तृतीयः
सर्गः
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखं
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ।१।।
अथेति।
अथ गर्भधारणानन्तरं सुदक्षिणा।
उपस्थितोदयं प्राप्तकालं
भर्तुर्दिलीपस्येप्सितं
मनोरथम्। भावे क्तः। पुनः
सखीजनस्योद्वीक्षणानां
दृष्टीनां कौमुदीमुखं
चन्द्रिकाप्रादुर्भावम्
यद्वा कौमुदी नाम दीपोत्सवतिथिः।
तदुक्तं भविष्योत्तरे-'कौ
मोदन्तेजना यस्यां तेनासौ
कौमुदी मता'इति।
तस्या मुखं
प्रारम्भम्।'सखीजनोद्वीक्षणकौमुदीभहम्'-इति
पाठं केचित्पठन्ति। इक्ष्वाकुकुलस्य
सन्ततेरविच्छेदस्य निदानं
मूलकारणम्। निदानं त्वादीकारणम्
इत्यमरः। एवंविधं दौर्हृदलक्षणं
गर्भतिह्नं वक्ष्यमाणं दधौ।
स्वहृदयेन गर्भहृदयेन च
द्विहृदया गर्भिणी। यथाह
वाग्भटः-'मातृजं
ह्यस्य हृदयं मातुश्च हृदयेन
तत्। सम्बद्धं तेन गर्भिण्या
नेष्टं श्रद्धाविमाननम्।।'इति।
तत्सम्बन्धित्वाद् गर्भो
दौर्हृदमित्युच्यते। सा च
तद्योगाद्दौर्हृदिनीति।
तदुक्तं संग्रहे-'द्विहृदया
नारीं दौहृदिनीमाचक्षते।'इति।
अत्र दौर्हृदलक्षणस्येप्सितत्वेन
कौमुदीमुखत्वेन च निरूपणाद्
रूपकालङ्कारः। अस्मिन् सर्गे
वंशस्थं वृत्तम्-'जतौ
तु वंशस्थमुदीरितं जरौ'इति
लक्षणात्।।१।।
शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्यत लोध्रपाण्डुना।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी।।२।।
शरीरेति।
शरीरस्य सादात् कार्श्यादसमग्रभुषणा
परिमिताभरणा लोघ्रपुष्पेणेव
पाण्डुना मुखेनोपलक्षिता
सा सुदक्षिणा। विचेया
मृग्यास्तारका यस्यां सा
तथोक्ता। विरलनक्षत्रेत्यर्थः।
तनुप्रकाशेनाल्पकान्तिना
शक्तिनोपलक्षितेषदसमाप्तप्रभाता
प्रभातकल्पा।
प्रभातादीषदूनेत्यर्थः।'तसिलादिष्वाकृत्वसुच्'इति
प्रभातशब्दस्यपुंवद्भावः।
शर्वरी रात्रिरिव। अलक्ष्यत।
शरीरसादादिगर्भलक्षणमाह
वाग्भटः-'क्षामता
गरिमा कुक्षेर्मूर्च्छा
छर्दिरोचकम्। जृम्भा प्रसेकः
सदनं रेमराज्याःप्रकाशनम्।।'इति।।२।।
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्।।३।।
तदिति।
क्षितीश्वरो रहसि मृदा सुगन्धि
तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय
तृप्तिं न ययौ। कः कमिव।
शुचिव्यपाये ग्रीष्मावसाने।'शुचिःशुद्धेऽनुपहते
शृङ्गाराषाढयोः सिते। ग्रीष्मे
हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि।।'इति
विश्वः। पयोमुचां मेघानां
पृषतैबिन्दुभिः।'पृषन्ति
बिन्दुपृषताः'इत्यमरः।
सिक्तमुक्षितं वनराज्याः
पल्वलमुपाघ्राय करी गज इव।
अत्र करिवनराजिपल्वलानां
कान्तकामिनीवदनसमाधिरनुसन्धेयः।
गर्भिणीनां मृद्बक्षणं
लोकप्रसिद्धमेव। एतेन दोहदाख्यं
गर्भलक्षणमुच्यते।।३।।
दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङघ्य सा।।४।।
हि
यस्माद्दिगन्तविश्रान्तरथः(दिगन्ते
दिशां प्रान्ते विश्रान्तः
रथः स्यन्दनो यस्य सः)चक्रवर्ती
तस्याः सुतस्तत्सुतः।
मरुत्वानिन्द्रः।''इन्द्रो
मरुत्वान्मघवा''इत्यमरः।
दिवं स्वर्गमिव।
भुवं(महीं)भोक्ष्यते।''भुजोनवने''इत्यामनेपदम्।
अतः प्रथमं(पूर्वं)सा
सुदक्षिणा तथाविधे भूविकारे
मृद्रूपे। अभिलष्यत इत्यभिलाषो
भोग्यवस्तु। तस्मिन्। कर्मणि
घञ्प्रत्ययः। रस्यन्ते
स्वाद्यन्त इति रसा भोग्यार्थाः।
अन्ये च ते रसाश्च
तान्(मधुरतिक्ताम्लान्)विलङ्घ्य
विहाय मनो बबन्ध(भावं
चक्रे)विदधावित्यर्थः।
दोहदहेतुकस्य मृद्भक्षणस्य
पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते।।४।।
न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः।।५।।
मगधस्य
राज्ञोपत्यं स्त्री मागधी
सुदक्षिणा।''द्व्यञ्मगधकलिङ्गसूमसादण्''इत्यण्प्रत्ययः।
ह्रिया(लज्जया)किंचित्किमपीप्सितमिष्टं
मे मह्यं न शंसति नाचष्टे।
केषु वस्तुषु
स्पृहावती(साभिलाषा)इत्यनुवेलमनुक्षणमादृत
आदृतवान्। कर्तरि क्तः।''आदृतौ
सादरार्चितौ''इत्यमरः।
प्रियायाः सखीः सहचरीरुत्तरकोशलेश्वरो
दिलीपः पृच्छति स्म पप्रच्छ।''लट्
स्मे''इत्यनेन
भूतार्थे लट्। सखीनां
विश्रम्भभूमित्वादिति
भावः।।५।।
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम्।
न हीष्टमस्य त्रिदिवेपि भूपतेरभूदनासाद्यमधिज्यधन्वनः।।६।।
उपेत्येति।
दोहदं गर्भिणीमनोरथः।'दोहदं
दौर्त्हूदं श्रद्धा लालसं
च समं स्मृतम्'इति
हलायुधः। सा सुदक्षिणा दोहदेन
गर्भिणी मनोरथेन दुःखशीलतां
दुःखस्वभावतामुपेत्य प्राप्य
यद्वस्तु वव्रे आचकाङ्क्ष
तदाहृतमानीतम्। भर्त्रेति
शेषः। अपश्यदेव। अलभतेत्यर्थः।
कुतः। हि यस्मादस्य भूपतेस्त्रिदिवेऽपि
स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं
नाभूत्। किं याञ्चया। नेत्याह
अधिज्यधन्वन इति। नहि
वीरपत्नीनामलभ्यं नाम
किञ्चदस्तीति भावः। अत्र
वाग्भटः'पादशोफो
विदाहोऽन्ते श्रद्धा च
विविधात्मिका'इति।
एतच्च पत्नीमनोरथपूरणाकरणे
दृष्टदोषसम्भवाद् न तु राज्ञः
प्रीतिलौल्यात्। तदुक्तम्'देयमप्यहितं
तस्यै हितोपहितमल्पकम्।
श्रद्धाविधाते गर्भस्य
विकृतिश्च्युतिरेव वा।।'अन्यत्र
च'दोहदस्याप्रदानेन
गर्भों दोषमवाप्नुयात्'इति।।
६।।
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा।
पुराणपत्त्रापगमादनन्तरं लतेव संनद्धमनोजपल्लवा।।७।।
क्रमेणेति।
सा सुदक्षिणा क्रमेण दोहदव्यथां
च निस्तीर्य प्रचीयमानावयवा
पुष्यमाणावयवा सती।
पुराणपत्रामपगमान्नाशादनन्तरं
संनद्धाः संजाताः
प्रत्यग्रत्वान्मनोज्ञाः
पल्लवा यस्याः सा लतेव रराज।।७।।
दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम्।
तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्।।८।।
दिनेषु
दोहददिवसेषु गच्छत्सु सत्सु
नितान्तपीवरमतिस्थलम्(अत्यर्थमांसलं)।आ
समन्तान्नीले मुखे चूचुके
यसेय तत्। तदीयं स्तनद्वयम्(कुचयुग)।
ब्रमरैरभिलीनयोरभिव्याप्तयोः
सुजातयोः सुन्दरयोः। सुजातं
सुन्दरं प्रोक्तं सत्यजाते
च वस्तुनीति विक्रमः-चा
पङ्कजकोशयोः पद्ममुकुलयोः
श्रियं शोभां तिरश्चकार।
अत्र वाङ्भटः-अम्लेष्टता
स्तनौ पीनौ श्वेतान्तौ
कृष्णचूचुकौ इति।।८।।
निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम्।
नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत।।९।।
नृपः
ससत्त्वामापन्नसत्त्वाम्
सगर्भां गर्भिणींमित्यर्थः।
आपन्नसत्वा स्याद्गुर्विण्यन्तर्वत्नी
च गर्भिणी इत्यमरः। महिषीम्
पट्टराज्ञीं । निधानं निधिर्गर्भे
यस्यास्तां सागराम्बरां
समुद्रवसनाम्। भूमिमिवेत्यर्थः।
भूतधात्री रत्नगर्भा विपुला
सागराम्बरा इति कोशः। अभ्यन्तरे
मध्ये लीनः लग्नः पावकः अग्निः
यस्यास्तां शमीमिव। शमीतरौ
वह्निरस्तीत्यत्र लिङ्गं
शमीगर्भादग्निं जनयतीति।
अन्तःसलिलामन्तर्गतजलां
सरस्वतीं म्लेच्छदेशेषु सा
ह्यन्तर्धाय भूयः पुण्यप्रदेशेषूद्भवतीति
पुराणवार्तेति-व
सरस्वत्याः ऊर्ध्वं वालुकाः
पातालान्तर्गतंजलमितिवार्तामात्रं-चा
नदीमिव एतेनपीनत्वोक्तिः-चा।
अमन्यत।
एतेन गर्भस्य भाग्यवत्त्वतेजस्वित्वपावत्वानि
विवक्षितानि मालोपमा-चा।।९।।
प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम्।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः।।१०।।
धीरः
स राजा प्रियायामनुरागस्य
स्नेहस्य। मनसः समुन्नतेरौदार्यस्य।
भुजेन भुजबलेन करेण वार्जितानाम्।
न तु वाणिज्यादिना। दिगन्तेषु
संपदाम्। धृतेः पुत्रो मे
भविष्यतीति संतोषस्य च।
धृतिर्योगान्तरे धैर्ये
धारणाध्वरतुष्टिषु इति विश्वः।
सदृशीरनुरूपाः। पुमान्सूयतनेनेति
पुंसवनम्(व्यक्ते
गर्भे तृतीये तु मासे पुंसवनं
भवेत्। गर्भेव्यक्ते तृतीये
चेच्चतुर्थे मासिवा भवेदिति
शौनकः। कुर्यात्पुंसवनं
प्रसिद्धविषये गर्भे तृतीयेथवा।
मासि स्फीततनौ तुषारकिरणे
पुष्येथवा वैष्णवे इति वशिष्ठः)।
तदादिर्यासां ताः क्रिया
यथाक्रमं क्रममनतिक्रम्य
व्यधत्त कृतवान्।
आदिशब्देनानवलाभनसीमन्तोन्नयने
गृह्येते। अत्र मासि द्वितीये
तृतीये वा पुंसवनं यदाह-पुंसा
नक्षत्रेण चन्द्रमा युक्तः
स्यात् इति पारस्करः।
चतुर्थेनवलोभनम् इत्याश्वलायनः।
षष्ठेष्टमे वा सीमन्तोन्नयनम्
इति याज्ञवल्क्यः।।१०।।
सुरेन्द्रमात्राश्रितगर्भोरवात्प्रयत्नमुक्तासनया गृहागतः।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।।११।।
गृहागतो
नृपः सुरेन्द्राणां लोकपालानां
मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य
गर्भस्य गौरवाद्भारात्प्रयत्नेन
मुक्तासनया। आसनादुत्थितयेत्यर्थः।
उपचारस्याञ्जलावञ्जलिकरणे
खिन्नहस्तया(उपचारार्थं
योञ्जलिस्तेन खिन्नौ हस्चौ
यस्याः तया तथोक्तया)पारिप्लवनेत्रया
तरलाक्ष्या। चञ्चलं तरलं चैव
पारिप्लवपरिप्लवे इत्यमरः।
तया सुदक्षिणया ननन्द।
सुरेन्द्रमात्राश्रित-इत्यत्र
मनुः-अष्टाभिश्च
सुरेन्द्राणां मात्राभिर्निर्मितो
नृपः इति।।११।।
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमाश्रितामिव।।१२।।
कुमारेति।
अथ कुमारभृत्या बालचिकित्सा।'संज्ञायां
समजनिषद-'इत्यादिना
क्यप्। तस्यां कुशलैः
कृतिभिः।'कृती
कुशल इत्यपि'इत्यमरः।
आप्तर्हितैर्भिषग्भिर्वैद्यैः।'भिषग्वैद्यो
चिकित्सके'इत्यमरः।
गर्भस्य भर्मणि।'भरणे
पोषणे भर्म'इति
हैमः।'भृतिर्भर्म'इति
शाश्वतः। भृञो मगिच्प्रत्ययः'गर्भकर्मणि'इति
पाठे गर्भाधानप्रतीतावौचित्यभङ्गः।
अनुष्ठिते कृते सति। काले
दशमे मासि। अन्यत्र ग्रीष्मावसाने।
प्रसवस्य गर्भमोचनस्योन्मुखीम्।
आसन्नप्रसवामित्यर्थः।'स्यादुत्पादे
फले पुष्पे प्रसवो गर्भमोचने'इत्यमरः।
प्रियां भार्याम्। अभ्राण्यस्याः
सञ्जातान्यभ्रिता ताम्।'तदस्य
सञ्जातं तारकादिभ्य
इतच्'इतीतच्प्रत्ययः।
दिवमिव। पतिर्भर्त्ता प्रतीतो
हृष्टः सन्।'ख्याते
हृष्टे प्रतीतः'इत्यमरः।
ददर्श दृष्टवान्।।१२।।
गृहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सुचितभाक्यसंपदम्।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम्।।१३।।
ग्रहैरिति।
ततः शच्येन्द्राम्या समा।
पुलोमजा शचीन्द्रामी इत्यमरः।
सा सुदक्षिणा समये प्रसूतिकाले
सति दशमे मासीतियर्थः। दशमे
मासि जायते इति श्रतेः।
उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गस्थानगैरसूर्यगरैनस्तनितैः
कैश्चिद्यथासंभवं पढ्चभिर्ग्रहैः
सूचिता भाग्यसंपद्यस्य तं
पुत्रम्। त्रीणि
प्रभावमन्त्रोत्साहात्मकानि
साधनान्युत्पादकानि यस्याः
सा त्रिसाधना शक्तिः।
शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः
इत्यमरः। ट्क्षयमर्थमिव असत।
षूङ् प्राणिगर्भविमोचने
इत्यात्मनेपदिषु पठ्यते।
तस्माद्धातोः कर्तरि लङ्।
अत्रेदमनुसंधेयम्
-अजवृषभमृगाह्गनाकुलीरा
झषवणिजौ च दिवाकरादितुङ्गाः।
दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभश्च
तेस्तनीचाः।। इति। सूर्यादीनां
सप्तानां ग्रहाणां मेषवृषभादयो
राशयः श्लोकोक्तक्रमविशिष्टा
उच्चस्थानानि। स्वस्वतुङ्गापेक्षया
सप्तमस्थानानि च नीचानि।
तत्रोच्चेष्वपि दशमादयो
राशित्रिंशांशा यथाक्रममुच्चेषु
परमोच्चा नीतेषु परमनीचा
इति। सूर्यप्रत्यासत्तिर्ग्रहाणामस्तमयो
नाम। तदुक्तं लघुजातके-
रविणास्तमयो
योगो वियोगस्तूदयो भवेत्
इति। ते च स्वोचेचस्थाः फलन्ति
नास्तगा नापि नीचगाः। तदुक्तं
राजमृगाङ्के-
स्वोच्चे
पूर्मं स्वर्क्षकेर्धं
सुहृद्भे पादं द्विङ्भेल्पं
शुभं खेचरेन्द्रः। नीचस्थायी
नार्तगो वा न किंचित्पादं
नूनं स्वत्रिकोणे ददाति।।
इति। तददमाह कविरुचेचसंस्थैरसूर्यगैरिति
च। एवं सति यस्य जन्मकाले
पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः
स एव तुङ्गो भवति। तदुक्तं
कूटस्थीये-
सुख्नः
प्रकृष्टकार्या राजप्रतिरूपकाश्च
राजानः। एकद्वित्रिचतुर्था
जायन्तेतः परं दिव्याः।।
इति। तदिदमाह-
पञ्चभिरिति।।१३।।
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे।
बभूव सर्वे शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम्।।१४।।
दिश
इति। तत्क्षणं तस्मिन्क्षणे।
कालाध्वनोरत्यन्तसंयोगे
द्वितीया। दिशः प्रसेदुः
प्रसन्ना बभूव। मरुते वाताः
सुखा मनोहरा ववुः। अग्निः
प्रदक्षिणर्चिः सन्हविराददे
स्वीचकार। इत्थं सर्वं शुभशंसि
शुभसूचकं बभूव। तथाहि। तादृशं
रघुप्रकाराणां भवे जन्म
लोकाभ्युदयाय। भवतीति शेषः।
ततो देवा अपि संतुष्टा
इत्यर्थः।।१४।।
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।
निशीथजीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव।।१५।।
अरिष्टशय्यामिति।
अरिष्टं सूतिकागृहम् इत्यमरः।
अरिष्टे सूतिकागृहे शय्यां
तल्पं परितोभितः अभितः परितः
समयानिकसाहाप्रतियोगेपि
इति द्वितीया। विसारिणा
सुजन्मनः शोभनोत्पत्तेः।
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः
इत्यमरः। तस्य शिशोर्निजेन
नैसर्गिकेण तेजसा सहसा हतत्विषः
क्षीणकान्तयो निशीथदीपा
अर्द्धरात्रप्रदीपाः।
अर्धरात्रनिशीथौ द्वौ इत्यमरः।
आलेख्यसमर्पिताश्चित्रार्पिता
इव बभूवुः। निशीथशब्दो दीपानां
प्रभाधिक्यसम्भावनार्थः।।१५।।
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम्।
अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे।।१६।।
जनायेति।
भूपतेर्दिलीपस्यामृतसम्मिताक्षरममृतसमानाक्षरम्।
सरूपसमसम्मिताः इत्याह दण्डी।
कुमारजन्म पुत्रोत्पत्तिं
शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे
जनाय त्रयमेवादेयमासीत्।
तत् किं शशिप्रभमुज्जवलं
छत्रम्। उभे चामरे च। छत्रादीनां
राज्ञः प्रधानाङ्गत्वादिति
भावः।।१६।।
निवातपद्मस्तिमितेन चक्खुषा नृपस्य कान्तं पिबतः सुताननम्।
महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि।।१७।।
निवातेति।
निवातो निर्वातप्रदेशः।
निवातावाश्रयावातौ इत्यमरः।
तत्र यत् पद्मं तद्वत्स्तिमितेन
निष्पन्देन चक्षुषा तेतेरेण
कान्तं सुन्दरं सुताननं
पुत्रमुखं पिबतस्तृष्णया
पश्यतो नृपस्य गुरुरुत्कटऋ
प्रहर्षः कर्त्ता इन्दुदर्शनाद्
गुरुर्महोदधेः पूरो जलौघ इव।
आत्मनि शरीरे न प्रबभूव स्थातुं
न शशाक। अन्तर्न माति स्मेति
यावत्। न ह्यल्पाधारेधिकं
मीयत इति भावः। यद्वा हर्ष
आत्मनि स्वस्मिन्विषये स
प्रबभूव। आत्मानं नियन्तुं
न शशाक। किन्तु बहिर्निर्जगामेत्यर्थः।।१७।।
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ।।१८।।
स
इति। दिलीपसूनुः। तपस्विना
पुरोहितेन। पुरोधास्तु परोहितः
इत्यमरः। वसिष्ठेन।
तपस्वित्वात्तदनुष्ठितं
कर्म सवीर्यैः स्यादिति।
भावः। तपोवनादेत्याकत्य।
अखिले समग्रे जातकर्मणि
कर्त्तव्यसंस्कारविशेषे
कृते सति। प्रयुक्तःसंस्कारः
शाणोल्लेखनादिर्यस्य स
तथोक्तः। आकरोद्भवः खनिप्रभवः।
खनिः स्त्रियामाकरः स्यात्
इत्यमरः। मणिरिव। अधिकं बभौ
वसिष्ठमन्त्रप्रभावात्तेजिष्ठोभूदित्यर्थः।
अत्र मनुः प्राङ्नाभिवर्धनात्पुंसो
जातकर्म विधीयते इति।।१८।।
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम्।
स केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि।।१९।।
सुखेति।
सुखः सुखकरःश्रवः श्रवणं
येषां ते सुखश्रवाः श्रुतिसुखाः।
मङ्गलतूर्थनिस्वना मङ्गलवाद्यध्वनयो
वारयोषितां वेश्यानाम्।
वारस्त्री गणिका वेश्या
रूपाजीवा इत्यमरः।
प्रमोदनृत्यैर्हर्षनर्त्तनैः
सह मागधीपतेर्दिलीपस्य सदामनि
केवलं गृह एव न व्यजृम्भन्त।
किन्तु द्यौरोको येषां ते
दिवौकसः देवाः। पृषोदरादित्वात्साधुः।
तेषां पथ्याकाशेपि व्यजृम्भन्त।
तस्य देवांशत्वाद् देवेपकारित्वाच्च
देवदुन्दुभयोपि नेदुरिति
भावः।।१९।।
न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः।
ऋणाङिधानात्स्वयमेव केवलं तदा रितृणां मुमुचे स बन्धनात्।।
नेति।
रक्षितुः सम्यक्पालनशीलस्य
तस्य दिलीरस्य। अत अव चौराद्यभावात्
संयतो बद्धो न बभूव नाभूत्।
किं तेनात आह-
विसर्जयेदिति।
सुतजन्मना हर्षितस्तोषितः
सन् यं बद्धं विसर्जयेद्धिमोचयेत्।
किन्तु स राजा तदा
रितृणामृणाभिधानाद्धन्धनात्केवलमेकं
यथा तथा स्वयमेव। एक
एवेत्यर्धः। केवलः कृत्स्न
एकश्च केवलश्चावधीरितः इति
शाश्वलः। मुमुते कर्मकर्त्तरि
लिट् स्वयमेव मुक्त इत्यर्धः।
अस्मिन्नर्धे-
एष वा
अनृणो यः रुत्री इति श्रुरिः
र्रमाणम्।।२०।।
श्रुतस्य यायादयमन्तमर्ङकस्तधा परेषां युधि चेति पार्धिवः।
अवेक्ष्य धातोर्गमनार्धमर्धविच्चकार नाम्ना रघुमात्मसम्भवम्।।२१।।
श्रुतस्येति।
अर्धविच्छब्दार्थज्ञः पार्थिवः
पृथिवीश्वरो दिलीपः। अयमर्भको
बलः श्रुतस्य शास्त्रस्यान्तं
पारं यायात्य़ तथा युधि परेषं
शत्रूणामन्तं पारं च यायात्य़
यातुं शक्नुयादित्यर्थः।
शकि लिङ् च इति शक्यार्थे
लिङ्। इति हेतोर्धातोः।
अधिवघिलघिगत्यर्थाः इति
लघिधातोर्गमनाख्यमर्थमर्थवित्तवादनेक्ष्यालोचेय।
आत्मसम्भवं पुत्रं नाम्ना
घुं चकार। लङ्घिबंह्योर्नलोपश्च।
इत्युप्रत्यये बालमूललध्वलमङ्गुलीनां
वा लो रत्वमापद्यते इति
वैकल्पिके रेफादेशे रघुरिति
रूपं सिद्धम्। अत्र शङ्खः
आशौचे तु व्यतिक्रान्ते
नामकर्म विधीयते इति।।२१।।
पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रेशादिव बालचन्द्रमाः।।२२।।
पितुरिति।
स रघुः समग्रसम्पदः पूर्णलक्ष्मीकसेय
पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः
शरीरावयवैः। हरिदश्वदीधितेः
सूर्यस्य रश्मेः।
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
इत्यमरः। अनुप्रनेशाद्वा
चमन्द्रमा इव धिने दिने
प्रतिदिनम् । नित्यवाप्सयोः
इति द्विर्वचनम्। वृद्धिं
पुपोष। अत्र वराहसंरितानचनम्-
सलिलमयेशशिनि
रवेर्दीधितयो मूर्च्छितास्तमो
नैशम्। क्षपयन्ति दर्पणोदरनिहिता
इव मन्दिरस्यान्तः इति।।२२।।
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ।।२३।।
उमेति।
उमावृषाङ्कौ पार्वतीवृषभध्वजौ
शरजन्मना कार्तिकेयेन।
कार्तिकेयो महासेनः शरजन्मना
षडाननः इत्यमरः। यथा ननन्दतुः।
शचीपुरन्दरौ जयन्तेन जयन्ताख्येन
सुतेन। जयन्तः पाकशासनिः
इत्यमरः। यथा ननन्दतुः। तथा
तत्समौ ताभ्यामुमावृषाङ्काभ्यां
शचीपुरन्दराभ्यां च समौ समानौ
सा मागधी नृपश्च तत्सदृशेन
ताभ्यां कुमारजयन्ताभ्यां
सदृशेन सुतेन ननन्दतुः। मागधी
प्राग्व्याखाता।।२३।।
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम्।
विभक्तमष्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत।।२४।।
रथाङ्गेति।
रथाङ्गनाम्नी च रथाङ्गनामा
च रथाङ्गनामानौ चक्रवाकौ
पुमान्स्त्रिया इत्येकशेषः।
तयोर्दम्पत्योर्भावबन्धनं
हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं
यत्प्रेम बभूव तदेकेन केवलेन
ताभ्यामन्येन वा। एके
मुख्यान्यकेवलाः इत्यमरः।
सुतेन विभक्तमपि कृतविभागमपि
परस्परस्योपरि पर्यचीयत
ववृधे। क्रमकर्त्तरि लङ्।
अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः।
यदेकाधारं वस्तु तदाधारद्वये
विभज्यमानं हीयते। अत्र तु
तयोः प्रागेकैककर्तृकमेकैकविषयं
प्रेम सम्प्रति द्वितीयविषयलाभेपि
नाहीयत। प्रत्युतोपचितमेवाभूदिति
भावः।।२४।।
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम्।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन तनान सोर्भकः।।२५।।
उवाचेति।
सोर्भकः शिशुः। पोतः पाकोर्भको
डिम्भः पृथुकः शावकः शिशुः
इत्यमरः। धात्र्योपमात्रा।
धात्री जनन्यामलकीवसुमत्युपमातृषु
इति विश्वः। प्रथममुतीतमुपदिष्टं
वच उवाच। तदीयामङ्गुलिमवलम्ब्य
ययौ च। प्रणिपातस्य शिक्षयोपदेशेन
नम्रोभूच्च। इति यत्तेन
पितुर्मुदं ततान।।२५।।
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ।।२६।।
तमिति।
शरीरयोगजैः सुखैस्त्वचि
त्वगिन्द्रिचेमृतं निषिञ्चन्तं
वर्षन्तमिव तं पुत्रमङ्कमारोप्य
मुदाविर्भावादुपान्तयोः
प्रान्तयोः संमीलितलोचनः
सन् नृपश्चिरात्सुतस्पर्शरसज्ञतां
ययौ। रसः स्वादः।।२६।।
अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम्।
स्वमूर्त्तिभेदेन गुणाग्र्यवर्त्तिना पतिः प्रजानामिव सर्गमात्मनः।।२७।।
अमंस्तेति।
स्थितेरभेत्ता मर्यादापालकः
स नृपः परार्ध्यजन्मनोत्कृष्टजन्मनानेन
रघुणान्वयं वंशम्। प्रजानां
पतिर्ब्रह्मा। गुणाः सत्वादयः।
तेष्वग्र्येण मुख्येन सत्वेन
वर्त्तते व्याप्रियत इति
गुणाग्र्यवर्त्ती तेन। स्वस्य
मूर्त्तिभदेनावतारविशेषेण
विष्णुनात्मनः सर्गं सृष्टिमिव।
स्थितिमन्तं प्रतिष्ठावन्तममंस्त
मन्यते स्म। मन्यतेरनुदात्तत्वादिट्प्रतिषेधः।
अन्नोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र
योज्यानि। तत्र रघुपक्षे गुण
विद्याविनयादयः। गुणोप्रधाने
रूपादौ मौर्व्यं सूदे वृकोदरे।
स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु।।
इति विश्वः। शेषं सुगमम्।।२७।।
स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः।
लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत्।।२८।।
चूडा
कार्या द्विजातीनां सर्वेषामेव
धर्मतः। प्रथमेऽब्दे तृतीये
वा कर्तव्या श्रु इति
मनुस्मरणात्तृतीये वर्षे
नृत्तचूलो निष्पन्नचूजाकर्मा
सन् वृत्तं जातं काक यस्य
सः। डलयोरभेदः। स रघुः। प्राप्ते
तु पञ्चमे वर्षे विद्यारम्भं
च इति वचनात्पञ्चमे वर्षे
चलकाकपक्षकैश्चञ्चलशिखण्डकैः।
बालानां तु शिखा प्रोक्ता
काकपक्षः शिखण्डकः इति हतायुधः।
सवयोभिः स्निग्धैः
समानवयस्कचलकाकपक्षकैः-चा।
स्निग्धो वयस्यः सवयाः इत्यमरः।
अमात्यपुत्रैरन्वितः युक्तः
सन्। लिपेः पञ्चाशद्वर्णात्मिकाया
मातृकाया यथावद्ग्रहमेन
सम्यग्बोधेनोपायभूतेन वाह्मयं
शब्दजातम्। नद्या मुख द्वारम्।
मुख तु लदने मुख्यारम्भे
द्वाराभ्युपाययोः इति यादनझ।
तेन सरिद्वारेण कश्चिन्मकरादि
समुद्रमिव। आविशत्प्रविष्टः।
ज्ञातवानित्यर्थः।
मृत्तचूडकमालिपिसख्यानां
चायुजीत इति चाणक्यः।
अथोपनीतं विधिवद्विपश्चिचे विनिन्युतेनं गुरवो गुरुप्रियम्।
अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तृपहिता प्रनीदति।।२९।।
गर्भाष्टमेऽब्दे
कुर्वीत ब्राह्मणस्योपनायनम्।
गर्भादेकादशे राज्ञो गर्भाच्च
द्वादशे विशः इति मनुसमरमादथ
गर्भैकादशेऽब्दे विधिवदुपनीतं
गुरुप्रियमेनं रघुं विपश्चिते
विद्वांसो गुरवो विनिन्युः
शिक्षितवन्त। ते
गुरवोऽत्रास्मिन्रघाववन्ध्ययत्नाः
सफलप्रयत्नाः च बभूवुः। तथाहि।
क्रिया शिक्षा। क्रिया तु
निष्कृतौ शिक्षाचिकित्सोपायकर्मसु
इति यादवः। वस्तुनि पात्रभृते
श्रेष्ठे उपहिता प्रयुक्ता
प्रसीदति फलति पात्रविशेषन्यस्तं
गुणान्तरं ब्रजति शिल्पमाधातुः
जलमिवसमुद्रशुक्तौ मुक्ताफलतां
पयोदस्येत्येवं समार्थः
श्लोकांशः। क्रिया हि द्रव्य
विनयति नाद्रव्यम् इति
कोटिल्यः।।२९।।
धियः समग्रः स गुणरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः।
ततार विद्याः पवनातिपातिभिर्दिशो हरित्भिर्हरितामिवेश्वरः।।३०।।
अत्र
कामन्दकः शुश्रूषा श्रवणं
चैव ग्रहणं घारणं तथा।
ऊहापोहोऽर्थविज्ञानं
तत्त्वज्ञानं च धीगुणाः इति।
आन्वीक्अषिकी त्रयी वार्ता
दण्डनीतिश्च शाश्वती। एता
विद्याश्चतस्रस्तु लोकसस्थितिहेतवः
इति च । उदारधीरुत्कऋष्टबुद्धिः
शुश्रूषा श्रवणं चैव ग्रहणं
चितन तथा कथन स्थितिहेतवः
इति कामन्दकः-चा
स रघुः समग्रैर्धियः बुद्धेः
गुणैः। चत्वारोऽर्णवा उपमा
यासां दाश्चतुरर्णवोपमाः
एतेन विद्यानां महत्त्वं
-चा।
तद्धितार्थोतेतरपदसमाहरे
च इतियुत्तरपदसमासः।आन्वीक्षिक्यादि
चतस्रो विद्याः। हरितां
दिशामीश्वरः सूर्यः पवनातिपातिभिः
वायुमतिक्रमितुं शीलं येषां
तैः वातादपि वेगवत्तरैः
हरिद्भिः नीलतुरगै)
निजाश्वैः।
हरित्ककुभि वर्णे च तृणवाजिविशेषयोः
इति विश्वः। चतस्रो दिश इव।
क्रमात्ततार पारं ययौ।
चतुर्वोपमत्वं दिषामपि
द्रष्टव्यम्।।३०।।
त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत्।
न केवलं तद्गुरुरेकपार्थिवः क्षितावश्रृदेकधनुर्धरोऽपि सः।।३१।।
स
रघुः। कार्ष्णरौरवबास्तानि
चर्माणि ब्रह्मचारिणः।
वसीरन्नानुपूर्व्येण
शाणक्षौमादिकानि च इति
मनुस्मरणान्मेध्यां शुद्धां
रौरवी रुरुसबन्थिनीम्
रुरुश्चित्रमृगस्तत्संबन्धिनीं
रुरुर्महाकृष्णसारः इति
यादवः। त्वच चर्म परिधाय
वसित्वा आच्छाद्य
मन्त्रवत्समन्त्रकमस्त्रमाग्रेयादिकं
पितुरेवोपाध्यायादशिक्षताभ्यस्तवान्।
आख्यातोपयोगे इत्यपादानसंज्ञा।
पितुरेवेत्यवधारणमुपपादयति
नेति। तद्गुरुरेकोऽद्वितीयः
पार्थिवः केवलं पृथिवीश्वर
एव नाभूत्। किन्तु क्षितौ स
दिलीप एको धनुर्धरोऽप्यभूत्
धत्ते त्वचं रौरवीमित्येवं
समार्थः श्लोकांशः।।३१।।
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रश्रावं कलभः श्रयन्निवि।
रघुः क्रमाद्योवनभिन्नशंशवः पुपोष गाम्भीर्यमनोहरं वपुः।।३२।।
रघुः
क्रमाद्यौवनेन भिन्नशैशवो
निरस्तशिशुभावः सन्। महानुक्षा
महोक्षो महर्षभः। अचतुर
आदिसूत्रेण निपातनादकारान्तत्वम्।
तस्य भावस्तत्ता। तां
स्पृशन्गच्छन्वत्सतरो दम्य
इव। दम्यवत्सतौ समौ इत्यमरः।
द्विपन्द्रभाव महागज्ञत्व
श्रयन्व्रजन्कलभः कलभास्त्रशदब्दकः
इतिहैमः कोपः-
चा करिपोत
इव। गाम्भीर्येणाचापलेन
मनोहरं रम्यं वपुः शरीरं
पुपोष।।३२।।
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः ।
नरेन्द्रकन्यास्तं अवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ।।३३।।
गौर्नादित्ये
बलीवर्दे क्रतुभेदर्षिभेदयोः।
स्त्री तु स्याद्दीशी भारत्यां
भूमौ च सुरभावपि। पुंस्त्रियोः
स्वर्गवज्राग्बुरशिमदृग्बाणलोमसु
इति केशवः। गावो लोमानि केशा
दीयन्ते खम्ड्यन्तेऽस्मिन्निति
व्युत्पत्त्या गोदानं नाम
ब्राह्मणादीनां षोडशादिषु
वर्षेषु कर्तव्यं केशान्ताख्यं
कर्मोच्यते गोप्रशंसापूर्वकं
तद्दानप्रकारः इति -हे।
तदुक्तं मनुना-
केशान्तः
षोडशे वर्षे ब्राह्मणस्य
विधीयते। साजन्यबन्धोर्द्वाविंशे
वैश्यस्य द्व्यधिके ततः इति।
अथ गुरुः पिता। गुरुर्गीष्पतिपुत्राद
इत्यमरः। अस्य गोदानविधेरनन्तरं
विवाहदीक्षां निरवर्तयत्
गृहस्थाश्रममश्राययत्
कृतवानित्यर्थः। अथ
नरेन्द्रकन्यास्तं रघुम्।
दक्षस्य सुता रोहिण्यादयस्तमोनुदं
चन्द्रमिव। तमोनुदोग्रिचन्द्रार्काः
इति विश्वः। सत्पतिमवाप्याबभुः
शुशुभिरे। रघुरपि तमोनुत्।
अत्र मनुः-
वेदानधीत्य
वेदौ दा वेदं वापि यथाक्रमम्।
अविप्लुतब्रह्मचर्यो
गृहस्थाश्रममाविशेत् इति।
ब्रह्मचर्यमावोडशात्तु ततो
गोदानानन्तरं दारकर्मेति
चाणक्यः-चा
सम्प्रति यौवराज्ययोग्यतामाह।।३३।।
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः ।
वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ।।३४।।
युवा
तरुणः युगो नाम धुर्यस्कन्धगः
सच्छिद्रप्रान्तो यानाङ्गभूतो
दारुविशेषः। यानाद्यङ्गे
युगः पुंसि युगं युग्मे कृतादिषु
इत्यमरः। युगवद्व्यायतौ
दीर्घौ बाहू यस्य सः। अंसावस्य
स्त इत्यंसलो बलवान्। मांसलश्चेति
वृत्तिकारः मनोज्ञस्कन्धः-सु।
बलवान्मांसलोंऽसलः इत्यमरः।
वत्सांसाभ्यां कामबले इति
लच्प्रत्ययः। कपाटवक्षाः
कपाटवद्विशालं विस्तीर्ण
वक्षो हृदयं यस्य सः। परिणद्धकन्धरः
परिणद्धा दृढा कन्थरा ग्रीवा
यस्य सः। विषालग्रीवः। परिणाहो
विषालता इत्यमरः। रघुर्वपुषः
प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं
पितरमजयत्। तथापि विनयान्नम्रत्वेन
नीचैरल्पकोऽदृश्यत। अनौद्धत्यं
च विवक्षितम्। सम्प्रति तस्य
यौवराज्यमाह-।।३४।।
ततः प्रजानां चिरं आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरं ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ।।३५।।
तत
आत्मना स्वेन चिरं चिरकालं
धृतां गृहीतां नितान्तगुर्वीम्
अत्यन्तगरिष्ठां वोतो गुणवचनात्
इति ङीष्। प्रजानां धुरं
पालनप्रयासं भां लघयिष्यता
लघुं करिष्यता। तत्करोति
तदाचष्टे इति लघुशब्दाणणिच्।
ततो लृटः सद्वा इति शतृप्रत्ययः।
नृपेण दिलीपेनासौ रघुर्निसर्गेण
स्वभावेन संस्कारेण
शास्त्राभ्यासजनितवासनया
च विनीतो नम्र इति हेतोः।
युवराज इति शब्द भजतीति
तथोक्तम्। भजो ण्विः इति
ण्विप्रत्ययः। चक्रे कृतः।
द्विविधो विनयः स्वाभविक
कृत्रिमश्च इति कौटिल्यः।
तदुभयसंपन्नत्वात्पुत्रं
युवराजं चकारेत्यर्थः यौवराज्यं
स्थापितः। अत्र कामन्दकः-
विनयोपग्रहान्भूत्यै
कुर्वीत नृपतिः सुतान्।
अविनीतकुमारं हि कुलमाशुविशीर्यते।
विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत्
इति।।३५।।
नरेन्द्रमूलायतनादनन्तरं घनव्यपायेन गभस्तिमानिव ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलं ।।३६।।
गुणान्विनयादीन्सौरभ्यादीश्चाभिलषतीति
गुणाभिलाषिणी श्री राज्यलक्ष्मीः
पद्माश्रया च नरेन्द्रो दिलीप
एव मूतायतनं प्रधानस्थान
तस्मात्। अपादानात्। अनन्तरं
संनिहितम्। युवराज इति संज्ञास्य
संजाता युवराजसज्ञितम्।
तारकादित्वादितच्प्रत्ययः।
आत्मनः पदं स्थानमास्पदम्।
आस्पदं प्रतिष्ठायाम् इति
निपातः। स रघुरित्यास्पद
तदास्पदम्।
कमलाच्चिरोत्पन्नान्नवावतारमचिरोत्पन्नमुत्पलम्व।
अशेन भागेन अगच्छत् प्रभावः
सूचिता मैत्री त्याग सत्यं
क्षमार्जवं कुलं शील दमश्चेति
गुणा सम्पत्तिहेतवः इति
कामन्दकः-चा
स्त्रियो हि यूनि रज्यन्ते
इति भावः।।३६।।
विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ।।३७।।
सारथिना
सहायभूतेन।
एतद्विशेषणमुत्तरवाक्येष्वप्यनुषञ्जनीयम्।
वायुना विभावसुर्वह्निरिव।
सूर्यवह्नी विभावसू इत्यमरः।
घनव्यपायेन घनानां मेघानां
व्यपायो नाशो यत्र तेन शरत्समयेन
सारथिना गभस्तिमान्सूर्य
इव। कटो गण्डः। गण्डः कटो मदो
दानम् इत्यमरः। तस्य प्रभेदः
स्फुटनम् गल्लस्थलमदक्षरणः
मदोदय इत्यर्थः। तेन करीव।
पार्थिवो दिलीपस्तेन
रघुणातितरामत्यन्तं सुदुःसहः
सोढुमशक्यः सुष्ठ्वसह्यो
बभूव।।३७।।
नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतं ।
अपूर्णं एकेन शतक्रतूपमः शतं क्रतूना अपविघ्नं आप सः ।।३८।।
शतक्रतुरिन्द्र
उपमा यस्य स शतक्रतूपमः
इन्द्रतुल्यः स दिलीपः। शतं
वै तुल्या राजपुत्रा देवा
आशापालाः इत्यादिश्रुत्या।
राजसुतैः सामान्यराजपुत्रैः
अनुद्रुतमनुगतं धनुर्धरं
धानुष्कं तं रघुं होमतुरंगाणां
रक्षणे नियुज्य व्यापार्य।
एकेन क्रतुनापूर्णमेकोन
क्रतूनामश्वमेधानां
शतमपविघ्नमपगतविघ्नं
प्रत्यूहरहितं यथा तथाप।।३८।।
ततः परं तेन मखाय वज्वना तुरंगं उत्सृष्टं अनर्गलं पुनः ।
धनुर्भृतां अग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ।।३९।।
ततः
परमकोनशतक्रतुप्राप्त्यनन्तरं
यज्वना विधिनष्टवता तेन
दिलीपेन पुनः पुनरपि मखाय
मख याग कर्तुम्। क्रिथार्थोपपदस्य
इत्यादिना चतुर्थी। उत्सृष्टं
मुक्तमनर्गलमप्रतिबन्धम्।
अव्याहतस्वैरगतिमित्यर्थः।
अपर्यावर्तन्तोऽश्वमनुचरन्ति
इत्यापस्तम्बस्मरणात्।
तुरंगं धनुर्भृतां अनादरे
षष्ठी रक्षिणां रक्षकाणामग्रतः
पुरस्तात् एव शक्रः इन्द्रः
गूढविग्रहः गुप्तकायः सन्
अन्तर्हितशरीरः सन्। अर्थादात्मानं
निगुह्य। जहार किल।
किलेत्यैतिह्ये।।३९।।
विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगं ईक्षसे ।
धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशेऽथ नन्दिनी ।।४०।।
तत्कुमारस्य
सैन्यं सेना रघुकटकं सपदि
सद्यः। वाषाद इष्टनाशकृतो
मनोभङ्गः। तदुक्तम्-
विषादश्चेतसो
भङ्ग उपायाभावनाशयोः इति।
तेन लुप्ता नष्टा प्रतिपत्तिः
कर्तव्यज्ञान यस्य तत्तथोक्तम्।
विस्मितमश्वनाशस्याकस्मिकत्वादाश्छर्याविष्टं
सत् निश्चल स्थित तस्थौ। अथ
श्रुतप्रभावा श्तुतः प्रभावो
रघुत्पत्तिवरप्रदानलक्षणो
यस्याः आकर्णितमाहात्म्या-चा
यदृच्छया स्वेच्छयागता। रघोः
स्वप्रसादलब्धत्वादनुजिघृक्षयेति
भावः। नन्दिनी नाम वशिष्ठधेनुश्छ
ददृशे। द्वौ चकारावविलम्बसूचकौ
द्वौ चकारौ तुल्यकालापेक्षां
गमयेते-चा
।।४०।।
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सतां ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ।।४१।।
सतां
भव्यजनानां मध्ये पुरस्कृतः
पूजितो दिलीपनन्दनो रघुः
पुण्येन पवित्रेण तस्या
नन्दिन्या यदङ्गं तस्य निस्यन्दो
द्रवः स एव जलम्। मूत्रमित्यर्थः।
तेन स्वेदेनेति-चा
। लोचने नेत्रे प्रमृज्य
शोधयित्वा।
अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु।
अत्यादयः क्रान्ताद्यर्थे
द्वितीयया इति समासः।
द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु।
परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्नत्वम्।
भावेष्वपि वस्तुषूपपन्नदर्शनः
सपन्नसाक्षात्कारशक्तिर्बभूव।।४१।।
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः ।
पुनः पुनः सूतनिषिद्धचापलं हरन्तं अश्वं रथरश्मिसंयतं ।।४२।।
नरदेवसम्भवः
नरदेवाद्दिलीपात्संभवः
उत्पत्तिर्यस्य स रघुः पुनः
मुहुर्मुहुः सूतेन सारथिना
निषिद्धचापलं निवारितौद्धत्यं
चाञ्चल्यं रथस्य रश्मिभिझ
प्रग्रहैः। किरणप्रग्रहौ
रश्मी इत्यमरः। संयतं बद्धमश्वं
हरन्त पर्वतपक्षामां गिरिपक्षाणाम्
शातनं छेदकं देवमिन्द्रं
पूर्वतझ पूर्वस्या दिशि ददर्श
अद्राक्षीत्।।४२।।
स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचदेनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ।।४३।।
रघुस्तमश्वहर्तारमनिमेषवृत्तिभर्निमेषव्यापारशून्यैरक्ष्यमां
नैत्राणां शतैर्हरिभिर्हरिद्वर्णैः
नीलवर्णैः-सु।
हरिर्वाच्यवदाख्यातो
हरित्कपिलवर्णयोः इति विश्वः।
वाजिभिरश्वैश्च हरिभिन्द्रं
विदित्वा ज्ञात्वा।
हरिर्वातार्कचन्द्रन्द्रयमोपेन्द्रमनीचिषु
इति विश्वः। एनमिन्द्रं
गगनस्पृशा व्योमव्यापिना
धीरेण गभीरेण स्वरेण ध्वनिनैव
निवर्तयन्निव व्यावर्तयन्निव
मवोचत् गगनस्पृशा धीरेण च
भीत्यभावोक्तिः-चा।।४३।।
मखांशभाजां प्रथमो मनीषिभिस्त्वं एव देवेन्द्र सदा निगद्यसे ।
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ।।४४।।
हे
देवेन्द्र सुरनायक मनीषिभिः
विद्वद्भिः त्वमेव मखांशभाजां
यज्ञभगभुजां प्रथमः आद्यः।
आदौ प्रधाने प्रथमे इति शाश्वतः
सदा निगद्यसे कथ्यसे।
तथाप्यजस्रदीक्षायां
नित्यदाक्षायां प्रयतस्य
सावधानस्य मद्गुरोः मम पितुः
क्रियाविघाताय क्रतुविघाताय।
क्रियां विहन्तुमित्यर्थः।
तुमर्थाच्च भाववचनात् इति
चतुर्थी। कथं प्रवर्तसे
ईदृशस्त्व मम पितुर्मखनाशाय
कथं प्रवृत्तः इति भावः।।४४।।
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधि।।४५।।
त्रयाणां
लोकानां समाहारस्त्रिलोकं
तस्य नाथस्त्रिलोकनाथः।
तद्धितार्थ-इत्यादिनोत्तरपदसमासः।
तेन त्रैलोक्यनियामकेन
दिव्यचक्षुषातीन्द्रियार्थदर्शिना
सर्वज्ञेन त्वया मरवद्विषः
क्रतुविघातकाः दैत्याः सदा
नियम्या ननु शिक्ष्याः खलु।
स त्वं धर्मचारिणां धर्मात्मनां
कर्मसु क्रतुषु स्वयमन्तरायो
विघ्नो भवसि चेत्। विधिरनुष्ठानं
च्युतः क्षतः नष्टः। लोके
सत्कर्मकथैवास्तभियादित्यर्थः।।४५।।
तदङ्गं अग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुं अर्हसि ।
पतःश्रुतेर्दर्शयितार ईश्वरा मलीमसां आददते न पद्धतिं ।।४६।।
हे
मघवन् इन्द्र
तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं
श्रेष्ठमङ्गं साधनममुं तुरंगं
प्रतिमोक्तु प्रतिदातुमर्हसि
योग्यो भवसि। तथाहि। श्रुतेः
पथो दर्शयितारः सन्मार्गप्रदर्शका
ईश्वरा भवादृशाः महान्तो
मलीमसां मलिनां पद्धतिं मार्ग
नाददते न स्वीकर्वते। असन्मार्ग
नावलम्बन्त इत्यर्थः। मलीमसं
तु मलिनं कच्चरं मलजूषितम्
इत्यमरः।।४६।।
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसां ।
निवर्तयां आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुं उत्तरं ।।४७।।
इति
रघुणा समीरितं उद्घुष्टं
प्रगल्भं प्रौढं वचो निशम्याकर्ण्य।
दिवौकसः स्वर्गौकसः। दिवं
स्वर्गेऽन्तरिक्षे च इति
विश्वः। तेषामधिपतिर्देवेन्द्रो
रघुप्रभावात्सविस्मयः आश्चर्यः
सन्। रथं निवर्तयामास। उत्तरं
प्रतिवक्तुं प्रचक्रमे आरेभे
च।।४७।।
यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः ।
जगत्प्रकाशं तदशेषं इज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ।।४८।।
हे
राजन्यकुमार क्षत्त्रियकुमार।
मूर्धाभिषिक्तो राजन्यो
बाहुजः क्षत्त्रियो विराट्
इत्यमरः। यद्वाक्यमात्थ
ब्रवीषि। ब्रुवः पञ्चानाम्-
इत्यादिनाहादेशः।
तत्तथा सत्यम्। किन्तु यशोधनैः
यशः कीर्तिरेव धनं द्तव्यं
येषां तैः अस्मादृशैः परतः
शत्तरुतो यशो रक्ष्यम् रक्षणीयं।
ततः क्मत आह-
भवद्रुरुस्त्वत्पिता
जगत्प्रकाश लोकप्रसिद्थमशेषं
सर्वं मम तद्यशः साम्प्रतं
इज्यया यागेन लङ्घयितुं
तिरस्कर्तुमुद्यत उद्युक्तः
क्रमितुमुद्युक्तः व्रजयजोभावे
क्यप्-चा।
कं तद्यश इत्याह-।।४८।।
हरिर्यथैकः पुरुशोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः ।
तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ।।४९।।
पुरुषेषूत्तम
इति सप्तमीसमासः। न निर्धारणे
इति षष्ठीसमासनिषेधात्।
कर्मधरये तु सन्महत्परमोत्तमोत्कृष्टाः
पूज्यमानैः इत्युत्तमपुरुष
इति स्यात्। यथा हरिर्विष्मुरेक
एव पुरुषोतेतमः स्मृतः कथितः।
यथा च त्र्यम्बकः शिव एव
महेश्वरः स्मृतः। नापरोऽपरः
पुमान्न। यथा मां मुनयः शतक्रतु
विदुर्विदन्ति। विदो लटो वा
इति झेर्जुसादेशः। नोऽस्माकम्।
हरिहरयोर्मम चेत्यर्थः। एष
त्रितयोऽपि शब्दो द्वितीयगामी
द्वितीयपुरुषगमनशीलः न हि।
द्वितीयाप्रकरणे
गमिगम्यादीनामुपसंखायनात्समासः।।४९।।
अतोऽयं अश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः ।
अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ।।५०।।
यतोऽहमेव
शतक्रतुरतस्त्वदीयस्य पितुरय
शततमोऽश्वः कपिलानुकारिणा
कपिलमुनितुल्येन मयापहरितोऽपहृतः।
अपहारित इति स्वार्थे णिच्।
तवात्राश्वे प्रयत्नेनालम्
कृतं मम समीपात् णश्वस्यापहरणप्रयत्नेन
प्रयत्नो माकारीत्यर्थः।
निषेव्यस्य निषद् प्रति
करणत्वात्तृतीया। सगरस्य
राज्ञः संततेः सतानस्य पदव्यां
सगरचक्रवर्तिपुत्रमार्गे
पदं मा निधा न निधेहि।
निपूर्वाद्धाङ्धातोर्लुङ्।
न माङ्योगे इत्यडागमप्रतिषेधः।
महदास्कन्दन ते विनाशमूलं
भवेदिति भावः पुरा
यज्ञाश्वमन्वेषयमामस्तुगापहार्ययमिति
वदन्तः कपिलमुनिना व्यापादिताः
तथा त्वमपि इति कपिलानुकृत्या
सूचयति-चा।।५०।।
ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता ।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ।।५१।।
ततस्तुरगस्य
रक्षिता रक्षक रघु प्रहस्य
प्रहाम कृत्वा। अवभया निर्भोकः
सन्। पुनः पुरंदरं बभाषे।
किमिति-
हे देवेन्द्र
यद्योषोऽश्वामोचनरूपस्ते
तव सर्गो सगरसुतपदवीं
नेष्यामीत्येवं रूपः सर्गः
-चा
निश्चयः। सर्गः
स्भावनिर्मोक्षनिश्चयाध्यायसृष्टिषु
इत्यमरः। तर्हि शस्त्रं गृहाण।
भान्रघुं मामनिर्जित्य।
कृतमनेनेति कृती।कृतकृत्यो
न खलु। इष्टादिभ्यश्च
इतीनिप्रत्ययः। रघुमित्यनेनात्मतो
दुर्जयत्वं सूचितम्।।५१।।
स एवं उक्त्वा मघवन्तं उन्मुखः करिष्यमाणः सशरं शरासनं ।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ।।५२।।
स
रघुरुन्मुखः ऊर्ध्वाननः सन्।
मघवन्तमिन्द्रमेवमुक्त्वा
गदित्वा शरासनं शराः अस्यन्ते
क्षिप्यन्तेऽनेनेति चापं
सशरं बाणयुक्तं करिष्यमाणः।
आलोढेनालीढाख्येन स्थानकभेदेन
पुरा किल भावान् त्रिपुरदिदृक्षया
दिव्यं वर्षशतमालीढविशेषेण
स्थानाधिक्य़ेन उर्ध्वमुखोध्यतिष्ठदिति-व।
कुकारसम्भवे। सदक्षिणापाङ्गनिविष्चमुष्टि
नतां समाकुश्चितसव्यपदमिति।
नामिता पूर्वजंघा च पश्चिमा
प्रगुणा भवेत् असमो मध्यकायः
स्यादालीढस्य तु लक्षणम्-चा।
विशेषशोभिनातिशयशोभिना
वपुःप्रकर्षेण देहौन्नतेयेन
विडम्बितेश्वरोऽनुसृतपिनाकी
विडम्बिसोऽनुकृतस्त्रिपुरदाहोद्युक्तः
शंभुर्येन स तादृशः सन्।
अतिष्ठत्। आलीढलक्षणमाह
यादवः-
स्थानानि
धन्विनां पञ्च तत्र वैशाखमस्त्रियाम्।
त्रिवितस्त्यन्तरौ पादौ
मण्डलं तोरणाकृति। अन्वर्थं
स्त्यात्समपदमालीढं तु
ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य
प्रत्यालीढविपर्ययः इति।।५२।।
रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकं ।।५३।।
रघोरवष्टम्भमयेन
स्तम्भरूपेण स्थैर्यरूपेण
कांचनमयेन वा-चा।
अवष्टम्भः सुवर्णे च
स्तम्भप्रारम्भयोरपि इति
विश्वः। पत्त्त्रिणा बाणेन
हृदि हृदयं क्षतो विद्धः। अत
एवामर्षणोऽसहनः। क्रुद्ध
इत्यर्थः। गोत्रभिदिन्द्रोऽपि।
सम्भावनीये चौरेऽपि गोत्रः
क्षौणीधरे मतः इति विश्वः।
नवाम्बुदानां नूतनमेघानां
अनाकस्य वृन्दस्य मुहूर्ते
क्षणमात्रं लाञ्छने चिह्नभूते
धनुषि। दिव्ये धनुषीत्यर्थः।
अमोखमवन्ध्यं सायक बाणं समधत्त
संहितवान् योजितवान्।।५३।।
दिलीपसूनोः स बृहद् भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्वं आशुगः कुतूहलेनेव मनुष्यशोणितं ।।५४।।
भीमानां
भयंकराणामसुराणां रक्षसां
शोणिते रुधिरे उचितः परिचितः
स इन्द्रमुक्त आशुगः सायको
दिलीपसनो रघोर्बृहद्विशालं
भजान्तर वक्षः प्रविश्य।
अनास्वादितपूर्वं पूर्वमनास्वादितम्।
सुप्सुपेति समासः। मनुष्यशोणितं
कुतूहलेनेव कौतुकेनेव पपौ।।५४।।
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकं ।।५५।।
कुमारस्य
स्कन्दस्य विक्रम इव विक्रमो
यस्य स तथोक्तः।
सप्तम्युपमानपूर्वस्य-इत्यादिना
समासः। कुमारोऽपि रघुरपि
सुरद्विपस्यैरावतस्यास्फालनेन
प्रोत्सहनेन ताडनेन वा-चा।
कर्कशाः कठिनाः अङ्गुलयो
यस्य सः तथाकुमारसम्भवे।
ऐरावतास्फालनकर्कशेन हस्तेन
पस्पर्श तदङ्गमिन्द्रः।
इत्वेवंरूपः श्लोकांशः.।
तस्मिन्। शच्याः
पत्त्रविशेषकैरङ्कितेशचीपत्त्रविशेषकाङ्किते
हरेरिन्द्रस्य भुजे स्वनामचिह्नं
स्वनामाङ्कितं सायकं निचखान
निखातवान्। निष्कण्टकराज्ये
तस्यायं महानभिभुव इति
भावः।।५५।।
जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजं ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणादिव ।।५६।।
अन्येन
मयूरपक्षिणा मयूरपत्त्रवता
शरेण शक्रस्येन्द्रस्य
महाशनिध्वजं महान्तभशनिपूपं
ध्वजं दम्भोलिरूपां पताकां
जहार चिच्छेद च। स शक्रः।
सुरश्रियः प्रसह्य बलात्कृत्य
केशानां व्यपरोपणादवतारणाच्छेदनादिव।
तस्मै रघवे भृशमत्यर्थं चुकोप।
सं हन्तुमियेषेत्यर्थः।
क्रुधद्रुह-
इत्यादिना
सम्प्रदानाच्चतुर्थी।।५६।।
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः ।
बभूव युद्धं तुमुउलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्त्रिभिः ।।५७।।
जयेषिणोरन्योन्यजयाकाङ्क्षिणोस्तयोरिन्द्ररघ्वोः। गरुत्मन्तः पक्षवन्तः। गरुत्पक्षदा पत्त्रम् इत्यमरः। आशीविषाः। आशिषि दंष्ट्रायां विषं येषां ते आशीविषाः सर्पाः। सपक्षा सर्पा इव। द्रष्टृणां भयावहा इत्यर्थः। तैरधोमुखेरूर्ध्वमुखैश्च। धन्विनोरुपर्यधोदेशावसिथितत्वादिति भावः। पत्त्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च घोर्यस्मिस्तत्तथोक्तं तुमुलं संकुलं रौद्रं युद्धं बभूव।।५७।।अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तं आश्रयं दुष्प्रहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निं इवाद्भिरम्बुदः ।।५८।।
वामवः इन्द्रः अतिप्रबन्धेनातिसातत्येन प्रवाहेण वा प्रहिताभिः प्रत्युक्ताभिरस्त्रवृष्टिभिर्दुष्प्रसहस्य दुःखेन प्रसद्यत इति दुष्प्रसहं तस्य। दुःखेनाप्यसह्यस्येतेयर्थः। तेजसः प्रतापस्याश्रयं आस्थानं तं रघुम्। अम्बुदोऽद्भिः पानीयैः स्वतश्ट्युतं निर्गतं वह्निमिव। निर्वापतितुं न शशाक। रघोरपि लोकपालात्मकस्येन्द्रांशसंभवत्वादिति भावः।।५८।।ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर ।
रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यां अलुनाद्विडौजसः ।।५९।।
ततो रघुर्हरिचन्दनाङ्किते कुंकुमांकिते प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानारणवः वितोड्यमानसमुद्रः इव धीरं गम्भीरं नदतीति तां तथोक्ताम्। वेवेष्टि व्याप्नोतीति विट् व्यापकं भेदकं-चा ओजो यसेय र तस्य विडौजस इन्द्रस्य। पृषोदरातित्वात्साधुः। शरासनज्याम् धनुर्मौर्वीम्। शशाङ्कस्यार्धः खण्ड इव मुखं फल यस्य तेन पत्त्त्रिणा बाणेन अलुनादच्छिनत् गोशीर्षे कुंकुमे देववक्षःश्रीहरिचन्दने इत्यर्द्धनारीश्वरः-चा।।५९।।स चापं उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलं अस्त्रं आददे ।।६०।।
विवृद्धमत्सरः विवृद्धः अत्यन्तभुतः मत्सरः वेरभाव यस्य स तथोक्त)। प्रवृद्धवैरः स इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय। मही धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। तेषा पक्षव्यपरोपणे पक्षच्छेदे उचित स्फुरत्प्रभामणडलमस्त्रं वज्रायुधमाददे जग्राह।।६०।।रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ।।६१।।
रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि हृदये ताडितो हतः सन्। सैनिकानामश्रुभि बाष्पै सह भूमौ मह्यां पपात। तस्मिनपतिते ते रुरुदुरित्यर्थः। निमेषमात्रात् क्षणमात्रात् तद्व्यथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण आनन्देन ये निस्वनाः क्ष्वंडाः शब्दाः तैः सहोत्थितश्च। तस्मिन्नुत्थिते हषोत्सिहनादांशचक्रुरित्यर्थः।।६१।।तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरं अस्य तस्थुषः ।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्निधीयते ।।६२।।
तथापि वज्रपातेऽपि शस्त्राणामायुधानां व्यवहारेण व्यापार्यम निष्ठुरे क्रूर विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन पौरुपाधिक्येन। वृत्रं हतवानिति वृत्रहा। ब्रह्मभ्रूणवृत्रेषु क्विप् तुतोष। स्वय वीर एव वीर जानातीति भावः। कथं शत्रोः सन्तोषोऽत आह-गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्घ्रिर्निधीयते। गुणैः सर्वत्र संक्रम्यत इत्यर्थः। गुणाः शत्रनप्यावर्जयन्तीति भाव।।६२।।असङ्गं अद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढं आयुधं ।
अवेहि मां प्रीतं ऋते तुरंगमात्किं इच्छसीति स्फुटं आह वासवः ।।६३।।
सारवत्तया सारः स्थिरांशः तस्य भावः तया अद्रिप्वप्यसङ्गमप्रतिबन्धं अकुण्ठं मे आयुधं वज्र त्वदन्येन त्वत्तोऽपरेण न विसोढम्। अतो मां पञ्चमी। किमिच्छसीति स्फुटं वासव आह। तुरंगमादन्यददेयं नास्तीति भावः।।६३।।ततो निषङ्गादसमग्रं उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिं ।
नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरं ।।६४।।
ततो नरेन्द्रसुनू रघुः निषङ्गात्तूणीरादसमग्रं यथा तथोद्धतं सुवर्णपुङ्खद्युतिभिः सवर्णस्य पुंखः शरमूलं तस्य द्युतिभिःदीप्तिभिः रञ्जिता अङ्गुलयो येन तमिषं बाणं प्रतिसंहरन्निवर्तयन्। नाप्रहरन्तं प्रहरेदिति निषेधादिति भावः। प्रियं वदतीति प्रियंवदः मधुरवाक्। प्रियवशे वदः खच् इति खच्प्रत्ययः। अरुर्द्विष- इत्यादिना मुमागमः तं सुरेश्वरं प्रत्यवदत्। नतु प्राहरदिति भावः।।६४।।अमोच्यं अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।
अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यतां ।।६५।।
हे प्रभो इन्द्र अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां अनवरतयज्ञदीक्षायां प्रयतः निरतः स मद्गुरुर्मम पिता विधिनैव वेदोक्तप्रकारेण कर्तव्यतयैव कर्ममि समाप्ते पूर्णे सति क्रतोः यज्ञस्य यत्फवं तेन फलेनाशेषेण कृत्स्नेन युज्यतां युक्तोऽस्तु। अश्वमेधफललाभे किमश्वेनेति भावः।।६५।।यथा च वृत्तान्तं इमं सदोगतस्त्रिलोचनैकांशतया दुरासदः ।
तवैव संदेषहराद्विशंपतिः शृणोति लोकेश तथा विधीयतां ।।६६।।
सदोगतः सदोगृहं गतस्त्रिलोचनस्येश्वरस्यैकांशतयाष्टानामन्यतममूर्तित्वात्। दुरासदोऽस्मादृशैर्दुष्प्राप्यः दीक्षितत्वात्त्रिलोचनस्यैकांशत्वेन दुरधिगमः-चा अष्टमूर्तित्वात् यजमानलक्षणांशभावात् दुरभिभवः दुराकलनीयः-व विशांपतिः नरपतिः यथेमं वृत्तान्तं वार्त्तां तव संदेशहराद्वार्ताहरादेव शृणोति च हे लोकेशेन्द्र तथा विधीयताम्।।६६।।तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुरपि न्यवर्तत ।।६७।।
मातलिसारथिरिन्द्रो रघोः सम्बन्धिनं कामं मनोरथं तथेति तथास्त्विति प्रतिशुश्रुवान्। भाषायां सदवसश्रुवः इति क्वसुप्रत्ययः। यथागतं न तु रघुं विजित्येति भावः-चा। ययौ येन मार्गेणायातस्तेनैव गत इतियर्थः-व। सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाक्षान्नातीवतुष्टः सन्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। नृपस्य सदोगृहं दीक्षामण्डपं प्रति न्यवर्तत।।६७।।तं अभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
परामृशन्हर्षजडेन पाणिना तदीयं अङ्गं कुलिशव्रणाङ्कितं ।।६८।।
हरेरिन्द्रस्य शासनहारिणा आज्ञापालकेन पुरुषेँ प्रथमं प्रबोधितो ज्ञापितः। वृत्तान्तमिति शेषः। प्रजेश्वरो दिलीपो हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम् कुलिशस्य वज्रस्य व्रणैः प्रहारैः अंकितं चिह्नितं । तस्य रघोरिदं तदीयम्। अङ्गं शरीसं परामृशंस्तं कघुमभ्यनन्दत्।।६८।।इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
समारौरुक्षुर्दिवं आयुषः क्षये ततान सोपानपरंपरां इव ।।६९।।
महनीयशासनः पूजनीयाज्ञः क्षितीशः भूपतिः इत्यनेन प्रकारेण। इति हेतुप्रकर्षादिसमाप्तिषु इत्यमरः। महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेतोनशतमायुषः क्षये जीवितपूर्णे सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परंपरां पङ्क्तरमिव ततान।।६९।।अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणं ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसां इक्ष्वाकूणा इदं हि कुलव्रतम् ।।७० ।।
अथ विषयेभ्यः रूपगन्धस्पर्शादिभ्यः व्यावृत्तात्मा निवृत्तचित्तः स दिलीपो यथाविधि यथाशास्त्र यूने युवराजाय सूनवे पुत्राय नृपतिककुदं राजचिह्नम्।ककुद्वत्ककुद श्रेष्ठे तृषाङ्के राजलक्ष्मणि इति विश्व। सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छाया शिश्रिये श्रितवान्। वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः। तथाहि। गलितवयसा वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम्। तद्राजसंज्ञकत्वादणोलुक। इदं वनगमनं कुलव्रतं कुलाचारः। देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः। तथा च याज्ञवल्क्यः- सुतविन्यस्तपत्नीकस्तया वानुगतो वनम्। वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् इति। हरिणीवृत्तमेतत्। तदुक्तम्- रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा इति।।७०।।
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसुरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ श्रीरघुवंशे महाकाव्ये रघुराज्याभिषेको नाम तृतीयः सर्गः।
No comments:
Post a Comment