाधारणत्वं च कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता- निरूपितकारणताशालित्वम्। यथा दण्डादेर्घटादिकं प्रत्यसाधारणकारणत्वम्। कार्यत्वातिरिक्तो घटत्वादिरूपो धर्मःतदवच्छिन्नकार्यता घटे, तन्निरूपिता कारणता दण्डे। अतो घटं प्रति दण्डः असाधारणं कारणम्। भ्रम्यादिरूपव्यापारवत्त्वाच्च करणम्। साधारणकारणत्वं च कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। ईश्वरादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात् साधारणकारणत्वम्।
कार्यनियतपूर्ववृत्ति कारणम्।
कारणं लक्षयति- कार्यनियतेति। कार्यंप्रति नियतत्वे सति पूर्ववृत्तित्वं कारणत्वम्। नियतत्वविशेषणानुपादाने पूर्ववर्तिनो रासभादेरपि घटादिकारणत्वं स्यादतो नियतत्वे सतीति विशेषणम्। नियतपूर्ववर्तिनो दण्डरूपादेरपि घटकारणत्वं स्यादतः अनन्यथासिद्धपदमपि कारणलक्षणे निवेशनीयम्एवं च न तत्राऽतिव्याप्तिः, दण्डरूपादीनामन्यथासिद्धत्वात्।
कार्यं प्रागभावप्रतियोगि।
कार्यं लक्षयतिकार्यमिति। प्रागभावप्रतियोगित्वं कार्यस्य लक्षणम्। कार्योत्पत्तेः पूर्वम् इह घटो भविष्यति इति प्रतीतिर्जायते। एतत्प्रतीतिविषयीभूतो योऽभावः स प्रागभावः, प्रतियोगि घटादिरूपं कार्यम्।
कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात्।
कारणं विभजतेकारणमिति। समवायिकारणमसमवायिकारणं निमित्तकारणं चेति।
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः।
समवायिकारणं लक्षयति- यत्समवेतमिति। यस्मिन्समवेतं सत् समवायेन सम्बद्धं सत्कार्यमुत्पद्यतेतत् समवायिकारणम् इत्यर्थः। उदाहरणं यथा- तन्तव इति। येषु तन्तुषु समवायेन सम्बद्धं सत् पटात्मकं कार्यमुत्पद्यतेते तन्तवः समवायिकारणमित्यर्थः। सामान्य लक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्न कारणत्वं समवायिकारणत्वमिति। समवायसम्बन्धेन घटाधिकरणे कपालादौ, कपालादेः तादात्म्यसम्बन्धेनैव सत्त्वात् समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः।
समवायेन जन्यभावत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यस्यैव कारणत्वाज्जन्यभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम्। द्रव्ये तु द्रव्यावयवाः समवायिकारणम्। अतो गुणादावपि द्रव्यमेव समवायिकारणमित्याशयेनाह पटश्च स्वगतरूपादेः इति। समवायिकारणम् इत्यनुषज्यते।
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य च।
असमवायिकारणं लक्षयति- कार्येणेति। असमवायिकारणं द्विविधं- कार्येण सहैकस्मिन्नर्थे समवेतं सद्यत्कारणं तदसमवायिकारणम् इत्येकम्कारणेन सहैकस्मिन्नर्थे समवेतं सद्यत्कारणं तदपरमसमवायिकारणमित्यर्थः। अत्र कारणेनेत्यस्य स्वकार्यसमवायिकारणेनेत्यर्थः। जन्यद्रव्यमात्रं प्रत्यवयवसंयोगस्यैवासमवायिकारणत्वात्पटात्मककार्ये तदवयवतन्तुसंयोगस्यैवासमवायिकारणत्वमिति दर्शयन्प्रथममुदाहरति- यथा तन्तुसंयोगः पटस्येति। यथा पटात्मककार्येण सहैकस्मिन्नर्थे तन्तौ समवेतं सत्समवायसम्बन्धेन वर्तमानं सत्पटात्मककार्यम्प्रति तन्तुसंयोगात्मकं कारणमसमवायिकारणं भवतीत्यर्थः।
द्वितीयासमवायिकारणं कारणेन सहेत्यादिना पूर्वोक्तंतदुदाहरतितन्तुरूपमिति। कारणेन सह पटरूपसमवायिकारणीभूतपटेन सहएकस्मिन्नर्थे तन्तुरूपे अर्थे समवेतं सत् समवायसम्बन्धेनवर्तमानं सत्तन्तुरूपं पटगतरूपं प्रति कारणं भवति। अतः असमवायिकारणं तन्तुरूपं पटगतरूपस्य।
सामान्यलक्षणन्तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता या समवायस्वसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति। द्रव्याऽसमवायिकारणीभूताऽवयवसंयोगादौ तु समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिता समवायसम्बन्धावच्छिन्ना कपालद्वयसंयोगनिष्ठा कारणता कपालद्वयसंयोगे वर्तते। एवमाद्यपतनक्रियायामाद्यस्यन्दनक्रियायां च गुरुत्वद्रवत्वे असमवायिकारणे भवतः। आद्यपतनक्रियां प्रति आद्यस्यन्दनक्रियां प्रति च समवायसम्बन्धेनैव तयोः कारणत्वात्। अवयविगुणादौ त्ववयवगुणादेः स्वसमवायिसमवेतत्वसम्बन्धेनैव कारणत्वात्तत्सम्बन्धावच्छिन्नकारणाताश्रयत्वम् अवयवगुणादौ वर्तते। अवयवगुणीभूतकपालतन्तुरूपादेः स्वशब्दग्राह्यकपालरूपतन्तुरूपादिसमवायिकपालतन्तुसमवेतत्वसम्बन्धेन घटपटादौ सत्वात्।
तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य।
निमित्तकारणं लक्षयति- तदुभयभिन्नमिति। समवायिकारणभिन्नत्वे सतिअसमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणमित्यर्थः।
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्।
तदेतदिति। यदसाधारणमिति। व्यापारवत्वे सति इत्यपि पूरणीयम्। अन्यथा तन्तुकपालसंयोगयोरतिव्याप्तिः, तन्तुकपालसयोगयोरपि कार्यत्वातिरिक्तपटत्वघटत्वावच्छिन्नम्प्रति कारणत्वादसाधारणत्वमस्त्येवेत्यतस्तत्र कारणत्ववारणाय व्यापारवत्वे सति इति कारणलक्षणे विशेषणं देयम्। व्यापारत्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम्। भवति हि दण्डजन्यत्वे सति दण्डजन्यघटजनकत्वात् भ्रम्यादेर्दण्डव्यापारत्वम्। एवं कपालसंयोगतन्तुसंयोगादेरपि कपालतन्तुव्यापारत्वं कपालतन्तुजन्यत्वे सति कपालतन्तुजन्यघटपटजनकत्वात्। करणलक्षणेऽसाधारणत्वविशेषणा नुपादाने ईश्वरादृष्टादेरपि व्यापारवत्कारणत्वं स्यात्अतस्तत्र अतिव्याप्तिवारणाय असाधारणेति विशेषणम्।

अथ प्रत्यक्षप्रकरणम्।

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्।
षड्विधेन्द्रियभूतप्रत्यक्षप्रमाणस्य लक्षणमाह- तत्रेति। तत्र प्रमाभूतेषु प्रत्यक्षादिषु प्रत्याक्षात्मकं यज्ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति व्यापारवदसाधारणं कारणमिन्द्रियं भवति। अतः प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम्। आद्यसन्निकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवायरूपत्वेनेन्द्रियजन्यत्वाभावाद् व्यापारत्वं न सम्भवतीति इन्द्रियमनःसंयोगस्यैव बाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारता बोध्या। मानसप्रत्यक्षे त्वात्ममनःसंयोगस्यैव सा बोध्या।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्।
प्रत्यक्षप्रमाणलक्षणमुक्त्वा प्रत्यक्षप्रमालक्षणमाह- इन्द्रियार्थसन्निकर्षेति। जन्यप्रत्यक्षस्यैव लक्ष्यत्वमित्यभिप्रायेणेदं लक्षणम्। ज्ञानाऽकरणम् इति। क्षेपकं लक्षणमिदम्। ज्ञानं व्याप्तिज्ञानं, सादृश्यज्ञानं, पदज्ञानञच करणं येषां ते ज्ञानकरणकाः, अनुमित्युपमितिशाब्दाः। ज्ञानकरणकं न भवतीति ज्ञानाकरणकम्। तत्त्वं प्रत्यक्षणमित्यर्थः। इदं लक्षणमीश्वरप्रत्यक्षसाधारणम्। ईश्वरप्रत्यक्षस्याजन्यत्वात् जन्यप्रत्यक्षे च इन्द्रियाणामेव करणत्वंन तु ज्ञानस्येति तयोरुभयोः संग्रहः।
तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति। तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम्। यथेदं किञ्चित्। सप्रकारकं ज्ञानं सविकल्पकम्। यथा डित्थोऽयं, ब्राह्मणोऽयं, पाचकोऽयमिति।
प्रत्यक्षं विभजतेनिर्विकल्पकमिति।
तल्लक्षयतितत्र निष्प्रकारकमिति। प्रकारताशून्यज्ञानत्वमेव निर्विकल्पकत्वमित्यर्थः। निर्विकल्पके चतुर्थी विषयता स्वीक्रियतेन तु त्रिविधविषयतामध्ये कापि तत्रास्ति। अतो विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वमित्यपि लक्षणं सम्भवति।
सविकल्पकं लक्षयति- सप्रकारकमिति। विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपकत्वेन प्रकारतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणम्। एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गतानिरूपकज्ञानत्वमित्यपि लक्षणं सम्भवति। उदाहरणं- यथेति। इदन्त्वावच्छिन्न- विशेष्यतानिरूपितडित्थत्वप्रकारताशालिज्ञानं ब्राह्मणत्वप्रकारताशालिज्ञानं च (श्यामत्वप्रकारताशालिज्ञानं च)सविकल्पकमित्यर्थः।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः। संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति।
चाक्षुषादिषड्विधप्रत्यक्षकारणीभूतान् षड्विधसन्निकर्षान्विभजतेसंयोग इत्यादिना। द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुत्वावच्छिन्नं प्रति चक्षुसंयोगः कारणम्। द्रव्यसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्प्रति चक्षुःसंयुक्तसमवायस्य हेतुत्वम्। द्रव्यसमवेतसमवेत- वृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य हेतुत्वम्। द्रव्यग्राहकाणीन्द्रियाणि चक्षुत्वङ्मनांसि त्रीण्येव। अन्यानि घ्राणरसनश्रावणानि गुणग्राहकाणि। अतस्त्वगिन्द्रियस्थले द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयोगस्य हेतुता। एवं द्रव्यसमवेतत्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयुक्तसमवायस्य हेतुता। द्रव्यसमवेतसमवेतोष्णत्वशीतत्वादिस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायस्य हेतुता। एवमात्ममानसप्रत्यक्षे मनःसंयोगस्य हेतुता। आत्मसमवेतसुखादिमानसप्रत्यक्षे मनःसंयुक्तसमवेतसमवायस्य हेतुता। रसनघ्राणयोस्तु रसगन्धतद्गतजातिग्राहकत्वेन द्वितीयतृतीययोः सन्निकर्षयोरेव तत्र हेतुता वाच्या। श्रवणेन्द्रियस्याकाशरूपत्वेन शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः सन्निकर्षः। शब्दवृत्तिशब्दत्वकत्वखत्वादिजातिविषयकश्रावणप्रत्यक्षे समवेतसमवायस्य हेतुता।
चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः। घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः। चक्षुःसंयुक्ते घटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः संनिकर्षः। चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः। कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् शब्दस्य आकाशगुणत्वाद् गुणगुणिनोश्च समवायात्। शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः संनिकर्षः। घटाभाववद्भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्।
अभावप्रत्यक्षे विशेषणविशेष्यभावो नाम विशेषणतासन्निकर्षः। पञ्चविधसन्निकर्षोपरि विशेषणता योजनीया। तथाहि द्रव्याधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता। द्रव्यसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता। द्रव्यसमवेतसमवेता- धिकरणाकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता। संयोगस्थाने संयुक्तपदं घटयित्वा समवायस्थाने समवेतपदं च घटयित्वा अभावप्रत्यक्षस्थले निर्वाह्यम्। तथा घटद्रव्यसमवेतं घटत्वं पृथिवीत्वादिकं रूपादिकं च। तत्र नीलादौ पीतत्वाभावः, घटत्वादिजातौ पटत्वाभावश्च वर्तते। स चाभावः संयुक्तसमवेतविशेषणतासन्निकर्षेण गृह्यते। एवं नीलत्वादिजातौ पीतत्वाभावः अपीन्द्रियसंयुक्तसमवेतसमवेतविशेषणतासन्निकर्षेण गृह्यते। घटसमवेतं नीलंतत्समवेतं नीलत्वंतद्विशेषणता पीतत्वाभावे वर्तते इति संक्षेपः।
एवं संनिकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्।

अथ अनुमानप्रकरणम्।

अनुमितिकरणमनुमानम्।
अनुमानं लक्षयति- अनुमितीति। अनुमितौ व्याप्तिज्ञानं करणम्, परामर्शो व्यापारः, अनुमितिः फलं, कार्यमित्यर्थः। परामर्शस्य व्याप्तिज्ञानजन्यत्वात् व्याप्तिज्ञानजन्यानुमितिजनकत्वात्तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम्। अनुमितिकरणत्वम् अनुमानस्य लक्षणम्। अनुमानं व्याप्तिज्ञानम्। एतस्य परामर्शरूपव्यापारद्वारा अनुमितिं प्रत्यसाधारणकारणतयानुमितिकरणत्वमुपपन्नम्।
परामर्शजन्यं ज्ञानमनुमितिः।
परामर्शजन्यमिति। परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्षणम्। अत्र ज्ञानत्वमात्रोपादाने प्रत्यक्षादावतिव्याप्तिः, अतस्तद् वारणाय परामर्शजन्यत्वे सतीति विशेषणोपादानम्। परामर्शजन्यत्वमात्रोक्तौ परामर्शध्वंसेतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादानम्।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानं परामर्शः। तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः।
अनुमितिलक्षणघटकीभूतपरामर्शलक्षणमाचष्टे- व्याप्तिविशिष्टेति। व्याप्तिविशिष्टञ्च तत्पक्षधर्मताज्ञानञ्चेति कर्मधारये विशिष्टपदस्य प्रकारतानिरूपकत्वात् पक्षधर्मताज्ञानमित्यत्र षष्ठ्या विषयत्वबोधनात्, धर्मतापदस्य सम्बन्धार्थकत्वाच्च कर्मधारयसमासे समस्यमान- पदार्थयोरभेदसंसर्गलाभेन च व्याप्तिप्रकारकाभिन्नं यत्पक्षसम्बन्धविशेष्यकं ज्ञानं तत्परामर्श इति लभ्यते। एवं सति धूमो वह्निव्याप्यः, आलोकवान्पर्वतः इत्याकारकसमूहालम्बने परामर्शलक्षणमस्तीत्यतिव्याप्तिस्तद्वारणाय पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्टा प्रकारता तन्निरूपिता या व्याप्तिनिष्ठा प्रकारता तच्छालि ज्ञानं परामर्शः इति निष्कर्षः। एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम्।
अनुमितिपरामर्शयोर्विशिष्यकार्यकारणभावश्चेत्थं- पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितसंयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नविधेयताकानु- मितित्वाच्छिन्नं प्रति वह्नित्वावच्छिन्नप्रकारतानिरूपिताव्याप्तित्ववच्छिन्नप्रकारतानिरूपिता या धूमत्वावच्छिन्नप्रकारता तन्निरूपिता या पर्वतत्वावच्छिन्ना विशेष्यता तच्छालिनिर्णयः कारणम्। (वह्नित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नविशेष्यताया धूमत्वावच्छिन्नविशेष्यता- निरूपितव्याप्तित्वावच्छिन्नप्रकारतायाश्चाभेदाऽनङ्गीकर्तृमते तु वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नव्याप्तित्वावच्छिन्नप्रकारता- निरूपितविशेष्यत्वावच्छिन्नधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिर्णयः कारणं वक्तव्यम्।) स च निर्णयः वह्निव्याप्यधूमवान्पर्वत इत्याकारको बोध्यः।
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः।
यत्र यत्रेति। यत्र पदवीप्सावशाद्धूमाधिकरणे यावति वह्निमत्त्वलाभाद् यावत्पदमहिम्ना वह्नेर्धूमव्यापकत्वं लब्धम्। तदेव स्पष्टयति- साहचर्यनियम इति। एतदर्थस्तु नियतसाहचर्यं व्याप्तिरिति। नियतत्वं व्यापकत्वम्। साहचर्यं नाम सामानाधिकरण्यम्। तथा च धूमनियतवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः। अत्र वह्नेर्धूमव्यापकत्वं नाम धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वम्। तथाहि धूमाधिकरणे पर्वतचत्वरमहानसादौ वर्तमानो यो अभावः, घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावः न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावः, कुतः?पर्वतादौ वह्नेः सत्त्वात्। एवं सति धूमाधिकरणे पर्वतचत्वरादौ वर्तमानस्य घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं, तद्वत्वं वह्नौ वर्तते अतो धूमव्यापकत्वं वह्नौ वर्तते। तथा च धूमव्यापकवह्निसामानाधिकरणं व्याप्तिरिति फलितम्। इयमन्वयव्याप्तिः सिद्धान्तानुसारेण। पूर्वपक्षव्याप्तिस्तु साध्याभाववदवृत्तित्वम्, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसम्बन्धा- वच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यावच्छिन्नाभाववन्निरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावो व्याप्तिरिति निष्कर्षः। तच्च केवलान्वयिन्यव्याप्तिमिति सिद्धान्तानुसरणम्।
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता।
अनुमानं द्विविधं स्वार्थं परार्थञ्च।
अनुमानं विभजते- स्वार्थमिति। स्वार्थानुमानं नाम न्यायाप्रयोज्यानुमानम्।
तत्र स्वार्थं स्वानुमितिहेतुः। तथाहि स्वयमेव भूयो दर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निरिति। तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति ज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्श इत्युच्यते। तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते। तदेतत् स्वार्थानुमानम्।
यत्तु स्वयं धुमादग्निमनुमाय परं प्रति बोधयितुं पञ्चावयववाक्यं प्रयुङ्क्ते तत्परार्थानुमानम्। यथा पर्वतो वह्निमान् धूमवत्वाद्, यो यो धूमवान् स वह्निमान्, यथा महानसः, तथा चायं, तस्मात्तथेति। अनेन प्रतिपादिताल्लिङ्गात् परोऽग्निं प्रतिपद्यते।
न्यायप्रयोज्यानुमानं परार्थानुमानम्। न्यायत्वं च प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम्। अवयवत्वञ्च प्रतिज्ञाद्यन्यतमत्वम्।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः। पर्वतो वह्निमानिति प्रतिज्ञा। धूमवत्वादिति हेतुः। यो यो धूमवान्स स वह्निमान्यथा महानस इत्युदाहरणम्। तथा चायमिति उपनयः। तस्मात्तथेति निगमनम्।
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम्। तस्माल्लिङ्गपरामर्शोऽनुमानम्।
लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति।
अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूवत्त्वम्। यत्र धूमस्तत्राग्निर्यथा महानसमित्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महाहृद इति व्यप्तिरेकव्याप्तिः।
अन्वयेनेति। व्यापकसामानाधिकरण्यरूपव्याप्तिमदित्यर्थः। व्यतिरेकेणेति। व्यतिरेको नाम अभावः। तथा च साध्याभावहेत्वाभावयोः व्याप्तिर्व्यतिरेकव्याप्तिः। इयं च व्याप्तिः यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति। यत्रपदवीप्सया वह्न्यभाववति यावति धूमाभावग्रहणे यावत्पदस्य व्यापकत्वपरतया धूमाभावे वह्न्यभावव्यापकत्वं लभते। एवञ्च वह्न्यभावनिष्ठव्याप्तेः स्वाश्रयीभूतवह्न्यभावव्यापकीभूताभावप्रतियोगित्व सम्बन्धेन धूमनिष्ठतया व्यतिरेकव्याप्तिमत्त्वेन धूमवत्त्वं व्यतिरेकित्वेन, धूमव्यापकवह्निसमानाधिकरण्यरूपान्वयव्याप्तिमत्त्वेनान्वयित्वेन च गीयते। व्यतिरेकपरामर्शस्तु वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवान्पर्वत इत्याकारकः।
अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात्पटवदिति। अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेक- व्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च।
केवलान्वयिनो लक्षणमाह- अन्वयेति। व्यतिरेकव्याप्तिशून्यत्वे सत्यन्वयव्याप्तिमत्त्वं केवलान्वयित्वम्। अथवा केवलान्वयिसाधकत्वं हेतोः केवलान्वयित्वम्, साध्य़े केवलान्वयित्वं चात्यन्ताभावाप्रतियोगित्वम्। तथा च अभावाप्रतियोगिसाध्यकत्वं केवलान्वयिहेतोर्लक्षणम्। एतच्च लक्षणं हेतोर्व्यातिरेकित्वेऽपि संगच्छते। साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावादन्वयमात्रव्याप्तिकं केवलान्वयीति मूलकारोक्तं लक्षणमुपपन्नम्। न चात्यन्तभावाप्रतियोगित्वरूपकेवलान्वयित्वमाकाशाभावे संयोगाभावे चाव्याप्तमिति वाच्यम्, स्वविरोधवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव तदर्थत्वात्। तथा चानयोरेकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्याः।
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवद् यथा जलम्। न चेयं तथा। तस्मान्न तथेति। अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात्।
केवलव्यतिरेकिणो लक्षणमाह- व्यतिरेकेति। अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वम्, यथा पृथिवीति। अत्र पृथिवीत्वावच्छिन्नं पक्षः, पृथिवीतरजलाद्यष्टभेदः साध्यः, गन्धवत्त्वं हेतुः। अत्र यद्गन्धवत्तदितरभेदवदित्यन्वयदृष्टान्ताभावाद् गन्धव्यापकेतरभेद- सामानाधिकरण्यरूपान्वयव्याप्तिग्रहासम्भवः। किन्तु यत्र यत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धाभावो यथा जलादिकमिति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभावव्यापकता गन्धाभावे गृह्यते। इममेवार्थं मनसि निधाय यदितरेभ्यो न भिद्यते न तद् गन्धवत् यथा जलमिति ग्रन्थेन मूलकारो व्याप्तिमेव प्रदर्शितवान्। एवंप्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरमितरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवी इत्याकारकव्यतिरेकिपरामर्शात् पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नविधेयताका पृथिवी इतरभेदवतीत्याकारिकानुमितिर्जायते इति तत्त्वम्।
यथाश्रुतमूलार्थस्तु यथा जलमिति। यज्जलमितरेभ्यो न भिद्यते, इतरभेदाभाववत्, न तद्गन्धवत्, जलमितरभेदाभावव्यापकगन्धा- भाववदित्येवंप्रकारेण गन्धाभावनिरूपिता व्याप्यतेतरभेदाभावे गृह्यत इत्यर्थः। न चेयं तथा। इयं=पृथिवी, तथा=इतरभेदाभावव्यापकगन्धाभाववती न, किन्तु तदभावात्मकगन्धवतीति। तस्मान्न तथेति। तस्मात्=गन्धाभावाभाववत्त्वात्। तच्छब्देन गन्धाभावाभावरूपस्य गन्धस्य परामर्शेन तस्मादिति पञ्चम्यन्ताद् गन्धाभावाभाववत्त्वादित्यर्थोपलब्धिः। न तथा=इतरभेरदाभाववती न, किन्तु इतरभेदाभावाभाववती=इतरभेदवतीत्यर्थः पर्यवसन्नः।
सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान् सपक्षः। यथा तत्रैव महानसम्। निश्चितसाध्याऽभाववान् विपक्षः। यथा तत्रैव महाह्रदः।
पक्षलक्षणमाह- सन्दिग्धेति। साध्यप्रकारकसन्देहविशेष्यत्वं पक्षत्वम्। सन्देहश्च पर्वतो वह्निमान्न वा इत्याकारः। इदञ्च लक्षणमनुमितेः पूर्वं साध्यसन्देहो नियमेन जायते, इत्यभिप्रायेण प्राचीनैः कृतम्। गगनविशेष्यकमेघप्रकारकसन्देहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन 'गगनं मेघवदि'त्याकारिकाया गगनवत्वावच्छिन्नोद्देश्यतानिरूपितमेघत्वावच्छिन्नविधेयताकाया अनुमितेर्दर्शनात्प्राचीनलक्षणं विहाय नवीनैः अनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम्।
सपक्षलक्षणमाह- निश्चितेति। साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वं, निश्चयश्च महानसं वह्निमदित्याकारकः।
विपक्षलक्षणामाह- निश्चितसाध्याभावेति। साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षत्वम्। निश्चयश्च ह्रदो वह्न्यभाववानित्याकारकः।
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः।
एवं सद्धेतून्निरूप्य हेत्वाभासान्निरूपयति- सव्यभिचारेति। हेतुवदाभासन्ते इति हेत्वाभासाः, दुष्टहेतव इत्यर्थः। दोषाश्च व्यभिचारविरोधसत्प्रतिपक्षाऽसिद्धबाधाः। एकज्ञानविषयप्रकृतहेतुतावच्छेदकसम्बन्धेन एतद्विशिष्टा हेतवो दुष्टहेतव इत्यर्थः। यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यस्य लक्षणम्। हेतौ दोषज्ञाने सत्यनुमितिप्रतिबन्धो जायते, व्याप्तिज्ञानप्रतिबन्धो वा। अतो वादिनिग्रहाय वादिनोद्भाविते हेतौ दोषोद्भावनार्थं दुष्टहेतुनिरूपणमित्यर्थः।
सव्यभिचारोऽनैकान्तिकः। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात्।
सव्यभिचारं विभज्य दर्शयति- साधारणेति। साधारणाद्यन्यतमत्वं सव्यभिचारसामान्यलक्षणम्।
साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः। यथा पर्वतो वह्निमान् प्रमेयत्वादिति। प्रमेयत्वस्य वह्न्यभाववति (साध्याभाववति) ह्रदे विद्यमानत्वात्।
साधारणत्वं च साध्याभाववद्वृत्तित्वम्। पर्वतो वह्निमान्, प्रमेयत्वादित्यत्र प्रमेयत्वहेतौ वह्न्यभाववद्वृत्तित्वरूपव्यभिचारे ज्ञाते वह्न्यभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः। यथा शब्दो नित्यः शब्दत्वादिति। शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति।
असाधारण इति। सर्वसपक्षव्यावृत्तत्वं=निश्चतसाध्यवदवृत्तित्वम्। साध्यवदवृत्तित्वं च साध्यासामानाधिकरण्यम्। हेतौ साध्यासामानाधिकरण्ये निश्चिते साध्यसामानाधिकरण्यरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वादिति। अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति।
अनुपसंहारिणं लक्षयति- अन्वयेति। उभयत्र दृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानोभयसामग्री नास्तीत्यर्थः। सर्वस्यैव पक्षत्वात्पक्षातिरिक्ताप्रसिद्धेरिति भावः। किञ्चिद्विशेष्यकनिश्चयाऽविषयसाध्यकत्वे सति किञ्चिद्विशेष्यकनिश्चयाऽविषयसाध्याभावकत्वमेव अनुपसंहारित्वम्। एतदीयज्ञानस्य व्याप्तिसंशयजननद्वारा व्याप्तिज्ञानप्रतिबन्धः फलम्। वस्तुतस्तु अत्यन्ताभावाऽप्रतियोगिसाध्यादिकमेव अनुपसंहारित्वमिति बोध्यम्।
साध्याभावव्याप्तो हेतुर्विरुद्धः। यथा शब्दो नित्यः कृतकत्वाद् घटवदिति। अत्र कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम्।
विरुद्धं लक्षयति- साध्याभावव्याप्त इति। साध्याभावव्याप्तिः=साध्याभावनिरूपितव्यतिरेकव्याप्तिः=साध्यव्यापकीभूताभावप्रतियोगि- त्वम्। तथा च पक्षविशेष्यकसाध्याभावव्याप्यहेतुप्रकारकज्ञानात् पक्षविशेष्यकसाध्यप्रकारकानुमितिप्रतिबन्धः फलम्। एवं सत्प्रतिपक्षेऽपि। विरुद्धसत्प्रतिपक्षयोर्विशेषस्तु विरुद्धहेतोरेकत्वेन सत्प्रतिपक्षहेतोर्द्वित्वेन च ज्ञातव्यः।
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववदिति, शब्दोऽनित्यः कार्यत्वाद्घटवदिति।
सत्प्रतिपक्षे द्वौ हेतू, विरुद्धे एको हेतुरिति भावः। साध्याभावप्रतिहेतुमत्पक्षः सत्प्रतिपक्ष इति यावत्। साध्याभावसाधकहेतुः साध्यसाधकत्वेनोपन्यस्त इत्यसामर्थ्यसूचनमपि।
असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्। अत्र गगनारविन्दमाश्रयः, स च नास्त्येव।
आश्रयासिद्ध इति। आश्रयासिद्धिर्नाम पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिः। यथेति। अत्रारविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्व- विशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धः फलम्।
स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्।
स्वरूपासिद्ध इति। स्वरूपसिद्धिर्नाम पक्षे हेत्वभावः। तथा च हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शानुपपत्त्या परामर्शप्रतिबन्धः फलम्।
सोपाधिको हेतुः व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः। साध्यसमानाधिकरणा- त्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। यथा पर्वतो धूमवान् वह्निमत्वाद् इत्यत्र आर्द्रेन्धनसंयोग उपाधिः। तथाहि यत्र धूमः तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम्। एवं साध्यव्यापकत्वे अस्ति साधनाव्यापकत्वाद् आर्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वासिद्धम्।
व्याप्यत्वसिद्ध इति। प्रकृते धूमव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद् धूमे आर्द्रेन्धनसंयोगव्याप्यत्वं गृहीतम्, एवं वह्नेरव्यापकत्वम् आर्द्रेन्धनसंयोगे गृहीतं चेद्वह्नौ तदव्याप्यत्वं गृहीतं, तदेव व्यभिचरितत्वम्। तथा चोपाधिव्यभिचिरतत्वं साधने गृहीतं चेदुपाधिभूतार्द्रेन्धनसंयोग- व्याप्यभूमव्यभिचारित्वं गृहीतमेव।
अनुमानप्रकारश्च पूर्वानुमानस्थहेतुं पक्षीकृत्य वह्निर्धूमव्यभिचारी, धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वात् घटत्वादिवत्। यो यत्साध्यव्यापकव्यभिचारी स सर्वोऽपि साध्यव्यभिचारीति रीत्या बोध्यः। एवं प्रकारेण प्रकृतानुमानहेतुभूते पक्षे साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम्। तथा च भूमाभाववद्वृत्तित्वरूपभूमव्यभिचारे गृहीते, वह्नौ भूमाभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।
न च व्याप्यत्वासिद्धेः व्यभिचारभेद इति वाच्यम्, भूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धत्वं, धूमाभाववद्वृत्तित्वेन व्यभिचारित्वम् इति भेदात्।
यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चितः स बाधितः। यथा वह्निरनुष्णो द्रव्यत्वादिति। अत्र अनुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गुह्यते इति बाधितत्वम्।
यस्येति। यस्य=हेतोः, साध्यस्याभावः साध्याभावः=साध्यबाधः (स च ) प्रमाणान्तरेण=प्रत्यक्षादिप्रमाणेन, पक्षे निश्चितः स बाधित इत्यर्थः। तथा च प्रात्यक्षिकसाध्यबाधितनिश्चये जाते साध्यानुमितिप्रतिबन्धः फलम्। बाधितसाध्यकत्वाद् बाधितहेतुः इत्युच्यते।


अथ उपमानप्रकरणम्।

उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम्। अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः। तथाहि कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो गवय इति वाक्यं श्रुत्वा वनं गतो गोसदृशं पिण्डं पश्यन् वाक्यार्थं स्मरति, तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिः उत्पद्यते।
उपमानं लक्षयति- उपमितिकरणमिति। उममितिं लक्षय़ति- संज्ञासंज्ञीति। संज्ञा नाम पदम्। संज्ञी=अर्थः। तयोः सम्बन्धः शक्तिः। तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः। उपमानं नाम अतिदेशवाक्यार्थज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। उपमितिः फलम्। 'गोसदृशो गवयपदवाच्य' इत्याकारकवाक्याद् गोसदृशावच्छिन्नविशेष्यकं गवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम्।

अथ शब्दप्रकरणम्।

आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं पदसमूहः। यथा गामानयेति। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः।
शब्दं लक्षयति- आप्तेति। आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तौ अनाप्तोच्चरितवाक्येतिव्याप्तिरत आप्तोच्चरितत्वनिवेशः। तावन्मात्रोक्तौ जबगडदशादावतिव्याप्तिरतो वाक्यत्वम्। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसन्नः अर्थः। वस्तुतस्तु पदज्ञानं करणम् । वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसंकेतः। ईश्वरसंकेतो नाम ईश्वरेच्छा, सैव शक्तिरित्यर्थः।
शक्तिनिरूपकत्वमेव पदे शक्तत्वम्। विषयतासम्बन्धेन शक्याश्रयत्वं शक्यत्वम्। शक्यसम्बन्धो लक्षणा, सा द्विविधा-गौणी शुद्धा चेति। गौणी नाम सादृशविशिष्टे लक्षणा, यथा 'सिंहो मानवक' इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा। शुद्धा त्रिविधा- जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा गङ्गायां घोषः इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धस्य तीरे सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाज्ञानाद् गङ्गापदात्तीरोपस्थितिः। लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातके लक्षणा। लक्ष्यतावच्छेदकं दध्युपघातकत्वम्। तेन रूपेण दध्युपघातकानां सर्वेषां काकबिडालकुक्कुटसारमेयादीनां शक्यलक्ष्याणां बोधात्। जहदजहल्लक्षणा वेदान्तिनां मते। सा च शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधप्रयोजिका। यथा तत्त्वमसीत्यत्र सर्वज्ञत्वकिञ्चिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात्।
आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा। अर्थाबाधो योग्यता। पदानामविलम्बेनोच्चारारणं संनिधिः। आकाङ्क्षादिरहितं वाक्यमप्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात्। अग्निना सिञ्चतीति न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरे असहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात्।
आकांक्षां लक्षयति- आकांक्षेति। अव्यवहितोत्तरत्वादिसम्बन्धेन यत्पदे यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधा- भावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्त्वमाकांक्षा। यथा घटमित्यादिस्थले अव्यवहितोत्तरत्वादिसम्बन्धेन अम् पदं घटपदवदित्याकार- काम्पदविशेष्यकघटपदप्रकारकज्ञानसत्त्वे घटीयं कर्मत्वमिति बोधो जायते। अम् घट इति विपरीतोच्चारणे तु तादृशज्ञानाभावात् तादृशशाब्दबोधो न जायते। अतस्तादृशाकांक्षाज्ञानं (तादृश) शाब्दबोधे कारणम्। अर्थाबाध इति। बाधाभावो योग्यतेत्यर्थः। अग्निना सिञ्चतीत्यत्र सेककरणत्वस्य जलादिधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः। सन्निधिं निरुपयति- पदानामिति। असहोच्चारितानि=विलम्बेनोच्चारितानि।
वाक्यं द्विविधम्। वैदिकं लौकिकं च। वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्। अन्यदप्रमाणम्। वाक्यार्थज्ञानं शब्दज्ञानम्। तत्करणं शब्दः।
वैदिकमिति। वेदवाक्यमित्यर्थः। इदमुपलक्षणम्। वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि। लौकिकं त्विति। वेदवाक्यभिन्नमित्यर्थः। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्।

इति शब्दपरिच्छेदः।


अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात्। एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्तौ इदं रजतमिति। व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति।
यथार्थानुभवं निरूप्यायथार्थानुभवं विभजते- संशयेत्यादिना। एकेति। एकधर्मावच्छिन्नविशेष्यतानिरूपितभावाभावप्रकारक- ज्ञानं संशय इत्यर्थः। भावद्वयकोटिकसंशयाप्रसिद्धेः स्थाणुर्वा (पुरुषो वा)इत्यत्र स्थाणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावकोटिक एव संशय इत्यर्थः।
मिथ्याज्ञानमिति। अयथार्थज्ञानमित्यर्थः। विपर्ययो नाम भ्रमः। व्याप्यारोपेणेति। तर्के व्याप्यस्य व्याप्यकस्य च बाधनिश्चयः कारणम्। अन्यथा बाधनिश्चयाभावे इष्टापत्तिदोषेण तर्कानुत्पत्तेः।
स्मृतिरपि द्विविधा। यथार्थायथार्था च। प्रमाजन्या यथार्था। अप्रमाजन्याऽयथार्था।

अथ अवशिष्टगुणप्रकरणम्।

सर्वेषामनुकूलतया वेदनीयं सुखम्।
सुखं निरूपयति- सर्वेषामिति। इतरेच्छानधीनेच्छाविषयत्वमिति निष्कर्षः। यथाश्रुते घटोऽनुकूल इत्याकारकज्ञानदशायम् अनुकूलत्वप्रकारकज्ञानविशेष्यत्वस्य घटादावपि सत्ताद् घटादावतिव्याप्तिरिति। सुखेच्छाधीने भोजनादावतिव्याप्तिवारणाय इतरेच्छानधीनेति इच्छाविशेषणम्। सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्रजन्यत्वात्।
प्रतिकूलतया वेदनीयं दुःखम्।
दुःखं निरूपयति- प्रतिकूलेति। अत्रापीतरद्वेषानधीनद्वेषविषयत्वमिति निष्कृष्टलक्षणम्। द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिः तत्रापि द्वेषविषयत्वसत्त्वादतस्तत्रातिवारणायेतरद्वेषानधीनेति द्वेषविशेषणम्। सर्पजन्यदुःखादौ द्वेषात्सर्पेऽपि द्वेष इति सर्पद्वेषस्य सर्पजन्यदुःखद्वेषजन्यत्वाद् अन्यद्वेषजन्यद्वेषविषयत्वरूपदुःखलक्षणस्य सर्पादौ नातिव्याप्तिः। फलेच्छा उपायेच्छां प्रति कारणम्, अतः फलेच्छावशादुपायेच्छा भवति। एवं फले द्वेषादुपाये द्वेषः।
इच्छा कामः। क्रोधो द्वेषः। कृतिः प्रयत्नः।
विहितकर्मजन्यो धर्मः। निषिद्धकर्मजन्यस्त्वधर्मः।
धर्माधर्मौ निरूपयति- विहितेति। वेदविहितेत्यर्थः। निषिद्धेति। वेदःनिषिद्ध इत्यर्थः।
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्ना द्विविधाः। नित्या अनित्याश्च। नित्या ईश्वरस्यानित्या जीवस्य।
बुद्ध्यादयोऽष्टाविति। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा इत्यर्थः।
संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति। वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुः भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनः तादवस्थ्यापादकः स्थितिस्थापकः। कटादि- पृथिवीवृत्तिः।
संस्कारं विभजते- संस्कार इति। भावनां लक्षयति- अनुभवेति। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनालक्षणम्। अत्रानुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिरात्ममनःसंयोगस्य ज्ञानमात्रं प्रत्यसमवायिकारणत्वेन स्मृतिं प्रत्यपि कारणत्वादतस्तदुपादानम्। आत्ममनःसंयोगस्यानुभवजन्यत्वाभावान्नातिव्याप्तिः। तावान्मात्रे कृतेऽनुभवध्वंसेऽतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनः कारणत्वेनानुभवध्वंसस्यापि अनुभवजन्यत्वात्, अतः स्मृतिहेतुत्वोपादानम्। अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः।
ननु विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा, यथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानं कारणम्। दण्डविशिष्टबुद्धिर्नाम दण्डप्रकारकबुद्धिः। तथा च दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन कारणत्वमित्यापतितम्। दण्डप्रकारकबुद्धिः दण्डी पुरुष इत्याकारिका बुद्धिः, तत्र दण्डज्ञानं कारणम्। न हि दण्डमजाननः पुमान् ‘दण्डी पुरुषः’ इति प्रत्येति। एवं च यत्रायं दण्ड इति प्रत्यक्षं जातं, तदन्तरं दण्डी पुरुष इत्याकारकप्रत्यक्षमुत्पन्नं, तत्र दण्डी पुरुष इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि स्वाव्यवहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभव- जन्यं जनिष्यमाणे दण्डी पुरुष इत्याकारकस्मरणे कारणं च, स्मृतिं प्रत्यनुभवस्य कारणत्वम्। तथा चानुभवजन्यत्वे सति स्मृतिहेतुत्वरूपभावना- लक्षणस्य यथोक्तदण्डीपुरुष इत्याकारकानुभवे विद्यमानत्वादतिव्याप्तिरिति चेत्, अत्र ब्रूमः- अनुभवजन्यत्वं हि अनुभवत्वावच्छिन्नकारणता- निरूपितकार्यताश्रयत्वम्। तत्र कारणतायामनुभवत्वावच्छिन्नत्वं निवेश्यते। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम् अनुभवजन्यत्वमिति फलितम्। अतो नोक्तातिव्याप्तिः। तथा हि दण्डप्रकारकबुद्धित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठा या कारणता, तस्यान्न दण्डानुभवत्वमवच्छेदकं, दण्डानुभवादिव दण्डस्मरणादपि दण्डप्रकारकबुद्धेरुत्पत्तेः। अतो दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति अनुभवस्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणीयत्वेन दण्डज्ञानत्वस्यैव तदवच्छेदकत्वात्। तथा चानुभवत्वावच्छिन्न- कारणतानिरूपितकार्यताश्रयत्वस्य उक्तप्रत्यक्षेऽभावान्नातिव्याप्तिः। भावनायां तु लक्षणमिदं वर्तते। तथाहि- अनुभवेनैव भावनाख्यसंस्कारोत्पत्त्या भावनात्वावच्छिन्नं प्रत्यनुभवत्वेनैव कारणतया भावनात्वावच्छिन्नकार्यतानिरूपितानुभवनिष्ठकारणतायामनुभवत्वमवच्छेदकम्। अतोऽनुभवत्वा- वच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं भावानायं वर्तत इति नासम्भवः।
नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यम्। तद्धि अनुभवध्वंसेऽतिव्याप्तिवारणाय प्रागुपात्तम्। न हि यथोक्तानुभवजन्यत्वविवक्षायाम् अनुभवध्वंसेऽतिव्याप्तिः प्रसज्यते। तथाहि- ध्वंसत्वावच्छिन्नं प्रति च प्रतियोगिनः कारणत्वं प्रतियोगत्वेन रूपेण, तत्तद्ध्वंसत्वावच्छिन्नं प्रति च तत्तत्प्रतियोगिव्यक्तेस्तत्तद्व्यक्तित्वेनेत्येवं ध्वंसप्रतियोगिनोः कार्यकारणभावः। तथा च ध्वंसनिष्ठकार्यतानिरूपिता याऽनुभवनिष्ठा कारणता, तस्यां प्रतियोगित्वमवच्छेदकम्। तत्तद्व्यक्तित्वञ्च, न त्वनुभवत्वमपीत्यनुभवध्वंसेऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वरूपानुभवजन्यत्वविरहेण एवातिव्याप्तिवारणसम्भवात् कृतं स्मृतिहेतुत्वविशेषणेनेति चेन्न, स्मृतावतिव्याप्तिवारणायैव तदुपादानात्। तथाहि- स्मृतिं प्रत्यनुभव एव कारणं न तु स्मृतिरपि। अतो घटस्मृतित्वावच्छिन्नं प्रति घटानुभवस्य घटानुभवत्वेनैव कारणत्वं न तु घटज्ञानत्वेन। तथा च घटस्मृतिनिष्ठकार्यतानिरूपिता या घटानुभवनिष्ठा कारणता, तस्यां घटानुभवत्वमवच्छेदकम्। तेनानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य स्मृतौ विद्यामानत्वाद् अतिव्याप्तिवारणाय स्मृतिहेतुत्वमुक्तम्। न हि स्मृतिर्हेतुः, अतो न तत्रातिव्याप्तिरित्यलं पल्लवतल्लजकल्पेष्वनल्पजल्पनेन।

अथ अवशिष्टपदार्थप्रकरणम्।

चलनात्मकं कर्म। ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम्। अधोदेशसंयोगहेतुः अपक्षेपणम्। शरीरसंनिकृष्टसंयोगहेतुः आकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्। पृथिव्यादिचतुष्टयमनोमात्रवृत्ति।
नित्यमेकमनेकानुगतं सामान्यं द्रव्यगुणकर्मवृत्ति। तद्द्विविधं पराऽपरभेदात्। परं सत्ता। अपरं द्रव्यत्वादि।
सामान्यं निरूपयति- नित्यमेकमिति। नित्यत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम्। नित्यत्वविशेषणानुपादाने अनेकसमवेतत्वस्य संयोगादौ सत्त्वात्तत्रातिव्याप्तिस्तद्वारणाय नित्यत्वविशेषणम्। अनेकसमवेतत्वानुपादाने नित्यत्वमात्रोपादाने आकाशादावतिव्याप्तिस्तद्वारणाय अनेकसमवेतत्वम्। अनेकसमवेतत्वानुपादाने नित्यत्वविशिष्टसमवेत्वमात्रोक्तावाकाशगतैकत्वपरिमाणादौ जलपरमाणुगतरूपादौ चातिव्याप्तिः जलपरमाणुगतरूपादेराकाशगतैकत्वपरिमाणादेर्नित्यत्वात् समवेतत्वाच्च। अतः- अनेकेति समवेतविशेषणम्।
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः।
नित्यद्रव्यवृत्तय इति। नित्यद्रव्येषु परमाण्वादिषु वर्तमानाः, अत एव व्यावर्तकाः इतरभेदानुमितिहेतवः। नित्यद्रव्यवृत्तित्वरूपपक्षधर्मता- प्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः। नित्यद्रव्यनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं विशेषाणां लक्षणमिति भावः। पार्थिवपरमाणौ जलादिभेदानुमापकगन्धेऽतिव्याप्तिवारणाय एकमात्रवृत्तित्वं भेदविशेषणम्। घटादौ तदितरभेदानुमापके तद्रूपादावतिव्याप्तिवारणाय निरूपितान्तं प्रकारताविशेषणम्। एतेन ‘व्यावर्तका’ इत्यस्य नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि नित्यद्रव्यवृत्तय इति विफलमेव, स्वरूपाख्यानस्यापि कृतत्वादिति प्रत्युक्तम्।
नित्यसम्बन्धः समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तौ अयुतसिद्धौ, यथा अवयवाऽवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति।
समवायं निरूपयति- नित्येति। सम्बन्धत्वं विशिष्टप्रतीतिनियामकत्वम्। तावन्मात्रोक्तौ संयोगेऽतिव्याप्तिरतो नित्य इति विशेषणम्। ययोर्द्वयोर्मध्य इति। यन्निष्ठकालनिरूपिताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः।
अनादिः सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसः। उत्पत्यनन्तरं कार्यस्य। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रति- योगिताकोऽन्योन्याभावः। यथा घटः पटो नेति।
सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम्।
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये।
अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः।।
अत्यन्ताभावं निरूपयति- त्रैकालिकेति। प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे सत्यन्योन्याभावभिन्नत्वे सति अभावत्वम् अत्यन्ताभावस्य लक्षणम्। ध्वंसप्रागभावान्योन्याभावाकाशादीनां वारणाय यथाक्रमं विशेषणोपादानम्। वस्तुतस्तु संसर्गाभावत्वं तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकभावत्वम्। ध्वंसप्रागभावयोश्च न संसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैव तद्वारणे त्रैकालिकेति स्वरूपाख्यानमेवेति बोध्यम्।
अन्योन्याभावं निरूपयति- तादात्म्येति। अभावत्रयवारणाय विशेषणम्। घटाभाववान्नेति प्रतीतिविषयघटादिवारणाय विशेष्यम्।
ननु सादृश्यादीनामतिरिक्तपदार्थानामनिरूपणेन न्यूनतेत्यत आह- सर्वेषामिति। प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वादजल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः इति न्यायस्यादिमसूत्रे उक्तानां प्रमाणप्रमेयादीनामित्यर्थः। तद्भिन्नत्वविशिष्टतद्गतभूयोधर्मरूपसादृश्यस्यापि घटपटादिरूपत्वेन नातिरिक्तत्वम्। एवमन्येषामप्यूह्यम्।
काणादेति। कणादेस्येदं काणादम्। काणादन्यायमतमिति द्वन्दगर्भकर्मधारयः। कणादप्रोक्तगौतमप्रोक्तमतयोरिति यावत्। काणादन्यायाभिन्नमतद्वयविषयकबालसमवेताभिन्नव्युत्पत्तिसिद्धिप्रयोजकान्नंभट्टविद्वन्निष्ठभूतकालीनकृतिविषयाभिन्नस्तर्कसंग्रहाख्यग्रन्थ इत्यन्वयबोधः।
कृष्णावलम्बिनो गाः पूषा गोवर्धनस्तमभ्यर्चन्।
विपुलाभीरसभाजनजितविबुधेन्द्रस्तवाभिरचनाभिः।।

2 comments:

  1. न्यायबोधिन्या अन्तिमङ्गलाचरणव्याख्या कृपया विधेया ।

    ReplyDelete